सिद्धान्तमवतारयति —
अथो इति ।
संसारकारणस्याज्ञानस्य प्राधान्येन कामः सहकारीति स्वसिद्धान्तं समर्थयते —
सत्यमित्यादिना ।
कामाभावेऽपि कर्मणः सत्त्वं दृष्टमित्याशङ्क्याऽह —
कामप्रहाणे त्विति ।
ननु कामाभावेऽपि नित्याद्यनुष्ठानात्पुण्यापुण्ये संचीयेते तत्राऽऽह —
उपचिते इति ।
यो हि पशुपुत्रस्वर्गादीननतिशयपुरुषार्थान्मन्यमानस्तानेव कामयते स तत्तद्भोगभूमौ तत्तत्कामसंयुक्तो भवतीत्याथर्वणश्रुतेरर्थः ।
श्रुतियुक्तिसिद्धमर्थं निगमयति —
तस्मादिति ।
धर्मादिमयत्वस्यापि सत्त्वादवधारणानुपपत्तिमाशङ्क्याऽऽह —
यदिति ।
स यथाकामो भवतीत्यादि व्याचष्टे —
यस्मादित्यादिना ।
यस्मादित्यस्य तस्मादिति व्यवहितेन संबन्धः । इतिशब्दो ब्राह्मणसमाप्त्यर्थः ॥ ५ ॥