बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तद्यथा पेशस्कारी पेशसो मात्रामपादायान्यन्नवतरं कल्याणतरं रूपं तनुत एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वान्यन्नवतरं कल्याणतरं रूपं कुरुते पित्र्यं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वान्येषां वा भूतानाम् ॥ ४ ॥
तत्र देहान्तरारम्भे नित्योपात्तमेव उपादानम् उपमृद्य उपमृद्य देहान्तरमारभते, आहोस्वित् अपूर्वमेव पुनः पुनरादत्ते — इत्यत्र उच्यते दृष्ठान्तः —

पेशस्कारिवाक्यव्यावर्त्यामाशङ्कामाह —

तत्रेति ।

संसारिणो हि प्रकृते देहान्तरारम्भे किमुपादानमस्ति किं वा नास्ति ? नास्ति चेन्न भावरूपं कार्यं सिध्येत । अस्ति चेत्तत्किं भूतपञ्चकमुतान्यत् । आद्येऽपि तन्नित्योपात्तमेव पूर्वपूर्वदेहोपमर्देनान्यमन्यं देहमारभते किंवाऽन्यद्दूतपञ्चकमन्यमन्यं देहं जनयति । नाऽद्यः । भूतपञ्चकस्य तत्तदेहोपादानत्वे मायायाः सर्वकरणत्वस्वीकारविरोधात् । न द्वितीयः । भूतपाञ्चकोत्पत्तावपि कारणान्तरस्य मृग्यत्वात्तस्यैव देहान्तरकारणत्वसंभवान्नेतरो देहस्य पाञ्चभौतिकत्वप्रसिद्धिविरोधादिति भावः ।

उत्तरं वाक्यमुत्तरत्वेनाऽऽदत्ते —

अत्रेति ।

तच्छब्दार्थमपेक्षितं पूरयन्नाह —

दृष्टान्त इति ।