बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
यद्वै तन्न विजानाति विजानन्वै तन्न विजानाति न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्विजानीयात् ॥ ३० ॥
समानमन्यत् — यद्वै तन्न जिघ्रति, यद्वै तन्न रसयते, यद्वै तन्न वदति, यद्वै तन्न शृणोति, यद्वै तन्न मनुते, यद्वै तन्न स्पृशति, यद्वै तन्न विजानातीति । मननविज्ञानयोः दृष्ट्यादिसहकारित्वेऽपि सति चक्षुरादिनिरपेक्षो भूतभविष्यद्वर्तमानविषयव्यापारो विद्यत इति पृथग्ग्रहणम् ॥

यद्वै तन्न पश्यतीत्यादावुक्तन्यायमुत्तरवाक्येष्वतिदिशति —

समानमन्यदिति ।

मनोबुद्ध्योः साधारणकरणत्वात्पृथग्व्यापाराभावे कथं पृथङ्निर्देशः स्यादित्याशङ्क्याऽऽह —

मननेति ।