बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः पृथिवीमय आपोमयो वायुमय आकाशमयस्तेजोमयोऽतेजोमयः काममयोऽकाममयः क्रोधमयोऽक्रोधमयो धर्ममयोऽधर्ममयः सर्वमयस्तद्यदेतदिदम्मयोऽदोमय इति यथाकारी यथाचारी तथा भवति साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यः पुण्येन कर्मणा भवति पापः पापेन । अथो खल्वाहुः काममय एवायं पुरुष इति स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसम्पद्यते ॥ ५ ॥
ये अस्य बन्धनसंज्ञकाः उपाधिभूताः, यैः संयुक्तः तन्मयोऽयमिति विभाव्यते, ते पदार्थाः पुञ्जीकृत्य इह एकत्र प्रतिनिर्दिश्यन्ते —

शरीरारम्भे मायात्मकभूतपञ्चकमुपादानमिति वदता भूतावयवानामपि सहैव गमनमित्युक्तम् । इदानीं स वा अयमात्मेत्यादेस्तात्पर्यमाह —

येऽस्येति ।

तानेवोपाधिभूतान्पदार्थान्विशिनष्टि —

यैरिति ।

ननु पूर्वमप्येते पदार्था दर्शिताः किं पुनस्तत्प्रदर्शनेनेत्याशङ्क्याऽऽह —

पञ्चीकृत्येति ।