बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स यत्रायमात्माबल्यं न्येत्य सम्मोहमिव न्येत्यथैनमेते प्राणा अभिसमायन्ति स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति स यत्रैष चाक्षुषः पुरुषः पराङ्पर्यावर्ततेऽथारूपज्ञो भवति ॥ १ ॥
सोऽयम् आत्मा प्रस्तुतः, यत्र यस्मिन्काले, अबल्यम् अबलभावम् , नि एत्य गत्वा — यत् देहस्य दौर्बल्यम् , तत् आत्मन एव दौर्बल्यमित्युपचर्यते ‘अबल्यं न्येत्य’ इति ; न ह्यसौ स्वतः अमूर्तत्वात् अबलभावं गच्छति — तथा सम्मोहमिव सम्मूढता सम्मोहः विवेकाभावः सम्मूढतामिव न्येति निगच्छति ; न चास्य स्वतः सम्मोहः असम्मोहो वा अस्ति, नित्यचैतन्यज्योतिःस्वभावत्वात् ; तेन इवशब्दः — सम्मोहमिव न्येतीति ; उत्क्रान्तिकाले हि करणोपसंहारनिमित्तो व्याकुलीभावः आत्मन इव लक्ष्यते लौकिकैः ; तथा च वक्तारो भवन्ति — सम्मूढः सम्मूढोऽयमिति । अथ वा उभयत्र इवशब्दप्रयोगो योज्यः — अबल्यमिव न्येत्य सम्मोहमिव न्येतीति, उभयस्य परोपाधिनिमित्तत्वाविशेषात् , समानकर्तृकनिर्देशाच्च । अथ अस्मिन्काले एते प्राणाः वागादयः एनमात्मानमभिसमायन्ति ; तदा अस्य शारीरस्यात्मनः अङ्गेभ्यः सम्प्रमोक्षणम् । कथं पुनः सम्प्रमोक्षणम् , केन वा प्रकारेण आत्मानमभिसमायन्तीत्युच्यते — सः आत्मा, एतास्तेजोमात्राः तेजसो मात्राः तेजोमात्राः तेजोवयवाः रूपादिप्रकाशकत्वात् , चक्षुरादीनि करणानीत्यर्थः, ता एताः समभ्याददानः सम्यक् निर्लेपेन अभ्याददानः आभिमुख्येन आददानः संहरमाणः ; तत् स्वप्नापेक्षया विशेषणं ‘सम्’ इति ; न तु स्वप्ने निर्लेपेन सम्यगादानम् ; अस्ति तु आदानमात्रम् ; ‘गृहीता वाक् गृहीतं चक्षुः’ (बृ. उ. २ । १ । १७) ‘अस्य लोकस्य सर्वावतो मात्रामपादाय’ (बृ. उ. ४ । ३ । ९) ‘शुक्रमादाय’ (बृ. उ. ४ । ३ । ११) इत्यादिवाक्येभ्यः । हृदयमेव पुण्डरीकाकाशम् अन्ववक्रामति अन्वागच्छति, हृदयेऽभिव्यक्तविज्ञानो भवतीत्यर्थः — बुद्ध्यादिविक्षेपोपसंहारे सति ; न हि तस्य स्वतश्चलनं विक्षेपोपसंहारादिविक्रिया वा, ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । २) इत्युक्तत्वात् ; बुद्ध्याद्युपाधिद्वारैव हि सर्वविक्रिया अध्यारोप्यते तस्मिन् । कदा पुनः तस्य तेजोमात्राभ्यादानमित्युच्यते — सः यत्र एषः, चक्षुषि भवः चाक्षुषः पुरुषः आदित्यांशः भोक्तुः कर्मणा प्रयुक्तः यावद्देहधारणं तावत् चक्षुषोऽनुग्रहं कुर्वन् वर्तते ; मरणकाले तु अस्य चक्षुरनुग्रहं परित्यजति, स्वम् आदित्यात्मानं प्रतिपद्यते ; तदेतदुक्तम् — ‘यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यम्’ (बृ. उ. ३ । २ । १३) इत्यादि ; पुनः देहग्रहणकाले संश्रयिष्यन्ति ; तथा स्वप्स्यतः प्रबुध्यतश्च ; तदेतदाह — चाक्षुषः पुरुषः यत्र यस्मिन्काले, पराङ् पर्यावर्तते — परि समन्तात् पराङ् व्यावर्तते इति ; अथ अत्र अस्मिन्काले अरूपज्ञो भवति, मुमूर्षुः रूपं न जानाति ; तदा अयमात्मा चक्षुरादितेजोमात्राः समभ्याददानो भवति, स्वप्नकाल इव ॥

एवं ब्राह्मणमवतार्य तदक्षराणि व्याकरोति —

सोऽयमित्यादिना ।

गत्वा संमोहमिव नेतीत्युत्तरत्र संबन्धः ।

कथमात्मनो दौर्बल्यं तदाह —

यद्देहस्येति ।

किमित्युपचारो मुख्यमेवाऽऽत्मनो दौर्बल्यं किं न स्यादित्याशङ्क्याऽऽह —

न हीति ।

यथाऽयमबलभावं निगच्छति तथा संमोहं संमूढतामिव प्रतिपद्यते । विवेकाभावो हि संमोहः । तथा च संमूढतामिव निगच्छतीति युक्तमित्याह —

तथेति ।

इवशब्दार्थमाह —

न चेति ।

कथं पुनरात्मनः समारोपितो अपि संमोहः स्यान्नित्यचैतन्यज्योतिष्ट्वादित्याशङ्क्याऽऽह —

उत्क्रान्तीति ।

व्याकुलीभावो लिङ्गस्येति शेषः ।

तत्र लौकिकीं वार्तामनुकूलयति —

तथेति ।

यथाश्रुतमिवशब्दं गृहीत्वा वाक्यं व्याख्याय पक्षान्तरमाह —

अथवेति ।

इवशब्दप्रयोगस्योभयत्र योजनामेवाभिनयति —

अबल्यमिति ।

उभयत्र तद्योजने हेतुमाह —

उभयस्येति ।

तुल्यप्रत्ययेनाबल्यसंमोहयोरेककर्तृकत्वनिर्देशादप्युभयत्रेवकारो द्रष्टव्य इत्याह —

समानेति ।

अथेत्यादि वाक्यमवतार्य व्याकुर्वन्कस्मिन्काले तत्संप्रमोक्षणमित्यस्योत्तरमाह —

अथेत्यादिना ।

कथं वेत्युक्तं प्रश्नमनूद्य प्रश्नान्तरं प्रस्तौति —

कथमिति ।

अत्रोत्तरत्वेनोत्तरं वाक्यमादाय व्याकरोति —

उच्यत इत्यादिना ।

रूपादिप्रकाशनशक्तिमत्सत्त्वप्रधानभूतकार्यत्वात्तेजोमात्राश्चक्षुरादीनीत्युक्तं संप्रति समभ्याददान इत्यस्यार्थमाह —

ता एता इति ।

संहरमाणो हृदयमन्ववक्रामतीत्यन्वयः । तत्समिति विशेषणं स्वप्नापेक्षयेति संबन्धः ।

कथं स्वप्नापेक्षया विशेषणं तदाह —

न त्विति ।

आदानमात्रमपि स्वप्ने नास्तीति कुतस्तद्व्यावृत्त्यर्थं विशेषणमित्याशङ्क्याऽऽह —

अस्तीति ।

स एतास्तेजोमात्राः समभ्याददान इत्येतद्व्याख्याय हृदयमेवेत्यादि व्याचष्टे —

हृदयमित्यादिना ।

 सविज्ञानो भवतीति वाक्यविशेषमाश्रित्याशङ्क्याऽऽह —

हृदय इति ।

कथमात्मनो निष्क्रियस्य तेजोमात्रादानकर्तृत्वमित्याशङ्क्याऽऽह —

बुद्ध्यादीति ।

तेषां तद्विक्षेपस्य चोपसंहारे सत्यात्मनस्तदादानकर्तृत्वमौपचारिकमित्यर्थः ।

तर्हि तद्विक्षेपोपसंहर्तृत्ववत्तदादानकर्तृत्वमपि मुख्यमेव भविष्यतीत्याशङ्क्याऽऽह —

न हीति।

आदिशब्देन क्रियाविशेषः सर्वो गृह्यते ।

कथं तर्हि प्रतीचि कर्तृत्वादिप्रथेत्याशङ्क्याऽऽह —

बुद्ध्यादीति ।

स यत्रेत्यादि वाक्यमाकाङ्क्षापूर्वकमवतार्य व्याकरोति —

कदा पुनरित्यादिना ।

तस्य पुरुषशब्दाद्भोक्तृत्वे प्राप्ते विशिनष्टि —

आदित्यांश इति ।

तस्य चाक्षुषत्वं साधयति —

भोक्तुरित्यादिना ।

यावद्देहधारणमिति कुतो विशेषणं तत्राऽऽह —

मरणकाले त्विति ।

आदित्यांशस्य चक्षुरनुग्रहमकुर्वतः स्वातन्त्र्यं वारयति —

स्वमिति ।

मरणावस्थायां चक्षुराद्यनुग्राहकदेवतांशानामधिदेवतात्मनोपसंहारे श्रुत्यन्तरं संवादयति —

तदेतदिति ।

तर्हि देहान्तरे वागादिराहित्यं स्यादित्याशङ्क्याऽऽह —

पुनरिति ।

संश्रयिष्यन्ति वागादयस्तत्तदेवताधिष्ठिता यथास्थानमिति शेषः ।

मुमूर्षोरिव स्वप्स्यतः सर्वाणि करणानि लिङ्गात्मनोपसंह्रियन्ते प्रबुध्यमानस्य चोत्पित्सोरिव तानि यथास्थानं प्रादुर्भवन्तीत्याह —

तथेति ।

उक्तेऽर्थे वाक्यं पातयति —

तदेतदाहेति ।

पराङ् पर्यावर्तत इति रूपवैमुख्यं चाक्षुषस्य विवक्षितमिति शेषः ॥ १ ॥