बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स यो मनुष्याणां राद्धः समृद्धो भवत्यन्येषामधिपतिः सर्वैर्मानुष्यकैर्भोगैः सम्पन्नतमः स मनुष्याणां परम आनन्दोऽथ ये शतं मनुष्याणामानन्दाः स एकः पितृणां जितलोकानामानन्दोऽथ ये शतं पितृणां जितलोकानामानन्दाः स एको गन्धर्वलोक आनन्दोऽथ ये शतं गन्धर्वलोक आनन्दाः स एकः कर्मदेवानामानन्दो ये कर्मणा देवत्वमभिसम्पद्यन्तेऽथ ये शतं कर्मदेवानामानन्दाः स एक आजानदेवानामानन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतोऽथ ये शतमाजानदेवानामानन्दाः स एकः प्रजापतिलोक आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतोऽथ ये शतं प्रजापतिलोक आनन्दाः स एको ब्रह्मलोक आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतोऽथैष एव परम आनन्द एष ब्रह्मलोकः सम्राडिति होवाच याज्ञवल्क्यः सोहं भगवते सहस्रं ददाम्यत ऊर्ध्वं विमोक्षायैव ब्रूहीत्यत्र ह याज्ञवल्क्यो बिभयाञ्चकार मेधावी राजा सर्वेभ्यो मान्तेभ्य उदरौत्सीदिति ॥ ३३ ॥
यस्य परमानन्दस्य मात्रा अवयवाः ब्रह्मादिभिर्मनुष्यपर्यन्तैः भूतैः उपजीव्यन्ते, तदानन्दमात्राद्वारेण मात्रिणं परमानन्दम् अधिजिगमयिषन् आह, सैन्धवलवणशकलैरिव लवणशैलम् । सः यः कश्चित् मनुष्याणां मध्ये, राद्धः संसिद्धः अविकलः समग्रावयव इत्यर्थः, समृद्धः उपभोगोपकरणसम्पन्नः भवति ; किं च अन्येषां समानजातीयानाम् अधिपतिः स्वतन्त्रः पतिः, न माण्डलिकः ; सर्वैः समस्तैः, मानुष्यकैरिति दिव्यभोगोपकरणनिवृत्त्यर्थम् , मनुष्याणामेव यानि भोगोपकरणानि तैः — सम्पन्नानामपि अतिशयेन सम्पन्नः सम्पन्नतमः — स मनुष्याणां परम आनन्दः । तत्र आनन्दानन्दिनोः अभेदनिर्देशात् न अर्थान्तरभूतत्वमित्येतत् ; परमानन्दस्यैव इयं विषयविषय्याकारेण मात्रा प्रसृतेति हि उक्तम् ‘यत्र वा अन्यदिव स्यात्’ (बृ. उ. ४ । ३ । ३१) इत्यादिवाक्येन ; तस्मात् युक्तोऽयम् — ‘परम आनन्दः’ इत्यभेदनिर्देशः । युधिष्ठिरादितुल्यो राजा अत्र उदाहरणम् । दृष्टं मनुष्यानन्दम् आदिं कृत्वा शतगुणोत्तरोत्तरक्रमेण उन्नीय परमानन्दम् , यत्र भेदो निवर्तते तमधिगमयति ; अत्र अयमानन्दः शतगुणोत्तरोत्तरक्रमेण वर्धमानः यत्र वृद्धिकाष्ठामनुभवति, यत्र गणितभेदो निवर्तते, अन्यदर्शनश्रवणमननाभावात् , तं परमानन्दं विवक्षन् आह — अथ ये मनुष्याणाम् एवंप्रकाराः शतमानन्दभेदाः, स एकः पितृणाम् ; तेषां विशेषणम् —जितलोकानामिति ; श्राद्धादिकर्मभिः पितॄन् तोषयित्वा तेन कर्मणा जितो लोको येषाम् , ते जितलोकाः पितरः ; तेषां पितृणां जितलोकानां मनुष्यानन्दशतगुणीकृतपरिमाण एक आनन्दो भवति । सोऽपि शतगुणीकृतः गन्धर्वलोके एक आनन्दो भवति । स च शतगुणीकृतः कर्मदेवानाम् एक आनन्दः ; अग्निहोत्रादिश्रौतकर्मणा ये देवत्वं प्राप्नुवन्ति, ते कर्मदेवाः । तथैव आजानदेवानाम् एक आनन्दः ; आजानत एव उत्पत्तित एव ये देवाः, ते आजानदेवाः ; यश्च श्रोत्रियः अधीतवेदः, अवृजिनः वृजिनं पापम् तद्रहितः यथोक्तकारीत्यर्थः, अकामहतः वीततृष्णः आजानदेवेभ्योऽर्वाक् यावन्तो विषयाः तेषु —तस्य च एवंभूतस्य आजानदेवैः समान आनन्द इत्येतदन्वाकृष्यते च - शब्दात् । तच्छतगुणीकृतपरिमाणः प्रजापतिलोके एक आनन्दो विराट्शरीरे ; तथा तद्विज्ञानवान् श्रोत्रियः अधीतवेदश्च अवृजिन इत्यादि पूर्ववत् । तच्छतगुणीकृतपरिमाण एक आनन्दो ब्रह्मलोके हिरण्यगर्भात्मनि ; यश्चेत्यादि पूर्ववदेव । अतः परं गणितनिवृत्तिः ; एष परम आनन्द इत्युक्तः, यस्य च परमानन्दस्य ब्रह्मलोकाद्यानन्दा मात्राः, उदधेरिव विप्रुषः । एवं शतगुणोत्तरोत्तरवृद्ध्युपेता आनन्दाः यत्र एकतां यान्ति, यश्च श्रोत्रियप्रत्यक्षः, अथ एष एव सम्प्रसादलक्षणः परम आनन्दः ; तत्र हि नान्यत्पश्यति नान्यच्छृणोति ; अतो भूमा, भूमत्वादमृतः ; इतरे तद्विपरीताः । अत्र च श्रोत्रियत्वावृजिनत्वे तुल्ये ; अकामहतत्वकृतो विशेषः आनन्दशतगुणवृद्धिहेतुः ; अत्र एतानि साधनानि श्रोत्रियत्वावृजिनत्वाकामहतत्वानि तस्य तस्य आनन्दस्य प्राप्तौ अर्थादभिहितानि, यथा कर्माणि अग्निहोत्रादीनि देवानां देवत्वप्राप्तौ ; तत्र च श्रोत्रियत्वावृजिनत्वलक्षणे कर्मणी अधरभूमिष्वपि समाने इति न उत्तरानन्दप्राप्तिसाधने अभ्युपेयेते ; अकामहतत्वं तु वैराग्यतारतम्योपपत्तेः उत्तरोत्तरभूम्यानन्दप्राप्तिसाधनमित्यवगम्यते । स एष परमः आनन्दः वितृष्णश्रोत्रियप्रत्यक्षः अधिगतः । तथा च वेदव्यासः — ‘यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्’ (मो. ध. १७७ । ५०) इति । एष ब्रह्मलोकः, हे सम्राट् — इति ह उवाच याज्ञवल्क्यः । सोऽहम् एवम् अनुशिष्टः भगवते तुभ्यम् सहस्रं ददामि गवाम् ; अत ऊर्ध्वं विमोक्षायैव ब्रूहि — इति व्याख्यातमेतत् । अत्र ह विमोक्षायेत्यस्मिन्वाक्ये, याज्ञवल्क्यः बिभयाञ्चकार भीतवान् ; याज्ञवल्क्यस्य भयकारणमाह श्रुतिः — न याज्ञवल्क्यो वक्तृत्वसामर्थ्याभावाद्भीतवान् , अज्ञानाद्वा ; किं तर्हि मेधावी राजा सर्वेभ्यः, मा माम् , अन्तेभ्यः प्रश्ननिर्णयावसानेभ्यः, उदरौत्सीत् आवृणोत् अवरोधं कृतवानित्यर्थः ; यद्यत् मया निर्णीतं प्रश्नरूपं विमोक्षार्थम् , तत्तत् एकदेशत्वेनैव कामप्रश्नस्य गृहीत्वा पुनः पुनः मां पर्यनुयुङ्क्त एव, मेधावित्वात् — इत्येतद्भयकारणम् — सर्वं मदीयं विज्ञानं कामप्रश्नव्याजेन उपादित्सतीति ॥

स यो मनुष्याणामित्यदिवाक्यतात्पर्यमाह —

यस्येति ।

यथा सैन्धवावयवैः सैन्धवाचलं लोको बोधयति तथा तस्याऽऽनन्दस्य मात्रा नामावयवास्तत्प्रदर्शनद्वारेणावयविनं परमानन्दमधिगमयितुमिच्छन्ननन्तरो ग्रन्थः प्रवृत्त इत्यर्थः ।

तात्पर्यमुक्त्वाऽक्षराणि व्याचष्टे —

स यः कश्चिदित्यादिना ।

राद्धत्वमविकलत्वं चेत्समृद्धत्वेन पुनरुक्तिरित्याशङ्क्याऽऽह —

समग्रेति ।

तदेव समृद्धत्वमपीत्याशङ्क्य व्याकरोति —

उपभोगेति ।

अन्तर्बहिःसंपत्तिभेदादपुनरुक्तिरिति भावः ।

न केवलमुक्तमेव तस्य विशेषणं किन्तु विशेषणान्तरं चास्तीत्याह —

किञ्चेति ।

विशेषणतात्पर्यमाह —

दिव्येति ।

तदनिवर्तने त्वस्य वक्ष्यमाणगन्धर्वादिष्वन्तर्भावः स्यादिति भावः । अतिशयेन संपन्न इति शेषः ।

अभेदनिर्देशस्याभिप्रायमाह —

तत्रेति ।

प्रकृतं वाक्यं सप्तम्यर्थः । आत्मनः सकाशादानन्दस्येति शेषः ।

औपचारिकत्वमभेदनिर्देशस्य भविष्यतीत्याशङ्क्याऽऽह —

परमानन्दस्येति ।

तस्यैव विषयत्वं विषयित्वमिति स्थिते फलितमाह —

तस्मादिति ।

यथोक्तो मनुष्यो न दृष्टिपथमवतरतीत्याशङ्क्याऽऽह —

युधिष्ठिरादीति ।

अथ ये शतं मनुष्याणामित्यादेस्तात्पर्यमाह —

दृष्टमिति ।

शतगुणेनोत्तरत्राऽऽनन्दस्योत्कर्षप्रदर्शनक्रमेण परमानन्दमुन्नीय तमधिगमयत्युत्तरेण ग्रन्थेनेति संबन्धः ।

परमानन्दमेव विशिनष्टि —

यत्रेति ।

भेदः संख्याव्यवहारः ।

उक्तमेव प्रपञ्चयति —

यत्रेत्यादिना ।

परमानन्दे विवृद्धिकाष्ठायां हेतुमाह —

अन्येति ।

यद्यपि यस्येत्यादिनोक्तमेतत्तथाऽपीहाक्षरव्याख्यानावसरे तदेव विवृतमित्यविरोधः । तत्तदानन्दप्रदर्शनानन्तर्यं तत्र तत्राथशब्दार्थः । तत्तद्वाक्योपक्रमो वा । एवम्प्रकारत्वं समृद्धत्वादि । पितृणामानन्द इति संबन्धः । श्राद्धादिकर्मभिरित्यादिशब्देन पिण्डपितृयज्ञादि गृह्यते ।

के ते कर्मदेवा नाम तत्राऽऽह —

अग्निहोत्रादीति ।

यथा गन्धर्वानन्दः शतगुणीकृतः कर्मदेवानामेक आनन्दस्तथा कर्मदेवानन्दः शतगुणीकृतः सन्नाजानदेवानामेक आनन्दो भवतीत्याह —

तथैवेति ।

कुत्र वीततृष्णत्वं तत्राऽऽह —

आजानदेवेभ्य इति ।

श्रोत्रियादिवाक्यस्य प्रकृतासंगतिमाशङ्क्याऽऽह —

तस्य चेति ।

एवम्भूतस्य विशेषणत्रयविशिष्टस्येति यावत् ।

प्रजापतिलोकशब्दस्य ब्रह्मलोकाशब्दादर्थभेदमाह —

विराडिति ।

यथा विराडात्मन्याजानदेवानन्दः शतगुणीकृतः सन्नेक आनन्दो भवति तथा विराडात्मोपासिता श्रोत्रियत्वादिविशेषणो विराजा तुल्यानन्दः स्यादित्याह —

तथेति ।

तच्छतगुणीकृतेति तच्छब्दो विराडानन्दविषयः ।

श्रोत्रियत्वादिविशेषणवानपि हिरण्यगर्भोपासकस्तेन तुल्यानन्दो भवतीत्याह —

यश्चेति ।

हिरण्यगर्भानन्दादुपरिष्टादपि ब्रह्मानन्दे गणितभेदे प्राकरणिके प्राप्ते प्रत्याह —

अतः परमिति ।

एषोऽस्य परम आनन्द इत्युपक्रम्य किमित्यानन्दान्तरमुपदर्शितमित्याशङ्क्याऽऽह —

एष इति ।

तथाऽपि सौषुप्तं सर्वात्मत्वमुपेक्षितमिति चेन्नेत्याह —

यस्य चेति ।

प्रकृतस्य ब्रह्मानन्दस्यापरिच्छिन्नत्वमाह —

तत्र हीति ।

अनवच्छिन्नत्वफलमाह —

भूमत्वादिति।

ब्रह्मानन्दादितरे परिच्छिन्ना मर्त्याश्चेत्याह —

इतर इति ।

अथ यत्रान्यत्पश्यतीत्यादिश्रुतेरिति भावः ।

श्रोत्रियादिपदानि व्याख्याय तात्पर्यं दर्शयति —

अत्र चेति ।

मध्ये विशेषणेषु त्रिष्विति यावत् । तुल्ये सर्वपर्यायेष्विति शेषः ।

विशेषणान्तरे विशेषमाह —

अकामहतत्वेति ।

यथोक्तं विभागमुपपादयितुं सिद्धमर्थमाह —

अत्रैतानीति ।

यश्चेत्यादिवाक्यं सप्तम्यर्थः । तस्य तस्याऽऽनन्दस्येति दैवप्राजापत्यादिनिर्देशः ।

अर्थादभिहितत्वे दृष्टान्तमाह —

यथेति।

ये कर्मणा देवत्वमित्यादिश्रुतिसामर्थ्याद्देवानन्दाप्तौ यथा कर्माणि साधनान्युक्तानि तथा यश्चेत्यादिश्रुतिसामर्थ्यादेतान्यपि श्रोत्रियत्वादीनि तत्तदानन्दप्राप्तौ साधनानि विवक्षितानीत्यर्थः ।

ननु त्रयाणामविशेषश्रुतौ कथं श्रोत्रियत्वावृजिनत्वयोः सर्वत्र तुल्यत्वं न हि ते पूर्वभूमिषु श्रुते तथा चाकामहतत्ववदानन्दोत्कर्षे तयोरपि हेतुतेति तत्राऽऽह —

तत्र चेति ।

निर्धारणार्था सप्तमी । न हि श्रोत्रियत्वादिशून्यः सार्वभौमादिदिसुखमनुभवितुमुत्सहते । तथा च सर्वत्र श्रोत्रिन्द्रियत्वादेस्तुल्यत्वान्न तदानन्दातिरेकप्राप्तावसाधारणं साधनमित्यर्थः ।

यदुक्तमानन्दशतगुणवृद्धिहेतुरकामहतत्वकृतो विशेष इति तदुपपादयति —

अकामहतत्वं त्विति ।

पूर्वपूर्वभूमिषु वैराग्यमुत्तरोत्तरभूम्यानन्दप्राप्तिसाधनं  वैराग्यस्य तरतमभावेन परमकाष्ठोपपत्तेर्निरतिशयस्य तस्य परमानन्दप्राप्तिसाधनत्वसंभवादित्यर्थः ।

यश्चेत्यादिवाक्यस्येत्थं तात्पर्यमुक्त्वा प्रकृते परमानन्दे विद्वदनुभवं प्रमाणयति —

स एष इति ।

निरतिशयमकामहतत्वं परमानन्दप्राप्तिहेतुरित्यत्र प्रमाणमाह —

तथा चेति ।

प्रकृतं प्रत्यग्भूतं परमानन्दमेष इति परामृशति ।

श्रुतिर्मेधावीत्याद्या तां व्याचष्टे —

नेत्यादिना ।

तथाऽपि किं तद्भयकारणं तदाह —

यद्यदिति ।

मेधावित्वात्प्रज्ञातिशयशालित्वादिति यावत् ।

तदेव भयकारणं प्रकटयति —

सर्वमिति ॥ ३३ ॥