तासां परमसूक्ष्मत्वं दृष्टान्तेन दर्शयति —
यथेति ।
कथमन्नरसस्य वर्णविशेषप्राप्तिरित्याशङ्क्याऽऽह —
वातेति ।
भुक्तस्यान्नस्य परिणामविशेषो वातबाहुल्ये नीलो भवति पित्ताधिक्ये पिङ्गलो जायते श्लेश्मातिशये शुक्लो भवति पित्ताल्पत्वे हरितः साम्ये च धातूनां लोहित इति तेषां मिथः संयोगवैषम्यात्तत्साम्याच्च विचित्रा बहवश्चान्नरसा भवन्ति तद्व्याप्तानां नाडीनामपि तादृशो वर्णो जायते ।
‘ अरुणाः शिरा वातवहा नीलाः पित्तवहाः शिराः ।
असृग्वहास्तु रोहिण्यो गौर्यः श्लेष्मवहाः शिराः ॥’
इति सौश्रुते दर्शनादित्यर्थः ।
नाडीस्वरूपं निरूप्य यत्र जागरिते लिङ्गशरीरस्य वृत्तिं दर्शयति —
तास्त्विति ।
एवंविधास्वित्यस्यैव विवरणं सूक्ष्मास्वित्यादि । पञ्चभूतानि दशेन्द्रियाणि प्राणोऽन्तःकरणमिति सप्तदशकम् ।
जागरिते लिङ्गशरीरस्य स्थितिमुक्त्वा स्वाप्नीं तत्स्थितिमाह —
तल्लिङ्गमिति ।
विवक्षितां स्वप्नस्थितिमुक्त्वा श्रुत्यक्षराणि योजयति —
अथेत्यादिना ।
स्वप्ने धर्मादिनिमित्तवशान्मिथ्यैव लिङ्गं नानाकारमवभासते तन्मिथ्याज्ञानं लिङ्गानुगतमूलाविद्याकार्यत्वादविद्येति स्थिते सतीत्यथशब्दार्थमाह —
एवं सतीति ।
तस्मिन्काले स्वप्नदर्शने विज्ञेयमिति शेषः ।
इवशब्दर्थमाह —
नेत्यादिना ।
उक्तोदाहरणेन समुच्चित्योदहरणान्तरमाह —
तथेति ।
गर्तादिपतनप्रतीतौ हेतुमाह —
तादृशी हीति ।
तादृशत्वं विशदयति —
अत्यन्तेति ।
यथोक्तवासनाप्रभवत्वं कथं गर्तपतनादेरवगतमित्याशङ्क्याऽऽह —
दुःखेति ।
यदेवेत्यादिश्रुतेरर्थमाह —
किं बहुनेति ।
भयमित्यस्य भयरूपमिति व्याख्यानम् । भयं रूप्यते येन तत्कारणं तथा ।
हस्त्यदि नास्ति चेत्कथं स्वप्ने भातीत्याशङ्क्याऽऽह —
अविद्येति ।
अथ यत्र देव इवेत्यादेस्तात्पर्यमाह —
अथेति ।
तत्र तस्याः फलमुच्यत इति शेषः ।
तात्पर्योक्त्याऽथशब्दार्थमुक्त्वा विद्यया विषयस्वरूपे प्रश्नपूर्वकं वदन्यत्रेत्यादेरर्थमाह —
किं विषयेति ।
इवशब्दप्रयोगात्स्वप्न एवोक्त इति शङ्कां वारयति —
देवतेति ।
विद्येत्युपास्तिरुक्ता । अभिषिक्तो राज्यस्थो जग्रदवस्थायामिति शेषः ।
अहमेवेदमित्याद्यवतारयति —
एवमिति ।
यथाऽविद्यायामपकृष्यमाणायां कार्यमुक्तं तद्वदित्यर्थः । यदेति जागरितोक्तिः । इदं चैतन्यमहमेव चिन्मात्रं न तु मदतिरेकेणास्ति तस्मादहं सर्वः पूर्णोऽस्मीति जानातीत्यर्थः ।
सर्वात्मभावस्य परमत्वमुपपादयति —
यत्त्वित्यादिना ।
तत्र तेनाऽऽकारेणाविद्याऽवस्थितेत्याह —
तदवस्थेति ।
तस्याः कार्यमाह —
तयेति ।
समस्तत्वं पूर्णत्वम् । अनन्तरत्वमेकरसत्वम् । अबाह्यत्वं प्रत्यक्त्वम् । योऽयं यथोक्तो लोकः सोऽस्याऽऽत्मनो लोकान्पूर्वोक्तानपेक्ष्य परम इति संबन्धः ।
वाक्यार्थमुपसंहरति —
तस्मादिति ।
मोक्षो विद्याफलमित्युत्तरत्र संबन्धः ।
तस्य प्रत्यक्षत्वं दृष्टान्तेन स्पष्टयति —
यथेति ।
विद्याफलवदविद्याफलमपि स्वप्ने प्रत्यक्षमित्युक्तमनुवदति —
तथेति ।
विद्याफलमविद्याफलं चेत्युक्तमुपसंहरति —
ते एते इति ।
उक्तं फलद्वयं विभजते —
विद्ययेति ।
असर्वो भवतीत्येतत्प्रकटयति —
अन्यत इति ।
प्रविभागफलमाह —
यत इति ।
विरोधफलं कथयति —
विरुद्धत्वादिति ।
अविद्याकार्यं निगमयति —
असर्वेति ।
अविद्यायाश्चेत्परिच्छिन्नफलत्वं तदा तस्य भिन्नत्वादेव यथोक्तं विरोधादि दुर्वारमित्यर्थः ।
विद्याफलं निगमयति —
समस्तस्त्विति ।
नन्वविद्यायाः सतत्त्वं निरूपयितुमारब्धं न च तदद्यापि दर्शितं तथा च किं कृतं स्यादत आह —
अत इति ।
कार्यवशादिति यावत् ।
इदंशब्दार्थमेव स्फुटयति —
सर्वात्मनामिति ।
ग्राहकत्वमेव व्यनक्ति —
आत्मन इति ।
वस्त्वन्तरोपस्थितिफलमाह —
तत इति ।
कामस्य कार्यमाह —
यत इति ।
क्रियातः फलं लभते तद्भोगकाले च रागादिना क्रियामादधातीत्यविच्छिन्नः संसारस्तद्यावन्न सम्यग्ज्ञानं तावन्मिथ्याज्ञाननिदानमविद्या दुर्वारेत्याह —
तत इति ।
भेददर्शननिदानमविद्येत्यविद्यासूत्रे वृत्तमित्याह —
तदेतदिति ।
तत्रैव वाक्यशेषमनुकूलयति —
वक्ष्यमाणं चेति ।
अविद्याऽऽत्मनः स्वभावो न वेति विचारे किं निर्णीतं भवतीत्याशङ्क्य वृत्तं कीर्तयति —
इदमिति ।
अविद्यायाः परिच्छिन्नफलत्वमस्ति ततो वैपरीत्येन विद्ययाः कार्यमुक्तं स च सर्वात्मभावो दर्शित इति योजना ।
संप्रति निर्णीतमर्थं दर्शयति —
सा चेति ।
ज्ञाने सत्यविद्यानिवृत्तिरित्यत्र वाक्यशेषं प्रमाणयति —
तच्चेति ।
अविद्या नाऽऽत्मनः स्वभावो निवर्त्यत्वाद्रज्जुसर्पवदित्याह —
तस्मादिति ।
निवर्त्यत्वेऽप्यात्मस्वभावत्वे का हानिरित्याशङ्याऽऽह —
न हीति ।
अविद्यायाः स्वाभाविकत्वाभावे फलितमाह —
तस्मादिति ॥ २० ॥