तद्यथा राजानं प्रयियासन्तमित्यादिवाक्यव्यावर्त्यं चोद्यमुत्थापयति —
तमेवमिति ।
वागादयस्तमनुगच्छन्तीत्याशङ्क्याऽऽह —
ये वेति ।
तत्क्रियाप्रणुन्नास्तस्य गन्तुर्वागादिव्यापारेण प्रेरिताः समाहूता इति यावत् ।
यानि च भूतानि परलोकशब्दितं शरीरं कुर्वन्ति यानि वा करणानुग्रहीतॄण्यादित्यादीनि तेष्विति यथोक्तप्रश्नप्रवृत्तिं दर्शयति —
परलोकेति ।
नाऽद्यः परलोकार्थं प्रस्थितस्य वागादिव्यापाराभावादाह्वानानुपपत्तेः । न द्वितीयो भोक्तृकर्मणाऽपि वागादिष्वचेतनेषु स्वयम्प्रवृत्तेरनुपपत्तेरिति चोदयितुरभिमानः ।
उत्तरवाक्येनोत्तरमाह —
अत्रेत्यादिना ।
मरणकालमेव विशिनष्टि —
यत्रेति ।
अचेतनानामपि रथादीनां चेतनप्रेरितानां प्रवृत्तिदर्शनाद्वागादीनामपि भोक्तृकर्मवशात्तदाहूतत्वमन्तरेण प्रवृत्तिः संभवतीति भावः ॥ ३८ ॥