बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तदेष श्लोको भवति । तदेव सक्तः सह कर्मणैति लिङ्गं मनो यत्र निषक्तमस्य । प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् । तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मण इति नु कामयमानोऽथाकामयमानो योऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्ब्रह्माप्येति ॥ ६ ॥
तस्य एवमकामयमानस्य कर्माभावे गमनकारणाभावात् प्राणा वागादयः, नोत्क्रामन्ति नोर्ध्वं क्रामन्ति देहात् । स च विद्वान् आप्तकामः आत्मकामतया इहैव ब्रह्मभूतः । सर्वात्मनो हि ब्रह्मणः दृष्टान्तत्वेन प्रदर्शितम् एतद्रूपम् — ‘तद्वा अस्यैतदाप्तकाममकामं रूपम्’ (बृ. उ. ४ । ३ । २१) इति ; तस्य हि दार्ष्टान्तिकभूतोऽयमर्थ उपसंह्रियते — अथाकामयमान इत्यादिना । स कथमेवंभूतो मुच्यत इत्युच्यते — यो हि सुषुप्तावस्थमिव निर्विशेषमद्वैतम् अलुप्तचिद्रूपज्योतिःस्वभावम् आत्मानं पश्यति, तस्यैव अकामयमानस्य कर्माभावे गमनकारणाभावात् प्राणा वागादयो नोत्क्रामन्ति । किन्तु विद्वान् सः इहैव ब्रह्म, यद्यपि देहवानिव लक्ष्यते ; स ब्रह्मैव सन् ब्रह्म अप्येति । यस्मात् न हि तस्य अब्रह्मत्वपरिच्छेदहेतवः कामाः सन्ति, तस्मात् इहैव ब्रह्मैव सन् ब्रह्म अप्येति न शरीरपातोत्तरकालम् । न हि विदुषो मृतस्य भावान्तरापत्तिः जीवतोऽन्यः भावः, देहान्तरप्रतिसन्धानाभावमात्रेणैव तु ब्रह्माप्येतीत्युच्यते । भावान्तरापत्तौ हि मोक्षस्य सर्वोपनिषद्विवक्षितोऽर्थः आत्मैकत्वाख्यः स बाधितो भवेत् ; कर्महेतुकश्च मोक्षः प्राप्नोति, न ज्ञाननिमित्त इति ; स चानिष्टः ; अनित्यत्वं च मोक्षस्य प्राप्नोति ; न हि क्रियानिर्वृत्तः अर्थः नित्यो दृष्टः ; नित्यश्च मोक्षोऽभ्युपगम्यते, ‘एष नित्यो महिमा’ (बृ. उ. ४ । ४ । २३) इति मन्त्रवर्णात् । न च स्वाभाविकात् स्वभावात् अन्यत् नित्यं कल्पयितुं शक्यम् । स्वाभाविकश्चेत् अग्न्युष्णवत् आत्मनः स्वभावः, स न शक्यते पुरुषव्यापारानुभावीति वक्तुम् ; न हि अग्नेरौष्ण्यं प्रकाशो वा अग्निव्यापारानन्तरानुभावी ; अग्निव्यापारानुभावी स्वाभाविकश्चेति विप्रतिषिद्धम् । ज्वलनव्यापारानुभावित्वम् उष्णप्रकाशयोरिति चेत् , न, अन्योपलब्धिव्यवधानापगमाभिव्यक्त्यपेक्षत्वात् ; ज्वलनादिपूर्वकम् अग्निः उष्णप्रकाशगुणाभ्यामभिव्यज्यते, तत् न अग्न्यपेक्षया ; किं तर्हि अन्यदृष्टेः अग्नेरौष्ण्यप्रकाशौ धर्मौ व्यवहितौ, कस्यचिद्दृष्ट्या तु असम्बध्यमानौ, ज्वलनापेक्षया व्यवधानापगमे दृष्टेरभिव्यज्येते ; तदपेक्षया भ्रान्तिरुपजायते — ज्वलनपूर्वकौ एतौ उष्णप्रकाशौ धर्मौ जाताविति । यदि उष्णप्रकाशयोरपि स्वाभाविकत्वं न स्यात् — यः स्वाभाविकोऽग्नेर्धर्मः, तमुदाहरिष्यामः ; न च स्वाभाविको धर्म एव नास्ति पदार्थानामिति शक्यं वक्तुम् ॥

देशान्तरप्राप्त्यायत्ता मुक्तिरित्येतन्निराकर्तुं न तस्येत्यादि व्याचष्टे —

तस्येत्यादिना ।

ब्रह्मैव सन्नित्येतदवतारयति —

स चेति ।

कथं वर्तमाने देहे तिष्ठन्नेव ब्रह्मभूतो भवति तत्राऽऽह —

सर्वात्मनो हीति ।

दृष्टान्तालोचनया दार्ष्टान्तिकेऽपि सदा ब्रह्मत्वं भातीति भावः ।

सदा ब्रह्मीभूतस्य मुक्तिर्नाम नास्तीति शङ्कित्वा परिहरति —

स कथमिति ।

परिहारमेव स्फोरयितुं न तस्येत्यादिवाक्यार्थमनुद्रवति —

तस्यैवेति ।

ब्रह्मैव सन्नित्यस्यार्थमनुवदति —

किन्त्विति ।

विद्वानिहैव ब्रह्म चेत्कथं तस्य ब्रह्मप्राप्तिरित्याशङ्क्याऽऽह —

ब्रह्मैवेति ।

यदुक्तं ब्रह्मैव सन्नित्यादि तदुपपादयति —

यस्मादिति ।

प्रागपि ब्रह्मभूतस्यैव पुनर्देहपाते ब्रह्मप्राप्तिरित्ययुक्तं विदुषां मृतस्य भावान्तरापत्तिस्वीकारादित्याशङ्क्याऽऽह —

न हीति ।

कथं तर्हि ब्रह्माप्येतीत्युच्यते तत्राऽऽह —

देहान्तरेति ।

विदुषो भावान्तरापत्तिर्मुक्तिरिति पक्षेऽपि किं दूषणमिति चेत्तदाह —

भावान्तरापत्तौ हीति ।

तथा चोपनिषदामप्रामाण्यं विना हेतुना स्यादिति भावः ।

भावान्तरापत्तिर्मुक्तिरित्यत्र दोषान्तरमाह —

कर्मेति ।

इतिपदादुपरिष्टात्क्रियापदस्य संबन्धः ।

अस्तु कर्मनिमित्तो मोक्षो ज्ञाननिमित्तस्तु मा भूत्तत्राऽऽह —

स चेति ।

प्रसंगः सर्वनाम्ना परामृश्यते । प्रतिषेधशास्त्रविरोधादिति भावः ।

मोक्षस्य कर्मसाध्यत्वे दोषान्तरमाह —

अनित्यत्वं चेति ।

तत्रोपयुक्तां व्याप्तिमाह —

न हीति ।

अस्तु तर्हि प्रासादादिवत्क्रियासाध्यस्य मोक्षस्याप्यनित्यत्वं नेत्याह —

नित्यश्चेति ।

कृतकोऽपि ब्रह्मभावो ध्वंसवन्नित्यः स्यादित्याशङ्क्याऽऽह —

न चेति ।

कृत्रिमस्वभावव्यावृत्त्यर्थं स्वाभाविकपदम् । ‘अतोऽन्यदार्तम् ’(बृ. उ. ३ । ४ । २) इति हि श्रुतिः । ध्वंसस्य तु विकल्पमात्रत्वान्नित्यत्वमसंमतमिति भावः ।

मोक्षोऽकृत्रिमस्वभावोऽपि कर्मोत्थः स्यादित्याशङ्क्याऽऽह —

स्वाभाविकश्चेदिति ।

अग्नेरौष्ण्यवदात्मनो मोक्षश्च स्वाभाविकस्वभावश्चेन्न स क्रियासाध्यो व्याघातादित्यर्थः ।

दृष्टान्तं समर्थयते —

न हीति ।

अरणिगतस्याग्नेरौष्ण्यप्रकाशौ नोपलभ्यते सति च ज्वलने दृश्यते तेन स्वाभाविकावपि तावागन्तुकौ कादाचित्कोपलब्धिमत्त्वादिति शङ्कते —

ज्वलनेति ।

न हि सतोऽग्नेरौष्ण्यादि कादाचित्कं युक्तं तद्दृष्टेर्व्यवधानस्य दार्वादेर्ध्वंसे मथनज्वलनादिना वह्न्यभिव्यक्तिमपेक्ष्य तत्स्वभावस्यौष्ण्यादेर्व्यक्त्यभ्युपगमादिति परिहरति —

नान्येति ।

तदेव प्रपञ्चयति —

ज्वलनादीति ।

मथनादिव्यापारवशात्प्रकाशादिना व्यज्यतेऽग्निरिति यदुच्यते तदग्नौ सत्येव तद्गतव्यापारापेक्षया तदौष्ण्याद्यभिव्यक्तिवशान्न भवति किन्तु देवदत्तदृष्टेरग्निधर्मौ व्यवहितौ न तु तौ कस्यचिद्दृष्ट्या संबध्यते ज्वलनादिव्यापारात्तु दृष्टेर्व्यवधानभङ्गे तयोरभिव्यक्तिरित्यर्थः ।

कथं तर्हि ज्वलनादिव्यापारादग्नेरौष्ण्यप्रकाशौ जाताविति बुद्धिस्तत्राऽऽह —

तदपेक्षयेति ।

ज्वलनादिव्यापाराद्दृष्टिव्यवधानभङ्गे वह्नेरौष्ण्यप्रकाशाभिव्यक्त्यपेक्षयेति यावत् ।

यथा वह्नेरौष्ण्यादि स्वाभाविकं न क्रियासाध्यं तथाऽऽत्मनो मुक्तिः स्वाभाविकी न क्रियासाध्येत्युक्तमिदानीमग्नेरौष्ण्यादि न स्वाभाविकमित्याशङ्क्याऽऽह —

यदीति ।

उदाहरिष्यामो मोक्षस्याऽऽत्मस्वभावस्याकर्मसाध्यत्वायेति शेषः ।

अथाग्नेः स्वाभाविको न कश्चिद्धर्मोऽस्ति यो मोक्षस्य दृष्टान्तः स्यादत आह —

न चेति ।

लब्धात्मकं हि वस्तु वस्त्वन्तरेण संबध्यते । अस्ति च निम्बादौ तिक्तत्वादिधीरित्यर्थः ।