तद्यथेत्यादेरिति नु कामयमान इत्यन्तस्य सन्दर्भस्य तात्पर्यं तदिहेत्यत्रोक्तमनुवदति —
इत आरभ्येति ।
तद्यथेत्यस्माद्वाक्यादित्येतत् ।
दृष्टान्तवाक्यमुत्थाप्य व्याकरोति —
यथेत्यादिना ।
इत्यत्र दृष्टान्तमाहेति योजना । भाण्डोपस्करणेन भाण्डप्रमुखेन गृहोपस्करणेनेति यावत् ।
तदेवोपस्करणं विशिनष्टि —
उलूखलेति ।
पिठरं पाकार्थं स्थूलं भाण्डम् । अन्वयं दर्शयितुं यथाशब्दोऽनूद्यते ।
लिङ्गविशिष्टमात्मानं विशिनष्टि —
यः स्वप्नेति ।
जन्ममरणे विशदयति —
पाप्मेति ।
कार्यकरणानि पाप्मशब्देनोच्यन्ते ।
शरीरस्य प्राधान्यं द्योतयति —
यस्येति ।
उत्सर्जन्याति चेत्तदाऽङ्गीकृतमात्मनो गमनमित्याशङ्क्याऽऽह —
तत्रेति ।
लिङ्गोपाधेरात्मनो गमनप्रतीतिरित्यत्राऽऽथर्वणश्रुतिं प्रमाणयति —
तथा चेति ।
उत्सर्जन्यातीति श्रुतेर्मुख्यार्थत्वार्थमात्मनो वस्तुतो गमनं किं न स्यादित्याशङ्क्याऽऽह —
ध्यायतीवेति चेति ।
औपाधिकमात्मनो गमनमित्यत्र लिङ्गान्तरमाह —
अत एवेति ।
कथमेतावता निरुपाधेरात्मनो गमनं नेष्यते तत्राऽऽह —
अन्यथेति ।
प्रमाणफलं निगमयति —
तेनेति ।
तत्कस्मिन्नित्यत्र तच्छब्देनाऽऽर्तस्य शब्दविशेषकरणपूर्वकं गमनं गृह्यते ।
एतदूर्ध्वोच्छ्वासित्वमस्य यथा स्यात्तथाऽवस्था यस्मिन्काले भवति तस्मिन्काले तद्भमनमित्युपपादयति —
उच्यत इत्यादिना ।
किमिति प्रत्यक्षमर्थं श्रुतिरनुवदति तत्राऽऽह —
दृश्यमानस्येति ।
कथं संसारस्वरूपानुवादमात्रेण वैराग्यसिद्धिस्तत्राऽऽह —
ईदृश इति ।
ईदृशत्वमेव विशदयति —
येनेत्यादिना ।
अनुवादश्रुतेरभिप्रायमुपसंहरति —
तस्मादिति ॥ ३५ ॥