सलिल एको द्रष्टाद्वैतो भवत्येष ब्रह्मलोकः सम्राडिति हैनमनुशशास याज्ञवल्क्य एषास्य परमा गतिरेषास्य परमा सम्पदेषोऽस्य परमो लोक एषोऽस्य परम आनन्द एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति ॥ ३२ ॥
यत्र पुनः सा अविद्या सुषुप्ते वस्त्वन्तरप्रत्युपस्थापिका शान्ता, तेन अन्यत्वेन अविद्याप्रविभक्तस्य वस्तुनः अभावात् , तत् केन कं पश्येत् जिघ्रेत् विजानीयाद्वा । अतः स्वेनैव हि प्राज्ञेन आत्मना स्वयञ्ज्योतिःस्वभावेन सम्परिष्वक्तः समस्तः सम्प्रसन्नः आप्तकामः आत्मकामः, सलिलवत् स्वच्छीभूतः — सलिल इव सलिलः, एकः द्वितीयस्याभावात् ; अविद्यया हि द्वितीयः प्रविभज्यते ; सा च शान्ता अत्र, अतः एकः ; द्रष्टा दृष्टेरविपरिलुप्तत्वात् आत्मज्योतिःस्वभावायाः अद्वैतः द्रष्टव्यस्य द्वितीयस्याभावात् । एतत् अमृतम् अभयम् ; एष ब्रह्मलोकः, ब्रह्मैव लोकः ब्रह्मलोकः ; पर एव अयम् अस्मिन्काले व्यावृत्तकार्यकरणोपाधिभेदः स्वे आत्मज्योतिषि शान्तसर्वसम्बन्धो वर्तते, हे सम्राट् — इति ह एवं ह, एनं जनकम् अनुशशास अनुशिष्टवान् याज्ञवल्क्यः इति श्रुतिवचनमेतत् । कथं वा अनुशशास ? एषा अस्य विज्ञानमयस्य परमा गतिः ; यास्तु अन्याः देहग्रहणलक्षणाः ब्रह्मादिस्तम्बपर्यन्ताः अविद्याकल्पिताः, ता गतयः अतः अपरमाः, अविद्याविषयत्वात् ; इयं तु देवत्वादिगतीनां कर्मविद्यासाध्यानां परमा उत्तमा — यः समस्तात्मभावः, यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानातीति । एषैव च परमा सम्पत् — सर्वासां सम्पदां विभूतीनाम् इयं परमा, स्वाभाविकत्वात् अस्याः ; कृतका हि अन्याः सम्पदः । तथा एषोऽस्य परमो लोकः ; ये अन्ये कर्मफलाश्रया लोकाः, ते अस्मात् अपरमाः ; अयं तु न केनचन कर्मणा मीयते, स्वाभाविकत्वात् ; एषोऽस्य परमो लोकः । तथा एषोऽस्य परम आनन्दः ; यानि अन्यानि विषयेन्द्रियसम्बन्धजनितानि आनन्दजातानि, तान्यपेक्ष्य एषोऽस्य परम आनन्दः, नित्यत्वात् ; ‘यो वै भूमा तत्सुखम्’ (छा. उ. ७ । २३ । १) इति श्रुत्यन्तरात् ; यत्र अन्यत्पश्यति अन्यद्विजानाति, तत् अल्पं मर्त्यम् अमुख्यं सुखम् ; इदं तु तद्विपरीतम् ; अत एव एषोऽस्य परम आनन्दः । एतस्यैव आनन्दस्य मात्रां कलाम् अविद्याप्रत्युपस्थापितां विषयेन्द्रियसम्बन्धकालविभाव्याम् अन्यानि भूतानि उपजीवन्ति ; कानि तानि ? तत एव आनन्दात् अविद्यया प्रविभज्यमानस्वरूपाणि, अन्यत्वेन तानि ब्रह्मणः परिकल्प्यमानानि अन्यानि सन्ति उपजीवन्ति भूतानि, विषयेन्द्रियसम्पर्कद्वारेण विभाव्यमानाम् ॥