अत्र पितेत्यादिवाक्यमवतारयितुं वृत्तमनुद्रवति —
प्रकृत इति ।
अविद्यादिनिर्मोके हेतुद्वयमाह —
असंगत्वादिति ।
यद्यपि नाऽऽगन्तुकत्वमविद्याया युक्तं तथाऽप्यभिव्यक्ता साऽनर्थहेतुरागन्तुकीति द्रष्टव्यम् ।
स्त्रीवाक्यनिरस्यां शङ्कामनुवदति —
तत्रेति ।
कामादिविमोके दर्शिते सतीति यावत् ।
स्वभावस्यापायो न संभवतीत्यभिप्रेत्य हेतुमाह
यस्मादिति ।
शङ्कोत्तरत्वेन स्त्रीवाक्यमवतार्य तात्पर्यं पूर्वोक्तमनुकीर्तयति —
स्वयमिति ।
वृत्तमनूद्योत्तरग्रन्थमुत्थापयति —
इत्येतदिति ।
स्वयञ्ज्योतिष्ट्वस्य स्वाभाविकत्वमेतच्छब्दार्थः । प्रासंगिकं कामादेरागन्तुकत्वोक्तिप्रसंगादागतमिति यावत् ।
प्रकृतमेव दर्शयति —
अत्र चेति ।
अतिच्छन्दादिवाक्यं सप्तम्यर्थः । प्रत्यक्षतः स्वरूपचैतन्यवशाद्यथोक्तात्मरूपस्य सुषुप्ते गृह्यमाणत्वमुत्थितस्य परामर्शादवधेयम् ।
कामादिसंबन्धवदात्मनस्तद्रहितमपि रूपं कल्पितमेवेत्याशङ्क्याऽऽह —
तेदेतदिति ।
प्रकृतमर्थमुक्त्वोत्तरवाक्यस्थसप्तम्यर्थमाह —
एतस्मिन्निति ।
जनकोऽप्यत्रापिता भवतीति संबन्धः ।
पिताऽप्यत्रापिता भवतीत्युपपादयति —
तस्य चेत्यादिना ।
यथाऽस्मिन्काले पिता पुत्रस्यापिता भवति तद्वदित्याह —
तथेति ।
नास्यार्थस्य प्रतिपादकः शब्दोऽस्तीत्याशङ्क्याऽऽह —
सामर्थ्यादिति ।
तदेव सामर्थ्यं दर्शयति —
उभयोरिति ।
सुषुप्ते कर्मातिक्रमे प्रमाणमाह —
अपहतेति ।
पुनर्लोकदेवशब्दावनुवादार्थौ ।
वाक्यान्तरमादाय व्याचष्टे —
तथेत्यादिना ।
साध्यसाधनसंबन्धाभिधायका ब्राह्मणलक्षणा इति शेषः । अभिधायकत्वेन प्रमाणत्वेन प्रमेयत्वेन चेत्यर्थः ।
अत्र स्तेनोऽस्तेनो भवतीत्याद
“ब्राह्मण्यां क्षत्रियात्सूतो वैश्याद्वैदेहकस्तथा ।
शूद्राज्जातस्तु चाण्डालः सर्वधर्मबहिष्कृतः” (या.स्मृ.१-९३)
इति स्मृतिमाश्रित्याऽऽह —
चाण्डालो नामेति ।
’जातो निषादाच्छूद्रायां जात्या भवति पुल्कसः’ । इति स्मृतेः शूद्रायां ब्राह्मणाज्जातो निषादः स च जात्या शूद्रस्तस्मात्क्षत्रियायां जातः पुल्कसो भवतीति व्याख्यानमुपेत्याऽऽह —
शूद्रेणैवेति ।
श्रमणादिवाक्यस्य तात्पर्यमाह —
तथेति ।
तथा चाण्डालवदिति यावत् ।
परिव्राट्तापसयोरेव ग्रहणात्तत्कर्मायोगेऽपि सौषुप्तस्य वर्णाश्रमान्तरकर्मयोगं शङ्कित्वाऽऽह —
सर्वेषामिति ।
अदिशब्देन वयोवस्थादि गृह्यते ।
सौषुप्ते पुरुषे प्रकृते कथमनन्वागतमिति नपुंसकप्रयोगस्तत्राऽऽह —
रूपपरत्वादिति ।
तत्परत्वे हेतुमनुषङ्गं दर्शयति —
अभयमिति ।
हेतुवाक्यमाकाङ्क्षापूर्वकमुत्थाप्य व्याचष्टे —
किं पुनरित्यादिना ।
यस्मादतिच्छन्दादिवाक्योक्तस्वभावोऽयमात्मा सुषुप्तिकाले हृदयनिष्ठान्सर्वाञ्छोकानतिक्रामति तस्मादेतदात्मरूपं पुण्यपापाभ्यामनन्वागतं युक्तमित्यर्थः ।
शोकशब्दस्य कामविषयत्वं साधयति —
इष्टेति ।
कथं तस्याः शोकत्वापत्तिरित्याशङ्क्याऽऽह —
इष्टं हीति ।
तेषां पर्यायत्वेऽपि प्रकृते किमायातं तदाह —
यस्मादिति ।
अत्रेति सुषुप्तिरुच्यते । अतः सर्वकामातितीर्णत्वादित्युत्तरत्र संबन्धः ।
न केवलं शोकशब्दस्य कामविषयत्वमुपपन्नमेव किन्तु संनिधेरपि सिद्धमित्याह —
न कञ्चनेति ।
शोकशब्दस्य कामविषयत्वेऽपि तदत्ययमात्रात्कथं कर्मात्ययः स्यदित्याशङ्क्याऽऽह —
कामश्चेति ।
तत्र वाक्यशेषं प्रमाणयति —
वक्ष्यति हीति ।
कामस्य कर्महेतुत्वे सिद्धे फलितमाह —
अत इति ।
हृदयस्य शोकानतिक्रामतीत्यत्र हृदयशब्दार्थमाह —
हृदयमितीति ।
मांसपिण्डविशेषविषयं हृदयपदं कथं बुद्धिमाहेत्याशङ्क्याऽऽह —
तात्स्थ्यादिति ।
तथा मञ्चाः क्रोशन्तीति मञ्चक्रोशनमुच्यमानं मञ्चस्थान्पुरुषानुपचारादाह तथा हृदयस्थत्वाद्बुद्धेरुपचारबुद्धिं हृदयशब्दो दर्शयतीत्यर्थः ।
हृदयशब्दार्थमुक्त्वा तस्य संबन्धं दर्शयति —
हृदयस्येति ।
तानतिक्रान्तो भवतीति शेषः ।
आत्माश्रयास्ते न बुद्धिमाश्रयन्तीत्याशङ्क्याऽऽह —
बुद्धीति ।
कथं तर्हि केचिदात्माश्रयत्वं तेषां वदन्तीत्याशङ्क्य भ्रान्तिवशादित्याह —
आत्मेति ।
भवतु कामानां हृदयाश्रितत्वं तथाऽपि तत्संबन्धद्वारा तदाश्रयत्वसंभवात्कथमात्मा सुषुप्ते कामानतिवर्तते तत्राऽऽह —
हृदयेति ।
तत्संबन्धातीतत्वे श्रुतिसिद्धे फलितमाह —
हृदयकरणेति ।