तद्यथा राजानमित्यादिवाक्यव्यावर्त्यामाशङ्कामाह —
तत्रेति ।
मुमूर्षावस्था सप्तम्यर्थः ।
अथास्य स्वयमसामर्थ्येऽपि शरीरान्तरकर्तारोऽन्ये भविष्यन्ति यथा राज्ञो भृत्या गृहनिर्मातारस्तत्राऽऽह —
न चेति ।
स्वयमसामर्थ्यमन्येषां चासत्त्वमिति स्थिते फलितमाह —
अथेति ।
तद्यथेत्यादिवाक्यस्य तात्पर्यं दर्शयन्नुत्तरमाह —
उच्यत इति ।
भवत्वज्ञस्य स्वकर्मफलोपभोगे साधनत्वसिद्ध्यर्थं सर्वं जगदुपात्तं तथाऽपि देहाद्देहान्तरं प्रतिपित्समानस्य किमायातमित्याशङ्क्याऽऽह —
स्वकर्मेति ।
स्वकर्मणेत्यत्र स्वशब्दस्तत्कर्मफलोपभोगयोग्यमित्यत्र तच्छब्दश्च प्रकृतभोक्तृविषयौ । तत्र प्रमाणमाह —
कृतमिति ।
पुरुषो हि त्यक्तवर्तमानदेहो भूतपञ्चकादिना निर्मितमेव देहान्तरमभिव्याप्य जायत इति श्रुतेरर्थः ।
उक्तमेवार्थं दृष्टान्तेन स्पष्टयति —
यथेति ।
स्वप्नस्थानाज्जागरितस्थानं प्रतिपत्तुमिच्छतः शरीरं पूर्वमेव कृतं नापूर्वं क्रियते तथा देहाद्देहान्तरं प्रतिपित्समानस्य पञ्चभूतादिना कृतमेव देहान्तरमित्यर्थः ।