बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
यद्वै तन्न विजानाति विजानन्वै तन्न विजानाति न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्विजानीयात् ॥ ३० ॥
किं पुनः दृष्ट्यादीनाम् अग्नेरोष्ण्यप्रकाशनज्वलनादिवत् धर्मभेदः, आहोस्वित् अभिन्नस्यैव धर्मस्य परोपाधिनिमित्तं धर्मान्यत्वमिति । अत्र केचिद्व्याचक्षते — आत्मवस्तुनः स्वत एव एकत्वं नानात्वं च — यथा गोः गोद्रव्यतया एकत्वम् , सास्नादीनां धर्माणां परस्परतो भेदः ; यथा स्थूलेषु एकत्वं नानात्वं च, तथा निरवयवेषु अमूर्तवस्तुषु एकत्वं नानात्वं च अनुमेयम् ; सर्वत्र अव्यभिचारदर्शनात् आत्मनोऽपि तद्वदेव दृष्ट्यादीनां परस्परं नानात्वम् , आत्मना चैकत्वमिति । न, अन्यपरत्वात् — न हि दृष्ट्यादिधर्मभेदप्रदर्शनपरम् इदं वाक्यम् ‘यद्वै तत्’ इत्यादि ; किं तर्हि, यदि चैतन्यात्मज्योतिः, कथं न जानाति सुषुप्ते ? नूनम् अतो न चैतन्यात्मज्योतिः इत्येवमाशङ्काप्राप्तौ, तन्निराकरणाय एतदारब्धम् ‘यद्वै तत्’ इत्यादि । यत् अस्य जाग्रत्स्वप्नयोः चक्षुराद्यनेकोपाधिद्वारं चैतन्यात्मज्योतिःस्वाभाव्यम् उपलक्षितं दृष्ट्याद्यभिधेयव्यवहारापन्नम् , सुषुप्ते उपाधिभेदव्यापारनिवृत्तौ अनुद्भास्यमानत्वात् अनुपलक्ष्यमाणस्वभावमपि उपाधिभेदेन भिन्नमिव — यथाप्राप्तानुवादेनैव विद्यमानत्वमुच्यते ; तत्र दृष्ट्यादिधर्मभेदकल्पना विवक्षितार्थानभिज्ञतया ; सैन्धवघनवत् प्रज्ञानैकरसघनश्रुतिविरोधाच्च ; ‘विज्ञानमानन्दम्’ (बृ. उ. ३ । ९ । २८) ‘सत्यं ज्ञानम्’ (तै. उ. २ । १ । १) ‘प्रज्ञानं ब्रह्म’ (ऐ. उ. ३ । १ । ३) इत्यादिश्रुतिभ्यश्च । शब्दप्रवृत्तेश्च — लौकिकी च शब्दप्रवृत्तिः — ‘चक्षुषा रूपं विजानाति’ ‘श्रोत्रेण शब्दं विजानाति’ ‘रसनेनान्नस्य रसं विजानाति’ इति च सर्वत्रैव च दृष्ट्यादिशब्दाभिधेयानां विज्ञानशब्दवाच्यतामेव दर्शयति ; शब्दप्रवृत्तिश्च प्रमाणम् । दृष्टान्तोपपत्तेश्च — यथा हि लोके स्वच्छस्वाभाव्ययुक्तः स्फटिकः तन्निमित्तमेव केवलं हरितनीललोहिताद्युपाधिभेदसंयोगात् तदाकारत्वं भजते, न च स्वच्छस्वाभाव्यव्यतिरेकेण हरितनीललोहितादिलक्षणा धर्मभेदाः स्फटिकस्य कल्पयितुं शक्यन्ते — तथा चक्षुराद्युपाधिभेदसंयोगात् प्रज्ञानघनस्वभावस्यैव आत्मज्योतिषः दृष्ट्यादिशक्तिभेद उपलक्ष्यते, प्रज्ञानघनस्य स्वच्छस्वाभाव्यात् स्फटिकस्वच्छस्वाभाव्यवत् । स्वयञ्ज्योतिष्ट्वाच्च — यथा च आदित्यज्योतिः अवभास्यभेदैः संयुज्यमानं हरितनीलपीतलोहितादिभेदैरविभाज्यं तदाकाराभासं भवति, तथा च कृत्स्नं जगत् अवभासयत् चक्षुरादीनि च तदाकारं भवति ; तथा चोक्तम् — ‘आत्मनैवायं ज्योतिषास्ते’ (बृ. उ. ४ । ३ । ६) इत्यादि । न च निरवयवेषु अनेकात्मता शक्यते कल्पयितुम् , दृष्टान्ताभावात् । यदपि आकाशस्य सर्वगतत्वादिधर्मभेदः परिकल्प्यते, परमाण्वादीनां च गन्धरसाद्यनेकगुणत्वम् , तदपि निरूप्यमाणं परोपाधिनिमित्तमेव भवति ; आकाशस्य तावत् सर्वगतत्वं नाम न स्वतो धर्मोऽस्ति ; सर्वोपाधिसंश्रयाद्धि सर्वत्र स्वेन रूपेण सत्त्वमपेक्ष्य सर्वगतत्वव्यवहारः ; न तु आकाशः क्वचिद्गतो वा, अगतो वा स्वतः ; गमनं हि नाम देशान्तरस्थस्य देशान्तरेण संयोगकारणम् ; सा च क्रिया नैव अविशेषे सम्भवति ; एवं धर्मभेदा नैव सन्त्याकाशे । तथा परमाण्वादावपि । परमाणुर्नाम पृथिव्या गन्धघनायाः परमसूक्ष्मः अवयवः गन्धात्मक एव ; न तस्य पुनः गन्धवत्त्वं नाम शक्यते कल्पयितुम् ; अथ तस्यैव रसादिमत्त्वं स्यादिति चेत् , न, तत्रापि अबादिसंसर्गनिमित्तत्वात् । तस्मात् न निरवयवस्य अनेकधर्मवत्त्वे दृष्टान्तोऽस्ति । एतेन दृगादिशक्तिभेदानां पृथक् चक्षूरूपादिभेदेन परिणामभेदकल्पना परमात्मनि प्रत्युक्ता ॥

वाक्यानि व्याख्याय स्वसिद्धान्तस्फुटीकरणार्थं विचारयति —

किं पुनरिति ।

धर्मभेदो धर्माणां सतां मिथो धर्मिणश्च भेदोऽस्तीति यावत् । धर्मस्य दृष्ट्यादिपदार्थस्येत्यर्थः । परोपाधिनिमित्तं चक्षुरद्युपाधिकृतमित्येतत् । धर्मान्यत्वं धर्मत्वं धर्मिणो मिथोऽन्यत्वं चेत्यर्थः ।

भर्तृप्रपञ्चमतेन पूर्वपक्षं गृह्णाति —

अत्रेति ।

गवादीनां सावयवत्वाद्रूपभेदसंभवादेकेन रूपेणाभिन्नत्वं रूपान्तरेण भिन्नत्वमित्युभयथात्वेऽपि निरवयवेष्वात्मादिषु कथमनेकरसत्वसिद्धिरित्याशङ्क्याऽऽह —

यथा स्थूलेष्विति ।

एकरूपत्वे वस्तुनो दृष्टान्तादृष्टेर्नानारूपत्वे गवादिदृष्टान्तदर्शनात्तदेवानुमेयम् । विमतं भिन्नाभिन्नं वस्तुत्वाद्गवादिवदित्यर्थः ।

यद्यपि गगनादिषु भिन्नाभिन्नत्वमनुमीयते तथाऽपि कथमात्मनि तदनुमानमित्याशङ्क्य वस्तुत्वस्य नानारूपत्वेनाव्यभिचारादात्मन्यपि यथोक्तमनुमानं निरङ्कुशप्रसरमित्याह —

सर्वत्रेति ।

यथोक्तानुमानानुग्रहाद्यद्वै तदित्यादेर्भिन्नाभिन्ने वस्तुनि तात्पर्यमिति भावः ।

भर्तृप्रपञ्चोक्तं वाक्यतात्पर्यं निराकरोति —

नेत्यादिना ।

चैतन्याविनाशे वाक्यतात्पर्यं चेत्कथं तर्हि दृष्ट्यादिभेदवचनमित्याशङ्क्याऽऽह —

यदस्येति ।

तद्धि सुषुप्त्यवस्थायामुपाधेरन्तःकरणस्य चक्षुरादिभेदाधीनपरिणामव्यापारनिवृत्तौ सत्यामुपाधिभेदस्यानुद्भास्यमानत्वात्तेन भिन्नमिवानुपलक्ष्यमाणस्वभावं यद्यपि तथाऽपि चक्षुर्द्वारेण जायमानायां बुद्धिवृत्तौ व्यक्तं चैतन्यं दृष्टिघ्राणद्वारेण जातायां तस्यां व्यक्तं घ्रातिरित्युपाधिभेदात्प्राप्तभेदानुवादेन चैतन्यस्याविनाशित्वे वाक्यतात्पर्यमित्यर्थः ।

उक्ते वाक्यतात्पर्ये स्थिते फलितमाह —

तत्रेति ।

इतश्च दृष्ट्यादिभेदकल्पना न श्लिष्टेत्याह —

सैन्धवेति ।

तदेव स्पष्टयति —

विज्ञानमिति ।

न दृष्ट्यादिभेदकल्पनेति शेषः ।

यथा घटाकाशो महाकाश इत्येकशब्दविषयत्वादुपाधिभेदेऽप्याकाशस्यैकत्वमिष्टं तथैकशब्दप्रवृत्तेरेकत्वं चित्तोऽपि स्वीकर्तव्यं तत्कुतो दृष्ट्यादिभेदसिद्धिरित्याह —

शब्दप्रवृत्तेश्चेति ।

तामेव विवृणोति —

लौकिकी चेति ।

यत्तु सिद्धान्ते दृष्टान्तो नास्तीति तत्राऽऽह —

दृष्टान्तेति ।

किमेकरूपत्वे वस्तुनो दृष्टान्तो नास्ति किं वा मिथ्यात्वे तन्नानारूपत्वस्येति वक्तव्यम् । नाऽऽद्यः । नानारूपवस्तुवादिभिरप्यैकस्यारूपस्यानवस्थापरिहारार्थमनानारूपत्वाङ्गीकारादस्माकं दृष्टान्तसिद्धेर्वस्तुत्वहेतोश्च तत्रैवानैकान्तिकत्वात्तस्मादेकरूपमेव वस्तु स्वीकर्तव्यमिति भावः ।

द्वितीयं दूषयति —

यथा हीति ।

तन्निमित्तमेवेत्यत्र तच्छब्देन स्वच्छस्वाभाव्यं परामृश्यते ।

स्फटिके हरितादिधर्माणां स्वाभाविकत्वं किं न स्यादित्याशङ्क्याऽऽह —

न चेति ।

तस्य हि स्वच्छस्वाभाव्यं तद्वशेन हरिताद्युपाधिभेदसंबन्धव्यतिरेकेणेति यावत् ।

एकस्य नानारूपत्वं मिथ्येत्यत्र दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह —

तथेति ।

आत्मा मिथ्यानानानिर्भास उपहितत्वात्स्फटिकवदित्यर्थः ।

किञ्चाऽऽत्मा मिथ्यानानात्वाधारः स्वच्छत्वात्संप्रतिपन्नवदित्याह —

प्रज्ञानेति ।

किञ्चाऽऽत्मा कल्पित नानात्वाधारो ज्योतिष्ट्वादादित्यादिज्योतिर्वदित्याह —

स्वयमिति ।

आदित्यादावकल्पितोऽपि भेदोऽस्तीत्याशङ्क्य विवक्षितं साम्यमाह —

यथा चेत्यादिना ।

अविभाग्यं वस्तुतो विभागायोग्यमिति यावत् । चक्षुरादीनि चावभासयदिति संबन्धः ।

आत्मनः सर्वावभासकत्वे वाक्योपक्रमं प्रमाणयति —

तथा चेति ।

यत्तु निरवयवेष्वपि नानारूपत्वमनुमेयमिति तत्राऽऽह —

न चेति ।

आकाशादीनां दृष्टान्तत्वमाशङ्क्य निराचष्टे —

यदपीत्यादिना ।

कथमाकाशस्यानेकधर्मवत्वमौपाधिकमित्याशङ्क्य तस्य सर्वगतत्वं तावदौपाधिकमिति साधयति —

आकाशस्येति ।

कथं तर्हि सर्वगतत्वव्यवहारस्तत्राऽऽह —

सर्वोपाधीति ।

नन्वाकाशस्य सर्वत्र गमनमपेक्ष्य सर्वगतत्वं किमिति न व्यवह्रियते तत्राऽऽह —

न त्विति ।

आकाशे गमनायोगं वक्तुं तत्स्वरूपमाह —

गमनं हीति ।

ननु कुतश्चिद्विभागे संयोगे च केनचिद्देशेन तत्कारणीभूता क्रियाऽपि श्येनादाविवाऽऽकाशे भविष्यति नेत्याह —

सा चेति ।

सावयवे हि श्येनादौ क्रिया दृश्यत आकाशं त्वविशेषं निरवयवं कुतस्तत्र क्रियेत्यर्थः ।

तथापि धर्मान्तराण्याकाशे भविष्यन्तीत्याशङ्क्य तेषामपि क्रियापूर्वकाणामुक्तन्यायकवलीकृतत्वमाह —

एवमिति ।

भेदाभेदाभ्यां दुर्वचत्वाच्च तत्र धर्मधर्मिभावो न संभवतीति भावः ।

आकाशे दर्शितन्यायमन्यत्रापि संचारयति —

तथेति ।

पार्थिवत्वं परमाणोरेकं रूपं गन्धवत्त्वं चापरमित्यनेकरूपत्वमित्याशङ्क्याऽऽह —

परमाणुर्नामेति ।

न हि पार्थिवत्त्वातिरेकि गन्धवत्त्वं प्रमाणिकमिति भावः ।

वैशेषिकपरिभाषामाश्रित्य शङ्कयति —

अथेति ।

पार्थिवे परमाणौ रसादिमत्त्वमनौपाधिकं न भवति जलादिसंसर्गकृतत्वात्तथा च निरुपाधिकभेदेनेदमुदाहरणमिति परिहरति —

न तत्रापीति ।

उक्तन्यायस्य दिगादावपि समत्वं मत्वोपसंहरति —

तस्मादिति ।

सन्ति परस्मिन्नात्मनि दृगादिशक्तिभेदास्तेषां मध्ये दृक्शक्तिश्चक्षुरात्मना रूपात्मना च पृथगेव परिणमते घ्रातिशक्तिश्च घ्राणात्मना गन्धात्मना चेत्यनेन क्रमेण परस्मिन्परिणामकल्पना भर्तृप्रपञ्चैर्या कृता साऽपि परस्यैकरूपत्वोपपादनेन निरस्तेत्याह —

एतेनेति ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥ २८ ॥ २९ ॥ ३० ॥