तद्यथानः सुसमाहितमुत्सर्जद्यायादेवमेवायं शारीर आत्मा प्राज्ञेनात्मनान्वारूढ उत्सर्जन्याति यत्रैतदूर्ध्वोच्छ्वासी भवति ॥ ३५ ॥
इत आरभ्य अस्य संसारो वर्ण्यते । यथा अयमात्मा स्वप्नान्तात् बुद्धान्तमागतः ; एवम् अयम् अस्माद्देहात् देहान्तरं प्रतिपत्स्यत इति आह अत्र दृष्टान्तम् — तत् तत्र यथा लोके अनः शकटम् , सुसमाहितं सुष्ठु भृशं वा समाहितम् भाण्डोपस्करणेन उलूखलमुसलशूर्पपिठरादिना अन्नाद्येन च सम्पन्नम् सम्भारेण आक्रान्तमित्यर्थः ; तथा भाराक्रान्तं सत् , उत्सर्जत् शब्दं कुर्वत् , यथा यायात् गच्छेत् शाकटिकेनाधिष्ठितं सत् ; एवमेव यथा उक्तो दृष्टान्तः, अयं शारीरः शरीरे भवः — कोऽसौ ? आत्मा लिङ्गोपाधिः, यः स्वप्नबुद्धान्ताविव जन्ममरणाभ्यां पाप्मसंसर्गवियोगलक्षणाभ्याम् इहलोकपरलोकावनुसञ्चरति, यस्योत्क्रमणमनु प्राणाद्युत्क्रमणम् — सः प्राज्ञेन परेण आत्मना स्वयञ्ज्योतिःस्वभावेन अन्वारूढः अधिष्ठितः अवभास्यमानः — तथा चोक्तम् ‘आत्मनैवायं ज्योतिषास्ते पल्ययते’ (बृ. उ. ४ । ३ । ६) इति — उत्सर्जन्याति । तत्र चैतन्यात्मज्योतिषा भास्ये लिङ्गे प्राणप्रधाने गच्छति, तदुपाधिरप्यात्मा गच्छतीव ; तथा श्रुत्यन्तरम् — ‘कस्मिन्न्वहम्’ (प्र. उ. ६ । ३) इत्यादि, ‘ध्यायतीव’ (बृ. उ. ४ । ३ । ७) इति च ; अत एवोक्तम् — प्राज्ञेनात्मनान्वारूढ इति ; अन्यथा प्राज्ञेन एकीभूतः शकटवत् कथम् उत्सर्जयन् याति । तेन लिङ्गोपाधिरात्मा उत्सर्जन् मर्मसु निकृत्यमानेषु दुःखवेदनया आर्तः शब्दं कुर्वन् याति गच्छति । तत् कस्मिन्काले इत्युच्यते — यत्र एतद्भवति, एतदिति क्रियाविशेषणम् , ऊर्ध्वोच्छ्वासी, यत्र ऊर्ध्वोच्छ्वासित्वमस्य भवतीत्यर्थः । दृश्यमानस्याप्यनुवदनं वैराग्यहेतोः ; ईदृशः कष्टः खलु अयं संसारः — येन उत्क्रान्तिकाले मर्मसु उत्कृत्यमानेषु स्मृतिलोपः दुःखवेदनार्तस्य पुरुषार्थसाधनप्रतिपत्तौ च असामर्थ्यं परवशीकृतचित्तस्य ; तस्मात् यावत् इयमवस्था न आगमिष्यति, तावदेव पुरुषार्थसाधनकर्तव्यतायाम् अप्रमत्तो भवेत् — इत्याह कारुण्यात् श्रुतिः ॥