बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तदेष श्लोको भवति । तदेव सक्तः सह कर्मणैति लिङ्गं मनो यत्र निषक्तमस्य । प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् । तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मण इति नु कामयमानोऽथाकामयमानो योऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्ब्रह्माप्येति ॥ ६ ॥
तत् तस्मिन्नर्थे एष श्लोकः मन्त्रोऽपि भवति । तदेव एति तदेव गच्छति, सक्त आसक्तः तत्र उद्भूताभिलाषः सन्नित्यर्थः ; कथमेति ? सह कर्मणा — यत् कर्मफलासक्तः सन् अकरोत् , तेन कर्मणा सहैव तत् एति तत्फलमेति ; किं तत् ? लिङ्गं मनः — मनःप्रधानत्वाल्लिङ्गस्य मनो लिङ्गमित्युच्यते ; अथवा लिङ्ग्यते अवगम्यते — अवगच्छति — येन, तत् लिङ्गम् , तत् मनः — यत्र यस्मिन् निषक्तं निश्चयेन सक्तम् उद्भूताभिलाषम् अस्य संसारिणः ; तदभिलाषो हि तत्कर्म कृतवान् ; तस्मात्तन्मनोऽभिषङ्गवशादेव अस्य तेन कर्मणा तत्फलप्राप्तिः । तेन एतत्सिद्धं भवति, कामो मूलं संसारस्येति । अतः उच्छिन्नकामस्य विद्यमानान्यपि कर्माणि ब्रह्मविदः वन्ध्याप्रसवानि भवन्ति, ‘पर्याप्तकामस्य कृतात्मनश्च इहैव सर्वे प्रविलीयन्ति कामाः’ (मु. उ. ३ । २ । २) इति श्रुतेः । किञ्च प्राप्यान्तं कर्मणः — प्राप्य भुक्त्वा अन्तम् अवसानं यावत् , कर्मणः फलपरिसमाप्तिं कृत्वेत्यर्थः ; कस्य कर्मणोऽन्तं प्राप्येत्युच्यते — तस्य, यत्किञ्च कर्म इह अस्मिन् लोके करोति निर्वर्तयति अयम् , तस्य कर्मणः फलं भुक्त्वा अन्तं प्राप्य, तस्मात् लोकात् पुनः ऐति आगच्छति, अस्मै लोकाय कर्मणे — अयं हि लोकः कर्मप्रधानः, तेनाह ‘कर्मणे’ इति — पुनः कर्मकरणाय ; पुनः कर्म कृत्वा फलासङ्गवशात् पुनरमुं लोकं याति — इत्येवम् । इति नु एवं नु, कामयमानः संसरति । यस्मात् कामयमान एव एवं संसरति, अथ तस्मात् , अकामयमानो न क्वचित्संसरति । फलासक्तस्य हि गतिरुक्ता ; अकामस्य हि क्रियानुपपत्तेः अकामयमानो मुच्यत एव । कथं पुनः अकामयमानो भवति ? यः अकामो भवति, असौ अकामयमानः । कथमकामतेत्युच्यते — यो निष्कामः यस्मान्निर्गताः कामाः सोऽयं निष्कामः । कथं कामा निर्गच्छन्ति ? य आप्तकामः भवति आप्ताः कामा येन स आप्तकामः । कथमाप्यन्ते कामाः ? आत्मकामत्वेन, यस्य आत्मैव नान्यः कामयितव्यो वस्त्वन्तरभूतः पदार्थो भवति ; आत्मैव अनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एकरसः नोर्ध्वं न तिर्यक् नाधः आत्मनोऽन्यत् कामयितव्यं वस्वन्तरम् — यस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् , शृणुयात् , मन्वीत, विजानीयाद्वा — एवं विजानन्कं कामयेत । ज्ञायमानो ह्यन्यत्वेन पदार्थः कामयितव्यो भवति ; न चासावन्यः ब्रह्मविद आप्तकामस्यास्ति । य एवात्मकामतया आप्तकामः, स निष्कामः अकामः अकामयमानश्चेति मुच्यते । न हि यस्य आत्मैव सर्वं भवति, तस्य अनात्मा कामयितव्योऽस्ति । अनात्मा चान्यः कामयितव्यः, सर्वं च आत्मैवाभूदिति विप्रतिषिद्धम् । सर्वात्मदर्शिनः कामयितव्याभावात्कर्मानुपपत्तिः । ये तु प्रत्यवायपरिहारार्थं कर्म कल्पयन्ति ब्रह्मविदोऽपि, तेषां न आत्मैव सर्वं भवति, प्रत्यवायस्य जिहासितव्यस्य आत्मनोऽन्यस्य अभिप्रेतत्वात् । येन च अशनायाद्यतीतः नित्यं प्रत्यवायासम्बद्धः विदित आत्मा, तं वयं ब्रह्मविदं ब्रूमः ; नित्यमेव अशनायाद्यतीतमात्मानं पश्यति ; यस्माच्च जिहासितव्यमन्यम् उपादेयं वा यो न पश्यति, तस्य कर्म न शक्यत एव सम्बन्धुम् । यस्तु अब्रह्मवित् , तस्य भवत्येव प्रत्यवायपरिहारार्थं कर्मेति न विरोधः । अतः कामाभावात् अकामयमानो न जायते, मुच्यत एव ॥

तत्रेति गन्तव्यफलपरामर्शः । तदेव गन्तव्यं फलं विशेषतो ज्ञातुं पृच्छति —

किं तदिति ।

प्रतीकमादाय व्याचष्टे —

लिङ्गमिति ।

योऽवगच्छति स प्रमात्रादिसाक्षी येन साक्ष्येण मनसाऽवगम्यते तन्मनो लिङ्गमिति पक्षान्तरमाह —

अथवेति ।

यस्मिन्निश्चयेन संसारिणो मनः सक्तं तत्फलप्राप्तिस्तस्येति संबन्धः ।

तदेवोपपादयति —

तदभिलाषो हीति ।

पूर्वार्धार्थमुपसंहरति —

तेनेति ।

कामस्य संसारमूलत्वे सत्यर्थसिद्धमर्थमाह —

अत इति ।

वन्ध्यप्रसवत्वं निष्फलत्वम् । पर्याप्तकामस्य प्राप्तपरमपुरुषार्थस्येति यावत् । कृतात्मनः शुद्धबुद्धेर्विदितसतत्त्वस्येत्यर्थः । इहेति जीवदवस्थोक्तिः ।

कामप्रधानः संसरति चेत्कर्मफलभोगानन्तरं कामाभावान्मुक्तिः स्यादित्याशङ्क्याऽऽह —

किञ्चेति ।

इतश्च संसारस्य कामप्रधानत्वमास्थेयमित्यर्थः । यावदवसानं तावदुक्त्वेति संबन्धः ।

उक्तमेव संक्षिपति —

कर्मण इति ।

इत्येवं पारम्पर्येण संसरणादृशे ज्ञानान्न मुक्तिरिति शेषः ।

संसारप्रकरणमुपसंहरति —

इति न्विति ।

अवस्थाद्वयस्य दार्ष्टान्तिकं बन्धं प्रबन्धेन दर्शयित्वा सुषुप्तस्य दार्ष्टान्तिकं मोक्षं वक्तुमेवेत्यादि वाक्यं तत्राथशब्दार्थमाह —

यस्मादिति ।

कामरहितस्य संसाराभावं साधयति —

फलासक्तस्येति ।

विदुषो निष्कामस्य क्रियाराहित्ये नैष्कर्म्यमयत्नसिद्धमिति भावः ।

अकामयमानत्वे प्रश्नपूर्वकं हेतुमाह —

कथमित्यादिना ।

बाह्येषु शब्दादिषु विषयेष्वासंगराहित्यादकामयमानतेत्यर्थः ।

अकामत्वे हेतुमाकाङ्क्षापूर्वकमाह —

कथमिति ।

वासनारूपकामाभावादकामतेत्यर्थः ।

निष्कामत्वे प्रश्नपूर्वकं हेतुमुत्थाप्य व्याचष्टे —

कथमिति ।

प्राप्तपरमानन्दत्वान्निष्कामतेत्यर्थः ।

आप्तकामत्वे हेतुमाकाङ्क्षापूर्वकमाह —

कथमित्यादिना ।

हेतुमेव साधयति —

यस्येति ।

तस्य युक्तमाप्तकामत्वमिति शेषः ।

उक्तमर्थं प्रमाणप्रदर्शनार्थं प्रपञ्चयति —

आत्मैवेति ।

कामयितव्याभावं ब्रह्मविदः श्रुत्यवष्टम्भेन स्पष्टयति —

यस्येति ।

इति विद्यावस्था यस्य विदुषोऽस्ति सोऽन्यमविजानन्न कञ्चिदपि कामयतेति योजना ।

पदार्थोऽन्यत्वेनाविज्ञातोऽपि कामयितव्यः स्यादिति चेन्नेत्याह —

ज्ञायमानो हीति ।

अनुभूते स्मरणविपरिवर्तिनि कामनियमादित्यर्थः ।

अन्यत्वेन ज्ञायमानस्तर्हि पदार्थो विदुषोऽपि कामयितव्यः स्यादित्याशङ्क्याऽऽह —

न चेति ।

आप्तकामस्य ब्रह्मविदो दर्शितरीत्या कामयितव्याभावे मुक्तिः सिद्धेत्युपसंहरति —

य एवेति ।

कथं कामयितव्याभावोऽनात्मनस्तथात्वादित्याशङ्क्याऽऽह —

न हीति ।

सर्वात्मत्वमनात्मकामयितृत्वं च स्यादित्याशङ्क्याऽऽह —

अनात्म चेति ।

अथेत्यादिवाक्ये श्रौतमर्थमुक्त्वाऽर्थसिद्धमर्थं कथयति —

सर्वात्मदर्शिन इति ।

कर्मजडानां मतमुत्थाप्य श्रुतिविरोधेन प्रत्याचष्टे —

ये त्विति ।

ब्रह्मविदि प्रत्यवायप्राप्तिमङ्गीकृत्योक्तमिदानीं तत्प्राप्तिरेव तस्मिन्नास्तीत्याह —

येन चेति ।

यथोक्तस्यापि ब्रह्मविदो विहितत्वादेव नित्यादनुष्ठानं स्यादिति चेन्नेत्याह —

नित्यमेवेति ।

यो हि सदैवासंसारिणमात्मानमनुभवति न च हेयमादेयं वाऽऽत्मनोऽन्यत्पश्यति । यस्मादेवं तस्मात्तस्य कर्म संस्प्रष्टुमयोग्यम् । यथोक्तब्रह्मविद्यया कर्माधिकारहेतूनामुपमृदितत्वादित्यर्थः ।

कर्मसंबन्धस्तर्हि कस्येत्याशङ्क्याऽऽह —

यस्त्विति ।

न विरोधो विधिकाण्डस्येति शेषः ।

श्रुत्यर्थाभ्यां सिद्धमर्थमुपसंहरति —

अत इति ।

विद्यावशादित्येतत् । कामाभावात्कर्माभावाच्चेति द्रष्टव्यम् । अकामयमानोऽकुर्वाणश्चेति शेषः ।