बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तद्यथा राजानमायान्तमुग्राः प्रत्येनसः सूतग्रामण्योऽन्नैः पानैरावसथैः प्रतिकल्पन्तेऽयमायात्ययमागच्छतीत्येवं हैवंविदं सर्वाणि भूतानि प्रतिकल्पन्त इदं ब्रह्मायातीदमागच्छतीति ॥ ३७ ॥
तत् तत्र यथा राजानं राज्याभिषिक्तम् आयान्तं स्वराष्ट्रे, उग्राः जातिविशेषाः क्रूरकर्माणो वा, प्रत्येनसः — प्रति प्रति एनसि पापकर्मणि नियुक्ताः प्रत्येनसः, तस्करादिदण्डनादौ नियुक्ताः, सूताश्च ग्रामण्यश्च सूतग्रामण्यः — सूताः वर्णसङ्करजातिविशेषाः, ग्रामण्यः ग्रामनेतारः, ते पूर्वमेव राज्ञ आगमनं बुद्ध्वा, अन्नैः भोज्यभक्ष्यादिप्रकारैः, पानैः मदिरादिभिः, आवसथैश्च प्रासादादिभिः, प्रतिकल्पन्ते निष्पन्नैरेव प्रतीक्षन्ते — अयं राजा आयाति अयमागच्छतीत्येवं वदन्तः । यथा अयं दृष्टान्तः, एवं ह एवंविदं कर्मफलस्य वेदितारं संसारिणमित्यर्थः ; कर्मफलं हि प्रस्तुतम् , तत् एवंशब्देन परामृश्यते ; सर्वाणि भूतानि शरीरकर्तॄणि, करणानुग्रहीतॄणि च आदित्यादीनि, तत्कर्मप्रयुक्तानि कृतैरेव कर्मफलोपभोगसाधनैः प्रतीक्षन्ते — इदं ब्रह्म भोक्तृ कर्तृ च अस्माकम् आयाति, तथा इदमागच्छतीति एवमेव च कृत्वा प्रतीक्षन्त इत्यर्थः ॥

सर्वेषां भूतानां देहान्तरं कृत्वा संसारिणि परलोकाय प्रस्थिते प्रतीक्षणं केन प्रकारेणेति प्रश्नपूर्वकं दृष्टान्तवाक्यमुत्थाप्य व्याचष्टे —

तत्तत्रेत्यादिना ।

तत्र पापकर्मणि नियुक्तत्वमेव व्यनक्ति —

तस्करादीति ।

आदिपदेनान्येऽपि निग्राह्या गृह्यन्ते । दण्डनादावित्यादिशब्दो हिंसाप्रभेदसंग्रहार्थः ।

’ब्राह्मण्यां क्षत्रियात्सूतः’ इति स्मृतिमाश्रित्य सूतशब्दार्थमाह —

वर्णसंकरेति ।

भोज्यभक्ष्यादिप्रकारैरित्यादिशब्देन लेह्यचोष्ययोः संग्रहः । मदिरादिभिरित्यादिपदेन क्षीरादि गृह्यते । प्रासादादिभिरित्यादिशब्दो गोपुरतोरणादिग्रहार्थः ।

विद्वन्मात्रे प्रतीयमाने किमिति कर्मफलस्य वेदितारमिति विशेषोपादानमित्याशङ्क्याऽऽह —

कर्मफलं हीति ।

तत्कर्मप्रयुक्तानीत्यत्र तच्छब्दः संसारिविषयः । संसारिणो वस्तुतो ब्रह्माभिन्नत्वात्तस्मिन्ब्रह्मशब्दः । अभ्यासस्तूभयत्राऽऽदरार्थः ॥ ३७ ॥