स वा अयमात्मा ब्रह्मेति भागं व्याकुर्वन्नात्मनो ब्रह्मैक्यं वास्तवं वृत्तं दर्शयति —
स वा इति ।
यस्यैवावास्तवं रूपमुपन्यस्यति —
विज्ञानमय इत्यादिना ।
ज्योतिर्ब्राह्मणेऽपि व्याख्यातं विज्ञानमयत्वमित्याह —
कतम इति ।
कस्मिन्नर्थे मयट् प्रयुज्यते तत्राऽऽह —
विज्ञानेति ।
उक्ते मयडर्थे हेतुमाह —
यस्मादिति ।
बुद्ध्यैक्याध्यासात्तद्धर्मस्य कर्तृत्वादेरात्मनि प्रतीतिरित्यत्र मानमाह —
ध्यायतीवेति ।
मनःसंनिकर्षात्तेन द्रष्टव्यतया संबन्धादिति यावत् ।
चक्षुर्मयत्वादेरुपलक्षणत्वमङ्गीकृत्याऽऽह —
एवमिति ।
उक्तमनूद्य सामान्येन भूतमयत्वमाह —
एवं बुद्धीति ।
भूतमयत्वे सत्यवान्तरविशेषमाह —
तत्रेत्यादिना ।
न चाऽऽकाशपरमाण्वभावादाकाशस्य शरीरानारम्भकत्वं श्रुतिविरुद्धारम्भप्रक्रियानभ्युपगमादित्यभिप्रेत्याऽऽह —
तथाऽऽकाशेति ।
कथं पुनर्धर्मादिमयत्वे कामादिमयत्वमुपयुज्यते तत्राऽऽह —
न हीति ।
कथं धर्मादिमयत्वं सर्वमयत्वे कारणमित्याशङ्क्याऽऽह —
समस्तमिति ।
तद्यदेतदित्यादेरर्थमाह —
किं बहुनेति ।
विषयः शब्दादिस्ततोऽन्यदपि प्रत्यक्षतो अवगतिप्रकारमभिनयति —
इदमस्येति ।
इदंमयत्वमदोमयत्वं चोपसंहरति —
तेनेत्यादिना ।
परोक्षत्वं व्याकरोति —
अन्तःस्थ इति ।
व्यवहितविषयव्यवहारवानिति यावत् । इदानीमित्यस्मादुपरिष्टादपि तेनेति संबध्यते । परोक्षत्वावस्थेदानीमित्युक्ता । तृतीयया च प्रकृतो व्यवहारे निर्दिश्यते । इतिशब्दः सर्वमयत्वोपसंहारार्थः ।
विज्ञानमयादिवाक्यार्थं संक्षिपति —
संक्षेपतस्त्विति ।
करणचरणयोरैक्येन पौनरुक्त्यमाशङ्क्याऽऽह —
करणं नामेति ।
आदिशब्दः शिष्टाचारसंग्रहार्थः ।
वाक्यान्तरं शङ्कोत्तरत्वेनोत्थाप्य व्याचष्टे —
ताच्छील्येत्यादिना ।
कुत्र तर्हि ताच्छील्यमुपयुज्यते तत्राऽऽह —
ताच्छील्ये त्विति ।
पूर्वपक्षमुपसंहरति —
तत्रेत्यादिना ।
कर्मणः संसारकारणत्वमुपसंहरति —
एतत्प्रयुक्तो हीति ।
संसारप्रयोजके कर्मणि प्रमाणमाह —
एतद्विषयौ हीति ।
कथं यथोक्तकर्मविषयत्वं विधिनिषेधयोरित्याशङ्क्याऽऽह —
अत्रेति ।
इतिशब्दः पूर्वपक्षसमाप्त्यर्थः ।