बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स यत्रायमात्मा । संसारोपवर्णनं प्रस्तुतम् ; ‘तत्रायं पुरुष एभ्योऽङ्गेभ्यः सम्प्रमुच्य’ (बृ. उ. ४ । ३ । ३६) इत्युक्तम् । तत्सम्प्रमोक्षणं कस्मिन्काले कथं वेति सविस्तरं संसरणं वर्णयितव्यमित्यारभ्यते —
स यत्रायमात्मा । संसारोपवर्णनं प्रस्तुतम् ; ‘तत्रायं पुरुष एभ्योऽङ्गेभ्यः सम्प्रमुच्य’ (बृ. उ. ४ । ३ । ३६) इत्युक्तम् । तत्सम्प्रमोक्षणं कस्मिन्काले कथं वेति सविस्तरं संसरणं वर्णयितव्यमित्यारभ्यते —

ब्राह्मणान्तरमुत्थापयति —

स यत्रेति ।

तस्य संबन्धं वक्तुमुक्तं कीर्तयति —

संसारेति ।

वक्ष्यमाणोपयोगित्वेनोक्तमर्थान्तरमनुद्रवति —

तत्रेति ।

संसारप्रकरणं सप्तम्यर्थः ।

संप्रत्याकाङ्क्षापूर्वकमुत्तरब्राह्मणमादत्ते —

तत्संप्रमोक्षणमिति ।