स वा एष एतस्मिन्नित्याद्युत्तरग्रन्थस्य संबन्धं वक्तुं वृत्तं कीर्तयति —
अत्रेति ।
अत्रायं पुरुषः सयं ज्योतिर्भवतीति वाक्यं सप्तम्यर्थः ।
वृत्तमर्थान्तरमनुद्रवति —
स्वप्नान्तेति ।
कार्यकरणव्यतिरिक्तत्वं प्रदर्शितमिति संबन्धः ।
उक्तमर्थान्तरमाह —
कामेति ।
अथ यत्रैनं घ्नन्तीवेत्यादावुक्तमनुभाषते —
पुनश्चेति ।
किं तत्र कार्यप्रदर्शनसामर्थ्यान्निर्धारितमविद्यायाः सतत्त्वं तदाह —
अतद्धर्मेति ।
अनात्मधर्मत्वमात्मनि चैतन्यवदस्वाभाविकत्वम् ।
अविद्याकार्यवद्विद्याकार्यं च स्वप्ने सर्वात्मभावलक्षणं प्रत्यक्षत एव प्रदर्शितमित्याह —
तथेति ।
सुषुप्तेऽपि स्वप्नवदेतद्दर्शितमित्याह —
एवमिति ।
साक्षात्स्वरूपचैतन्यवशादित्येतत् । अन्यथोत्थितस्य सुखपरामर्शो न स्यादिति भावः ।
उक्तं विद्याकार्यं निगमयति —
एष इति ।
तमेव विद्याविषयं विशदयति —
स एष इति ।
वृत्तानुवादमुपसंहरति —
इत्येतदिति ।
एवमन्तेन ग्रन्थेन ब्रह्मलोकान्तवाक्येनेति यावत् ।
सोऽहमित्यादेस्तात्पर्यमनुवदति —
तच्चेति ।
यतो राजेत्थं मन्यतेऽतस्तस्य सहस्रदाने युक्ता प्रवृत्तिरित्यर्थः ।
अत ऊर्ध्वमित्यादेरभिप्रायमनुद्रवति —
ते चेति ।
यद्यपि यथोक्तलक्षणे मोक्षबन्धने प्रागेवोपदिष्टे तथाऽपि पूर्वोक्तं सर्वं दृष्टान्तभूतमेव तयोरिति यतो राजा भ्राम्यत्यतो मोक्षबन्धने दार्ष्टान्तिकभूते वक्तव्ये याज्ञवल्क्येनेति मन्यमानस्तं प्रेरयतीत्यर्थः ।
बन्धमोक्षयोर्वक्तव्यत्वेन प्राप्तयोरपि प्रथमं बन्धो वर्ण्यत इति वक्तुं दृष्टान्तं स्मारयति —
तत्रेति ।
दृष्टान्तमनूद्य दार्ष्टान्तिकस्य बन्धस्य सूत्रितत्वं दर्शयति —
यथा चेत्यादिना ।
उभौ लोकावित्यत्र प्रथममेवंशब्दो द्रष्टव्यः ।
वृत्तमनूद्यानन्तरप्रकरणमुत्थापयति —
तदिहेति ।
अज्ञः संसारी सप्तम्यर्थः । सनिमित्तं कामादिना निमित्तेन सहितमित्येतत् ।
प्रकरणारम्भमुक्त्वा समनन्तरवाक्यस्य व्यवहितेन संबन्धमाह —
तत्र चेति ।
स वा एष एतस्मिन्बुद्धान्ते रत्वेत्युपक्रम्य स्वप्नान्तायैवेति वाक्यं सप्तम्या परामृश्यते ।
स्वप्नान्तशब्दस्य स्वप्नविषयव्यावृत्यर्थं विशिनष्टि —
संप्रसादेति ।
कथं पुनः संप्रसन्नस्य संसारोपवर्णनमित्याशङ्क्याऽऽह —
तत इति ।
प्रागुक्तः सप्तम्यर्थो व्यवहितो ग्रन्थस्तेनेति परामृश्यते । समनन्तरग्रन्थः षष्ठ्योच्यते ।
वाक्यस्य व्यवहितेन संबन्धमुक्त्वा तदक्षराणि योजयति —
स वै बुद्धान्तादिति ।
स्वप्नान्ते रत्वा चरित्वेत्यादि बुद्धान्तायैवाऽऽद्रवतीत्येतदन्तं पूर्ववदिति योजना ॥ ३४ ॥