बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येदन्योऽन्यज्जिघ्रेदन्योऽन्यद्रसयेदन्योऽन्यद्वदेदन्योऽन्यच्छृणुयादन्योऽन्यन्मन्वीतान्योऽन्यत्स्पृशेदन्योऽन्यद्विजानीयात् ॥ ३१ ॥
जाग्रत्स्वप्नयोरिव यद्विजानीयात् , तत् द्वितीयं प्रविभक्तमन्यत्वेन नास्तीत्युक्तम् ; अतः सुषुप्ते न विजानाति विशेषम् । ननु यदि अस्य अयमेव स्वभावः, किन्निमित्तम् अस्य विशेषविज्ञानं स्वभावपरित्यागेन ; अथ विशेषविज्ञानमेव अस्य स्वभावः, कस्मादेष विशेषं न विजानातीति । उच्यते, शृणु — यत्र यस्मिन् जागरिते स्वप्ने वा अन्यदिव आत्मनो वस्त्वन्तरमिव अविद्यया प्रत्युपस्थापितं भवति, तत्र तस्मादविद्याप्रत्युपस्थापितात् अन्यः अन्यमिव आत्मानं मन्यमानः — असति आत्मनः प्रविभक्ते वस्त्वन्तरे असति च आत्मनि ततः प्रविभक्तेः, अन्यः अन्यत् पश्येत् उपलभेत ; तच्च दर्शितं स्वप्ने प्रत्यक्षतः — ‘घ्नन्तीव जिनन्तीव’ (बृ. उ. ४ । ३ । २०) इति । तथा अन्यः अन्यत् जिघ्रेत् रसयेत् वदेत् शृणुयात् मन्वीत स्पृशेत् विजानीयादिति ॥

औपाधिको दृष्ट्यादिभेदो न वास्तवोऽस्तीत्युपपाद्य वृत्तमनुद्रवति —

जाग्रदिति ।

 यत्रेत्युत्तरवाक्यव्यावर्त्यामाशङ्कां दर्शयति —

नन्विति ।

किमस्य विशेषविज्ञानराहित्यं स्वरूपं किं वा विशेषविज्ञानवत्वम् । आद्ये जाग्रत्स्वप्नयोरनुपपत्तिः । द्वितीये सुषुप्तेरसिद्धिरिति भावः ।

प्रतीचश्चिन्मात्रज्योतिषो विशेषविज्ञानराहित्यमेव स्वरूपं तथाऽपि स्वाविद्याकल्पितविशेषविज्ञानवत्त्वमाश्रित्यावस्थाद्वयं सिध्यतीत्युत्तरवाक्यमवलम्ब्योत्तरमाह —

उच्यत इत्यादिना ।

तच्चेत्याविद्यं दर्शनमित्यर्थः ॥ ३१ ॥