बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तत्र देहान्तरारम्भे नित्योपात्तमेव उपादानम् उपमृद्य उपमृद्य देहान्तरमारभते, आहोस्वित् अपूर्वमेव पुनः पुनरादत्ते — इत्यत्र उच्यते दृष्ठान्तः —
तत्र देहान्तरारम्भे नित्योपात्तमेव उपादानम् उपमृद्य उपमृद्य देहान्तरमारभते, आहोस्वित् अपूर्वमेव पुनः पुनरादत्ते — इत्यत्र उच्यते दृष्ठान्तः —

पेशस्कारिवाक्यव्यावर्त्यामाशङ्कामाह —

तत्रेति ।

संसारिणो हि प्रकृते देहान्तरारम्भे किमुपादानमस्ति किं वा नास्ति ? नास्ति चेन्न भावरूपं कार्यं सिध्येत । अस्ति चेत्तत्किं भूतपञ्चकमुतान्यत् । आद्येऽपि तन्नित्योपात्तमेव पूर्वपूर्वदेहोपमर्देनान्यमन्यं देहमारभते किंवाऽन्यद्दूतपञ्चकमन्यमन्यं देहं जनयति । नाऽद्यः । भूतपञ्चकस्य तत्तदेहोपादानत्वे मायायाः सर्वकरणत्वस्वीकारविरोधात् । न द्वितीयः । भूतपाञ्चकोत्पत्तावपि कारणान्तरस्य मृग्यत्वात्तस्यैव देहान्तरकारणत्वसंभवान्नेतरो देहस्य पाञ्चभौतिकत्वप्रसिद्धिविरोधादिति भावः ।

उत्तरं वाक्यमुत्तरत्वेनाऽऽदत्ते —

अत्रेति ।

तच्छब्दार्थमपेक्षितं पूरयन्नाह —

दृष्टान्त इति ।