तर्हि भोक्त्रोपसंहृतं चक्षुरत्यन्ताभावीभूतमित्याशङ्क्याऽऽह —
एकीति ।
उक्तेऽर्थे लोकप्रसिद्धिं दर्शयति —
तदेति ।
चक्षुषि दर्शितं न्यायं घ्राणेऽतिदिशति —
तथेति ।
यथा चक्षुर्देवताया निवृत्तौ लिङ्गात्मना चक्षुरेकीभवति यथा घ्राणदेवतांशस्य घ्राणानुग्रहनिवृत्तिद्वारेणांशिदेवतयैक्ये लिङ्गात्मना घ्राणमेकीभवतीत्यर्थः । तन्निवृत्यपेक्षया वरुणादि देवताया जिह्वायामनुग्रहनिवृत्तौ जिह्वाया लिङ्गात्मनैक्यव्यपेक्षयेत्यर्थः ।
तत्तदनुग्राहकदेवतांशस्य तत्र तत्रानुग्रहनिवृत्त्या तत्तदंशिदेवताप्राप्तौ तत्तत्करणस्य लिङ्गात्मनैक्यं भवतीत्यभिप्रेत्याऽऽह —
तथेति ।
मरणदशायां रूपादिदर्शनराहित्यमर्थद्वयसाधकमित्याह —
तदेति ।
तस्य हैतस्येत्यादि वाक्यमुपादत्ते —
तत्रेति ।
मुमूर्षावस्था सप्तम्यर्थः ।
केनायं प्रद्योतो भवतीत्यपेक्षायामाह —
स्वप्नेति ।
यथा स्वप्नकाले स्वेन भासा स्वेन ज्योतिषा प्रस्वपितीति व्याख्यातं तथाऽत्रापि तेजोमात्राणां यदादानं तत्कृतेन वासनरूपेण प्राप्यफलविषयबुद्धिवृत्तिरूपेण स्वेन भासा स्वेन चाऽऽत्मना चैतन्यज्योतिषा हृदयाग्रप्रद्योतनमित्यर्थः ।
तस्यार्थक्रियां दर्शयति —
तेनेति ।
किमिति लिङ्गद्वाराऽऽत्मनो निर्गमनं प्रतिज्ञायते तत्राऽऽह —
तथेति ।
यदि मरणकाले तोजोमात्रादानं न तर्हि सदा लिङ्गोपाधिरात्मेत्याशङ्क्याऽऽह —
तत्र चेति ।
सप्तम्या लिङ्गमुच्यते । सर्वदेति लिङ्गसत्तादशोक्तिः ।
आत्मोपाधिभूते लिङ्गे किं प्रमाणमित्याशङ्क्याऽऽत्मनि कूटस्थे संव्यवहारदर्शनमित्याह —
तदुपाधीति ।
चक्षुरादिप्रसिद्धिरपि प्रमाणमित्याह —
तदात्मकं हीति ।
एकादशविधं करणमित्यभ्युपगमात्कुतो द्वादशविधत्वमित्याशङ्क्य विशिनष्टि —
बुद्ध्यादीति ।
’वायुर्वै गौतम तत्सूत्रम्’ इत्यादि श्रुतिरपि यथोक्ते लिङ्गे प्रमाणमित्याह —
तत्सूत्रमिति ।
जगतो जीवनमपि तत्र मानमित्याह —
तज्जीवनमिति ।
’एष सर्वभूतान्तरात्मा’ इति श्रुतिरपि यथोक्तं लिङ्गं साधयतीत्याह —
सोऽन्तरात्मेति ।
लिङ्गोपाधेरात्मनो यथोक्तप्रकाशेन मरणकाले हृदयान्निष्क्रमणे मार्गं प्रश्नपूर्वकमुत्तरवाक्येनोपदिशति —
तेनेत्यादिना ।
चक्षुष्टो वेति विकल्पे निमित्तं सूचयति —
आदित्येति ।
मूर्ध्नो वेति विकल्पे हेतुमाह —
ब्रह्मलोकेति ।
तत्प्राप्तिनिमित्तं चेज्ज्ञानं कर्मं वा स्यादिति पूर्वेण संबन्धः ।
देहावयवान्तरेभ्यो निष्क्रमणे नियामकमाह —
यथेति ।
कथं परलोकाय प्रस्थितमित्युच्यते प्राणगमनाधीनत्वाद्विज्ञानात्मगमनस्येत्याशङ्क्याऽऽह —
परलोकायेति ।
ननु जीवस्य प्राणादितादात्म्ये सति कथमनुशब्देन क्रमो विवक्ष्यते तत्राऽऽह —
यथाप्रधानेति ।
प्रधानमनतिक्रम्य हीयमन्वाख्यानेच्छा । तथा च जीवादेः प्राधान्याभिप्रायेणानुशब्दप्रयोगो न क्रमाभिप्रायेण देशकालभेदाभावादित्यर्थः । सार्थे समूहे व्यक्तिषु क्रमेण गमनं दृश्यते न तथा प्राणादिष्विति व्यतिरेकः ।
यदुक्तं हृदयाग्रप्रद्योतनं तत्सविज्ञानश्रुत्या प्रकटयति —
तदेति ।
कर्मवशादिति विशेषणं साधयति —
नेति ।
विपक्षे दोषमाह —
स्वातन्त्र्येणेति ।
इष्टापत्तिमाशङ्क्याऽऽह —
नैवेति ।
मुमूर्षोरस्वातन्त्र्ये मानमाह —
अत एवेति ।
कर्मवशादुक्तं सविज्ञानत्वमुपसंहरति —
कर्मणेति ।
अन्तःकरणस्य वृत्तिविशेषो भाविदेहविषयस्तदाश्रितं तद्रूपं यद्वासनात्मकं विशेषविज्ञानं तेनेति यावत् ।
म्रियमाणस्य सविज्ञानत्वे सत्यर्थसिद्धमर्थमाह —
सविज्ञानमेवेति ।
गन्तव्यस्य सविज्ञानत्वं विज्ञानाश्रयत्वमित्याशङ्क्य विशिनष्टि —
विशेषेति ।
प्रगेवोत्क्रान्तेः सविज्ञानत्ववादिश्रुतेस्तात्पर्यमाह —
तस्मादिति ।
पुरुषस्य कर्मानुसारित्वं तच्छब्दार्थः । योगश्चित्तवृत्तिनिरोधः । तस्य धर्मा यमनियमप्रभृतयः । तेषामनुसेवनं पुनः पुनरावर्तनम् । परिसंख्यानाभ्यासो योगानुष्ठानम् । कर्तव्य इति प्रकृतश्रुतेर्विधेयोऽर्थ इति शेषः ।
किञ्च पुण्योपचयकर्तव्यतारूपेऽर्थे सर्वमेव विधिकाण्डं पर्यवसितमित्याह —
सर्वशास्त्राणामिति ।
सर्वस्मादागामिदुश्चरितादुपरमणं कर्तव्यमित्यस्मिन्नर्थे निषेधशास्त्रमपि पर्यवसितमित्याह —
दुश्चरिताच्चेति ।
ननु पूर्वं यथेष्टचेष्टां कृत्वा मरणकाले सर्वमेतत्संपादयिष्यते नेत्याह —
न हीति ।
कर्मणा नीयमानत्वे मानमाह —
पुण्य इति ।
तर्हि पुण्योपचयादेव यथोक्तानर्थनिवृत्तेर्व्यर्थं तत्त्वज्ञानमित्याशङ्क्याऽऽह —
एतस्येति ।
उपशमोपायस्तत्वज्ञानं तस्य विधानं प्रकाशनं तदर्थमिति यावत् ।
देवताध्यानादनर्थो निवर्तिष्यते किं तत्त्वज्ञानेनेत्याशङ्क्याऽऽह —
न हीति ।
तद्विहितेति तच्छब्देन प्रकृताः सर्वशाखोपनिषदो गृह्यन्ते ।
विधान्तरेणानर्थध्वंसासिद्धौ फलितमाह —
तस्मादिति ।
ज्ञापितः सविज्ञानवाक्येनेति शेषः ।