बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स यत्रायमणिमानं न्येति जरया वोपतपता वाणिमानं निगच्छति तद्यथाम्रं वोदुम्बरं वा पिप्पलं वा बन्धनात्प्रमुच्यत एवमेवायं पुरुष एभ्योऽङ्गेभ्यः सम्प्रमुच्य पुनः प्रतिन्यायं प्रतियोन्याद्रवति प्राणायैव ॥ ३६ ॥
तदस्य ऊर्ध्वोच्छ्वासित्वं कस्मिन्काले किन्निमित्तं कथं किमर्थं वा स्यादित्येतदुच्यते — सोऽयं प्राकृतः शिरःपाण्यादिमान् पिण्डः, यत्र यस्मिन्काले अयम् अणिमानम् अणोर्भावम् अणुत्वम् कार्श्यमित्यर्थः, न्येति निगच्छति ; किन्निमित्तम् ? जरया वा स्वयमेव कालपक्वफलवत् जीर्णः कार्श्यं गच्छति ; उपतपतीति उपतपन् ज्वरादिरोगः तेन उपतपता वा ; उपतप्यमानो हि रोगेण विषमाग्नितया अन्नं भुक्तं न जरयति, ततः अन्नरसेन अनुपचीयमानः पिण्डः कार्श्यमापद्यते, तदुच्यते — उपतपता वेति ; अणिमानं निगच्छति । यदा अत्यन्तकार्श्यं प्रतिपन्नः जरादिनिमित्तैः, तदा ऊर्ध्वोच्छ्वासी भवति ; यदा ऊर्ध्वोच्छ्वासी, तदा भृशाहितसम्भारशकटवत् उत्सर्जन्याति । जराभिभवः रोगादिपीडनं कार्श्यापत्तिश्च शरीरवतः अवश्यंभाविन एतेऽनर्था इति वैराग्याय इदमुच्यते । यदा असौ उत्सर्जन्याति, तदा कथं शरीरं विमुञ्चतीति दृष्टान्त उच्यते — तत् तत्र यथा आम्रं वा फलम् , उदुम्बरं वा फलम् , पिप्पलं वा फलम् ; विषमानेकदृष्टान्तोपादानं मरणस्यानियतनिमित्तत्वख्यापनार्थम् ; अनियतानि हि मरणस्य निमित्तानि असङ्ख्यातानि च ; एतदपि वैराग्यार्थमेव — यस्मात् अयम् अनेकमरणनिमित्तवान् तस्मात् सर्वदा मृत्योरास्ये वर्तते इति । बन्धनात् — बध्यते येन वृन्तेन सह, स बन्धनकारणो रसः, यस्मिन्वा बध्यत इति वृन्तमेव उच्यते बन्धनम् — तस्मात् रसात् वृन्ताद्वा बन्धनात् प्रमुच्यते वाताद्यनेकनिमित्तम् ; एवमेव अयं पुरुषः लिङ्गात्मा लिङ्गोपाधिः एभ्योऽङ्गेभ्यः चक्षुरादिदेहावयवेभ्यः, सम्प्रमुच्य सम्यङ्निर्लेपेन प्रमुच्य — न सुषुप्तगमनकाल इव प्राणेन रक्षन् , किं तर्हि सह वायुना उपसंहृत्य, पुनः प्रतिन्यायम् — पुनःशब्दात् पूर्वमपि अयं देहात् देहान्तरम् असकृत् गतवान् यथा स्वप्नबुद्धान्तौ पुनः पुनर्गच्छति तथा, पुनः प्रतिन्यायम् प्रतिगमनं यथागतमित्यर्थः, प्रतियोनिं योनिं योनिं प्रति कर्मश्रुतादिवशात् आद्रवति ; किमर्थम् ? प्राणायैव प्राणव्यूहायैवेत्यर्थः ; सप्राण एव हि गच्छति, ततः ‘प्राणायैव’ इति विशेषणमनर्थकम् ; प्राणव्यूहाय हि गमनं देहात् देहान्तरं प्रति ; तेन हि अस्य कर्मफलोपभोगार्थसिद्धिः, न प्राणसत्तामात्रेण । तस्मात् तादर्थ्यार्थं युक्तं विशेषणम् — प्राणव्यूहायेति ॥

प्रश्नचतुष्टयमनूद्य तदुत्तरत्वेन स यत्रेत्यादि वाक्यमादाय व्याकरोति —

तदस्येत्यादिना ।

प्रश्नपूर्वकं कार्श्यनिमित्तं स्वाभाविकमागन्तुकं चेति दर्शयति —

किंन्निमित्तमित्यादिना ।

कथं ज्वरादिना कार्श्यप्राप्तिरित्याशङ्क्याऽऽह —

उपतप्यमानो हीति ।

यथोक्तनिमित्तद्वयवशात्कार्श्यप्राप्तिं निगमयति —

अणिमानमिति ।

कस्मिन्काले तदूर्ध्वोच्छ्वासित्वमस्येति प्रश्नस्योत्तरमुक्तया विधया सिद्धमित्याह —

यदेति ।

अवशिष्टप्रश्नत्रयस्योत्तरमाह —

यदोर्ध्वोच्छ्वासीति ।

तत्र हि कार्श्यनिमित्तं संभृतशकटवन्नानाशब्दकरणं स्वरूपं शरीरविमोक्षणं प्रयोजनमित्यर्थः ।

स यत्रेत्यादिवाक्यादर्थसिद्धमर्थमाह —

जरेति ।

तद्यथेत्यादिवाक्यं प्रश्नपूर्वकमादाय व्याचष्टे —

यदेत्यादिना ।

कथं बन्धनात्प्रमुच्यत इति संबन्धः ।

किमिति विषमनेकदृष्टान्तोपादानमेकेनापि विवक्षितसिद्धेरित्याशङ्क्याऽऽह —

विषमेति ।

कथं मरणस्यानियतान्यनेकानि निमित्तानि संभवन्तीत्याशङ्क्यानुभवमनुसृत्याऽऽह —

अनियतानीति ।

अथ मरणस्यानेकानियतनिमित्तवत्त्वसंकीर्तनं कुत्रोपयुज्यते तत्राऽऽह —

एतदपीति ।

तदर्थवत्वमेव समर्थयते —

यस्मादिति ।

इत्यप्रमत्तैर्भवितव्यमिति शेषः ।

वृत्तेन सह फलं येन रसेन संबध्यते स रसो बन्धनकारणभूतो बन्धनं वृन्तमेव वा बन्धनं यस्मिन्फलं बध्यते रसेनेति व्युत्पत्तेस्तस्माद्बन्धनादनेकानिमित्तवशात्पूर्वोक्तस्य फलस्य भवति प्रमोक्षणमित्याह —

बन्धनादित्यादिना ।

लिङ्गमात्मोपाधिरस्येति तद्विशिष्टः शारीरस्तथोच्यते । संप्रमुच्याऽऽद्रवतीति संबन्धः ।

समित्युपसर्गस्य तात्पर्यमाह —

नेत्यादिना ।

यदि स्वप्नावस्थायामिव मरणावस्थायां प्राणेन देहं रक्षन्नाद्रवतीति नाऽऽद्रियते केन प्रकारेण तर्हि तदा देहान्तरं प्रति गमनमित्याशङ्क्याऽऽह —

किं तर्हीति ।

वायुना प्राणेन सह करणजातमुपसंहृत्याऽऽद्रवतीति पूर्ववत्संबन्धः ।

पुनः प्रतिन्यायमिति प्रतीकमादाय पुनःशब्दस्य तात्पर्यमाह —

पुनरित्यादिना ।

तथा पुनराद्रवतीति संबन्धः ।

यथा पूर्वमिमं देहं प्राप्तवान्पुनरपि तथैव देहान्तरं गच्छतीत्याह —

प्रतिन्यायमिति ।

देहान्तरगमने कारणमाह —

कर्मेति ।

आदिशब्देन पूर्वप्रज्ञा गृह्यते । प्राणव्यूहाय प्राणानां विशेषाभिव्यक्तिलाभायेति यावत् ।

प्राणायेति श्रुतिः किमर्थमित्थं व्याख्यायते तत्राऽऽह —

सप्राण इति ।

एतच्च तदनन्तरप्रतिपत्त्यधिकरणे निर्धारितम् ।

प्राणायेति विशेषणस्याऽऽनर्थक्याद्युक्तं प्राणव्यूहायेति विशेषणमित्याह —

प्राणेति।

नन्वस्य प्राणः सह वर्तते चेत्तावतैव भोगसिद्धेरलं प्राणव्यूहेनेत्याशङ्क्याऽऽह —

तेन हीति ।

अन्यथा सुषुप्तिमूर्छयोरपि भोगप्रसक्तेरित्यर्थः । तादर्थ्याय प्राणस्य भोगशेषत्वसिध्यर्थमिति यावत् ॥ ३६ ॥