भावान्तरापत्तिपक्षं प्रतिक्षिप्य पक्षान्तरं प्रत्याह —
न चेति ।
न हि बन्धनस्य यथाभूतस्य निवृत्तिर्विरोधान्नाप्यन्यथाभूतस्यानवस्थानात् । न च प्रसिद्धिविरोधो दुर्निरूपध्वस्तिविषयत्वादिति भावः ।
किञ्च परस्मादन्यस्य बन्धनिवृत्तिस्तस्यैव वा नाऽऽद्य इत्याह —
न चेति ।
तत्र हेतुत्वेन परमात्मैकत्वाभ्युपगमादित्यादिभाष्यं व्याख्येयम् । न द्वितीयस्तस्य नित्यमुक्तस्य त्वयाऽपि बद्धत्वानभ्युपगमादिति द्रष्टव्यम् ।
कथं परस्मादन्यो बद्धो नास्तीत्याशङ्क्य प्रवेशविचारादावुक्तं स्मारयति —
परमात्मेति ।
न चेदन्यो बद्धोऽस्ति कथं मोक्षव्यवहारः स्यादित्याशङ्क्याऽऽह —
तस्मादिति ।
अन्यस्य बद्धस्याभावात्परस्य च नित्यमुक्तत्वादिति यावत् । यथा रज्ज्वादावधिष्ठाने सर्पादिहेतो रज्ज्वज्ञानस्य निवृत्तौ सत्यां सर्पादेरपि निवृत्तिस्तथाऽविद्याया बन्धहेतोर्निवृत्तिमात्रेण तत्कार्यस्य बन्धनस्यापि निवृत्तिव्यवहारो भवतीति चावादिष्मेति योजना ।