बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः पृथिवीमय आपोमयो वायुमय आकाशमयस्तेजोमयोऽतेजोमयः काममयोऽकाममयः क्रोधमयोऽक्रोधमयो धर्ममयोऽधर्ममयः सर्वमयस्तद्यदेतदिदम्मयोऽदोमय इति यथाकारी यथाचारी तथा भवति साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यः पुण्येन कर्मणा भवति पापः पापेन । अथो खल्वाहुः काममय एवायं पुरुष इति स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसम्पद्यते ॥ ५ ॥
सः वै अयम् यः एवं संसरति आत्मा — ब्रह्मैव पर एव, यः अशनायाद्यतीतः ; विज्ञानमयः — विज्ञानं बुद्धिः, तेन उपलक्ष्यमाणः, तन्मयः ; ‘कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु’ (बृ. उ. ४ । ३ । ७) इति हि उक्तम् ; विज्ञानमयः विज्ञानप्रायः, यस्मात् तद्धर्मत्वमस्य विभाव्यते — ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इति ; तथा मनोमयः मनःसन्निकर्षान्मनोमयः ; तथा प्राणमयः, प्राणः पञ्चवृत्तिः तन्मयः, येन चेतनः चलतीव लक्ष्यते ; तथा चक्षुर्मयः रूपदर्शनकाले ; एवं श्रोत्रमयः शब्दश्रवणकाले । एवं तस्य तस्य इन्द्रियस्य व्यापारोद्भवे तत्तन्मयो भवति । एवं बुद्धिप्राणद्वारेण चक्षुरादिकरणमयः सन् शरीरारम्भकपृथिव्यादिभूतमयो भवति ; तत्र पार्थिवशरीरारम्भे पृथिवीमयो भवति ; तथा वरुणादिलोकेषु आप्यशरीरारम्भे आपोमयो भवति ; तथा वायव्यशरीरारम्भे वायुमयो भवति ; तथा आकाशशरीरारम्भे आकाशमयो भवति ; एवम् एतानि तैजसानि देवशरीराणि ; तेष्वारभ्यमाणेषु तन्मयः तेजोमयो भवति । अतो व्यतिरिक्तानि पश्वादिशरीराणि नरकप्रेतादिशरीराणि च अतेजोमयानि ; तान्यपेक्ष्य आह — अतेजोमय इति । एवं कार्यकरणसङ्घातमयः सन् आत्मा प्राप्तव्यं वस्त्वन्तरं पश्यन् — इदं मया प्राप्तम् , अदो मया प्राप्तव्यम् — इत्येवं विपरीतप्रत्ययः तदभिलाषः काममयो भवति । तस्मिन्कामे दोषं पश्यतः तद्विषयाभिलाषप्रशमे चित्तं प्रसन्नम् अकलुषं शान्तं भवति, तन्मयः अकाममयः । एवं तस्मिन्विहते कामे केनचित् , सकामः क्रोधत्वेन परिणमते, तेन तन्मयो भवन् क्रोधमयः । स क्रोधः केनचिदुपायेन निवर्तितो यदा भवति, तदा प्रसन्नम् अनाकुलं चित्तं सत् अक्रोध उच्यते, तेन तन्मयः । एवं कामक्रोधाभ्याम् अकामक्रोधाभ्यां च तन्मयो भूत्वा, धर्ममयः अधर्ममयश्च भवति ; न हि कामक्रोधादिभिर्विना धर्मादिप्रवृत्तिरुपपद्यते, ‘यद्यद्धि कुरुते कर्म तत्तत्कामस्य चेष्टितम्’ (मनु. २ । ४) इति स्मरणात् । धर्ममयः अधर्ममयश्च भूत्वा सर्वमयो भवति — समस्तं धर्माधर्मयोः कार्यम् , यावत्किञ्चिद्व्याकृतम् , तत्सर्वं धर्माधर्मयोः फलम् , तत् प्रतिपद्यमानः तन्मयो भवति । किं बहुना, तदेतत् सिद्धमस्य — यत् अयम् इदम्मयः गृह्यमाणविषयादिमयः, तस्मात् अयम् अदोमयः ; अद इति परोक्षं कार्येण गृह्यमाणेन निर्दिश्यते ; अनन्ता हि अन्तःकरणे भावनाविशेषाः ; नैव ते विशेषतो निर्देष्टुं शक्यन्ते ; तस्मिन्तस्मिन् क्षणे कार्यतोऽवगम्यन्ते — इदमस्य हृदि वर्तते, अदः अस्येति ; तेन गृह्यमाणकार्येण इदम्मयतया निर्दिश्यते परोक्षः अन्तःस्थो व्यवहारः — अयमिदानीमदोमय इति । सङ्क्षेपतस्तु यथा कर्तुं यथा वा चरितुं शीलमस्य सोऽयं यथाकारी यथाचारी, सः तथा भवति ; करणं नाम नियता क्रिया विधिप्रतिषेधादिगम्या, चरणं नाम अनियतमिति विशेषः । साधुकारी साधुर्भवतीति यथाकारीत्यस्य विशेषणम् ; पापकारी पापो भवतीति च यथाचारीत्यस्य । ताच्छील्यप्रत्ययोपादानात् अत्यन्ततात्पर्यतैव तन्मयत्वम् , न तु तत्कर्ममात्रेण — इत्याशङ्क्याह — पुण्यः पुण्येन कर्मणा भवति पापः पापेनेति ; पुण्यपापकर्ममात्रेणैव तन्मयता स्यात् , न तु ताच्छील्यमपेक्षते ; ताच्छील्ये तु तन्मयत्वातिशय इत्ययं विशेषः । तत्र कामक्रोधादिपूर्वकपुण्यापुण्यकारिता सर्वमयत्वे हेतुः, संसारस्य कारणम् , देहात् देहान्तरसञ्चारस्य च ; एतत्प्रयुक्तो हि अन्यदन्यद्देहान्तरमुपादत्ते ; तस्मात् पुण्यापुण्ये संसारस्य कारणम् ; एतद्विषयौ हि विधिप्रतिषेधौ ; अत्र शास्त्रस्य साफल्यमिति ॥

स वा अयमात्मा ब्रह्मेति भागं व्याकुर्वन्नात्मनो ब्रह्मैक्यं वास्तवं वृत्तं दर्शयति —

स वा इति ।

यस्यैवावास्तवं रूपमुपन्यस्यति —

विज्ञानमय इत्यादिना ।

ज्योतिर्ब्राह्मणेऽपि व्याख्यातं विज्ञानमयत्वमित्याह —

कतम इति ।

कस्मिन्नर्थे मयट् प्रयुज्यते तत्राऽऽह —

विज्ञानेति ।

उक्ते मयडर्थे हेतुमाह —

यस्मादिति ।

बुद्ध्यैक्याध्यासात्तद्धर्मस्य कर्तृत्वादेरात्मनि प्रतीतिरित्यत्र मानमाह —

ध्यायतीवेति ।

मनःसंनिकर्षात्तेन द्रष्टव्यतया संबन्धादिति यावत् ।

चक्षुर्मयत्वादेरुपलक्षणत्वमङ्गीकृत्याऽऽह —

एवमिति ।

उक्तमनूद्य सामान्येन भूतमयत्वमाह —

एवं बुद्धीति ।

भूतमयत्वे सत्यवान्तरविशेषमाह —

तत्रेत्यादिना ।

न चाऽऽकाशपरमाण्वभावादाकाशस्य शरीरानारम्भकत्वं श्रुतिविरुद्धारम्भप्रक्रियानभ्युपगमादित्यभिप्रेत्याऽऽह —

तथाऽऽकाशेति ।

कथं पुनर्धर्मादिमयत्वे कामादिमयत्वमुपयुज्यते तत्राऽऽह —

न हीति ।

कथं धर्मादिमयत्वं सर्वमयत्वे कारणमित्याशङ्क्याऽऽह —

समस्तमिति ।

तद्यदेतदित्यादेरर्थमाह —

किं बहुनेति ।

विषयः शब्दादिस्ततोऽन्यदपि प्रत्यक्षतो अवगतिप्रकारमभिनयति —

इदमस्येति ।

इदंमयत्वमदोमयत्वं चोपसंहरति —

तेनेत्यादिना ।

परोक्षत्वं व्याकरोति —

अन्तःस्थ इति ।

व्यवहितविषयव्यवहारवानिति यावत् । इदानीमित्यस्मादुपरिष्टादपि तेनेति संबध्यते । परोक्षत्वावस्थेदानीमित्युक्ता । तृतीयया च प्रकृतो व्यवहारे निर्दिश्यते । इतिशब्दः सर्वमयत्वोपसंहारार्थः ।

विज्ञानमयादिवाक्यार्थं संक्षिपति —

संक्षेपतस्त्विति ।

करणचरणयोरैक्येन पौनरुक्त्यमाशङ्क्याऽऽह —

करणं नामेति ।

आदिशब्दः शिष्टाचारसंग्रहार्थः ।

वाक्यान्तरं शङ्कोत्तरत्वेनोत्थाप्य व्याचष्टे —

ताच्छील्येत्यादिना ।

कुत्र तर्हि ताच्छील्यमुपयुज्यते तत्राऽऽह —

ताच्छील्ये त्विति ।

पूर्वपक्षमुपसंहरति —

तत्रेत्यादिना ।

कर्मणः संसारकारणत्वमुपसंहरति —

एतत्प्रयुक्तो हीति ।

संसारप्रयोजके कर्मणि प्रमाणमाह —

एतद्विषयौ हीति ।

कथं यथोक्तकर्मविषयत्वं विधिनिषेधयोरित्याशङ्क्याऽऽह —

अत्रेति ।

इतिशब्दः पूर्वपक्षसमाप्त्यर्थः ।