बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तदेष श्लोको भवति । तदेव सक्तः सह कर्मणैति लिङ्गं मनो यत्र निषक्तमस्य । प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् । तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मण इति नु कामयमानोऽथाकामयमानो योऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्ब्रह्माप्येति ॥ ६ ॥
येऽप्याचक्षते — मोक्षे विज्ञानान्तरम् आनन्दान्तरं च अभिव्यज्यत इति, तैर्वक्तव्यः अभिव्यक्तिशब्दार्थः । यदि तावत् लौकिक्येव उपलब्धिविषयव्याप्तिः अभिव्यक्तिशब्दार्थः, ततो वक्तव्यम् — किं विद्यमानमभिव्यज्यते, अविद्यमानमिति वा । विद्यमानं चेत् , यस्य मुक्तस्य तदभिव्यज्यते तस्य आत्मभूतमेव तत् इति, उपलब्धिव्यवधानानुपपत्तेः नित्याभिव्यक्तत्वात् , मुक्तस्य अभिव्यज्यत इति विशेषवचनमनर्थकम् । अथ कदाचिदेव अभिव्यज्यते, उपलब्धिव्यवधानात् अनात्मभूतं तदिति, अन्यतोऽभिव्यक्तिप्रसङ्गः ; तथा च अभिव्यक्तिसाधनापेक्षता । उपलब्धिसमानाश्रयत्वे तु व्यवधानकल्पनानुपपत्तेः सर्वदा अभिव्यक्तिः, अनभिव्यक्तिर्वा ; न तु अन्तरालकल्पनायां प्रमाणमस्ति । न च समानाश्रयाणाम् एकस्य आत्मभूतानां धर्माणाम् इतरेतरविषयविषयित्वं सम्भवति । विज्ञानसुखयोश्च प्रागभिव्यक्तेः संसारित्वम् , अभिव्यक्त्युत्तरकालं च मुक्तत्वं यस्य — सोऽन्यः परस्मात् नित्याभिव्यक्तज्ञानस्वरूपात् अत्यन्तवैलक्षण्यात् , शैत्यमिव औष्ण्यात् ; परमात्मभेदकल्पनायां च वैदिकः कृतान्तः परित्यक्तः स्यात् । मोक्षस्य इदानीमिव निर्विशेषत्वे तदर्थाधिकयत्नानुपपत्तिः शास्त्रवैयर्थ्यं च प्राप्नोतीति चेत् , न, अविद्याभ्रमापोहार्थत्वात् ; न हि वस्तुतो मुक्तामुक्तत्वविशेषोऽस्ति, आत्मनो नित्यैकरूपत्वात् ; किन्तु तद्विषया अविद्या अपोह्यते शास्त्रोपदेशजनितविज्ञानेन ; प्राक्तदुपदेशप्राप्तेः तदर्थश्च प्रयत्न उपपद्यत एव । अविद्यावतः अविद्यानिवृत्त्यनिवृत्तिकृतः विशेषः आत्मनः स्यादिति चेत् , न, अविद्याकल्पनाविषयत्वाभ्युपगमात् , रज्जूषरशुक्तिकागगनानां सर्पोदकरजतमलिनत्वादिवत् , अदोष इत्यवोचाम । तिमिरातिमिरदृष्टिवत् अविद्याकर्तृत्वाकर्तृत्वकृत आत्मनो विशेषः स्यादिति चेत् , न, ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इति स्वतः अविद्याकर्तृत्वस्य प्रतिषिद्धत्वात् ; अनेकव्यापारसन्निपातजनितत्वाच्च अविद्याभ्रमस्य ; विषयत्वोपपत्तेश्च ; यस्य च अविद्याभ्रमो घटादिवत् विविक्तो गृह्यते, सः न अविद्याभ्रमवान् । अहं न जाने मुग्धोऽस्मीति प्रत्ययदर्शनात् ; अविद्याभ्रमवत्त्वमेवेति चेत् , न, तस्यापि विवेकग्रहणात् ; न हि यो यस्य विवेकेन ग्रहीता, स तस्मिन्भ्रान्त इत्युच्यते ; तस्य च विवेकग्रहणम् , तस्मिन्नेव च भ्रमः — इति विप्रतिषिद्धम् ; न जाने मुग्धोऽस्मीति दृश्यते इति ब्रवीषि — तद्दर्शिनश्च अज्ञानं मुग्धरूपता दृश्यत इति च — तद्दर्शनस्य विषयो भवति, कर्मतामापद्यत इति ; तत् कथं कर्मभूतं सत् कर्तृस्वरूपदृशिविशेषणम् अज्ञानमुग्धते स्याताम् ? अथ दृशिविशेषणत्वं तयोः, कथं कर्म स्याताम् — दृशिना व्याप्येते ? कर्म हि कर्तृक्रियया व्याप्यमानं भवति ; अन्यश्च व्याप्यम् , अन्यम् व्यापकम् ; न तेनैव तत् व्याप्यते ; वद, कथम् एवं सति, अज्ञानमुग्धते दृशिविशेषणे स्याताम् ? न च अज्ञानविवेकदर्शी अज्ञानम् आत्मनः कर्मभूतमुपलभमानः उपलब्धृधर्मत्वेन गृह्णाति, शरीरे कार्श्यरूपादिवत् तथा । सुखदुःखेच्छाप्रयत्नादीन् सर्वो लोकः गृह्णातीति चेत् , तथापि ग्रहीतुर्लोकस्य विविक्ततैव अभ्युपगता स्यात् । न जानेऽहं त्वदुक्तं मुग्ध एव इति चेत् — भवतु अज्ञो मुग्धः, यस्तु एवंदर्शी, तं ज्ञम् अमुग्धं प्रतिजानीमहे वयम् । तथा व्यासेनोक्तम् — ‘इच्छादि कृत्स्नं क्षेत्रं क्षेत्री प्रकाशयतीति’(भ.गी.१३/३३), ‘समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्वविनश्यन्तम् —’ (भ. गी. १३ । २७) इत्यादि शतश उक्तम् । तस्मात् न आत्मनः स्वतः बद्धमुक्तज्ञानाज्ञानकृतो विशेषः अस्ति, सर्वदा समैकरसस्वाभाव्याभ्युपगमात् । ये तु अतोऽन्यथा आत्मवस्तु परिकल्प्य बन्धमोक्षादिशास्त्रं च अर्थवादमापादयन्ति, ते उत्सहन्ते — खेऽपि शाकुनं पदं द्रष्टुम् , खं वा मुष्टिना आक्रष्टुम् , चर्मवद्वेष्टितुम् ; वयं तु तत् कर्तुमशक्ताः ; सर्वदा समैकरसम् अद्वैतम् अविक्रियम् अजम् अजरम् अमरम् अमृतम् अभयम् आत्मतत्त्वं ब्रह्मैव स्मः — इत्येष सर्ववेदान्तनिश्चितोऽर्थ इत्येवं प्रतिपद्यामहे । तस्मात् ब्रह्मात्येतीति उपचारमात्रमेतत् , विपरीतग्रहवद्देहसन्ततेः विच्छेदमात्रं विज्ञानफलमपेक्ष्य ॥

येऽप्याचक्षत इति ; तैरिति ; यदीति ; तत इति ; विद्यमानं चेदिति ; अथेति ; उपलब्धीति ; तथा चेति ; उपलब्धीति ; न त्विति ; न चेति ; विज्ञानसुखयोश्चेति ; परमात्मेति ; मोक्षस्येति ; नाविद्येति ; नहीति ; किन्त्विति ; तद्विषयेति ; प्रागिति ; अविद्येति ; नेति ; तिमिरेति ; न ध्यायतीवेति ; अनेकेति ; विषयत्वेति ; यस्य चेति ; अहं नेत्यादिना ; न तस्यापीति ; न हीति ; तस्य चेति ; न जान इति ; तद्दर्शिनश्चेति ; कर्मतामिति ; तत्कथमिति ; अथेति ; दृशिनेति ; कर्म हीति ; न चेति ; तथेति ; सुखेति ; तथाऽपीति ; न जान इति ; भवत्विति ; यस्त्विति ; तथेति ; सममिति ; तस्मान्नेति ; ये त्विति ; त उत्सहन्त इति ; वयं त्विति ; सर्वदेति ; एकरसमिति ; अद्वैतमिति ; अविक्रियामिति ; अजमित्यादिना ; अभयमिति ; ब्रह्मैवेति ; इत्येष इति ; इत्येवमिति ; तस्मादिति ; विपरीतेति ;

मतान्तरमुद्भावयति —

येऽप्याचक्षत इति ।

वैषयिकज्ञानानन्दापेक्षयाऽन्तरशब्दः ।

केयमभिव्यक्तिरुत्पत्तिर्वा प्रकाशो वा । नाऽऽद्यो मोक्षे सुखाद्युत्पत्तौ तदनित्यत्वापत्तेरित्यभिप्रेत्याऽऽह —

तैरिति ।

द्वितीयमालम्बते —

यदीति ।

तत्र दोषं वक्तुं विकल्पयति —

तत इति ।

द्वितीये खरविषाणवदपरोक्षाभिव्यक्तिर्न स्यादित्यभिप्रेत्याऽऽद्यमनुभाष्य दूषयति —

विद्यमानं चेदिति ।

उपलब्धिस्वभावस्तावदात्मा तस्य विद्यमानं सुखादि व्यज्यते चेज्ज्ञानानन्दयोर्देशादिव्यवधानाभावादानन्दः सदैव व्यज्यत इति मुक्तिविशेषणमनर्थकमित्यर्थः ।

चक्षुर्घटयोर्विषयविषयित्वप्रतिबन्धककुड्यादिवदधर्मादिप्रतिबन्धादानन्दो ज्ञानं च संसारदशायां न व्यज्यते मोक्षे तु व्यज्यते तदभावादिति शङ्कते —

अथेति ।

उपलब्धिदेशाद्भिन्नदेशस्यैव घटादेरुपलब्धिप्रतिबन्धदर्शनादनात्मभूतं सुखं न स्वभावभूतयोपलब्ध्या प्रकाशेत किन्तु विषयेन्द्रियसंपर्कादित्युत्तरमाह —

उपलब्धीति ।

अन्यतोऽभिव्यक्तौ किं स्यादिति चेत्तदाह —

तथा चेति ।

तत्साधनानि चेन्मुक्तौ स्युः संसारादविशेषः स्यादिति भावः ।

उपलब्धिव्यवधानमानन्दस्याङ्गिकृत्योक्तमिदानीं तदेव नास्तीत्याह —

उपलब्धीति ।

कदाचिदभिव्यक्तिरनभिव्यक्तिश्च कदाचिदित्येवं कालभेदेनोभयं किं न स्यादित्याशङ्क्याऽऽह —

न त्विति ।

अनन्दज्ञानयोर्विषयविषयित्वमभ्युपेत्य कादाचित्कीं तावदभिव्यक्तिर्निरस्ता संप्रति तदपि न संभवतीत्याह —

न चेति ।

आत्मभूतत्वं स्वाभाविकत्वम् । विमतं न समानाश्रयविषयं धर्मत्वात्प्रदीपप्रकाशवदिति भावः ।

मुक्तावानन्दज्ञानाभिव्यक्तिपक्षे दोषान्तरं वक्तुं भूमिकां करोति —

विज्ञानसुखयोश्चेति ।

तद्भेदापादननिष्ठमेवेत्याशङ्क्य विवक्षितं दोषमाह —

परमात्मेति ।

परमते निराकृते सिद्धान्तेऽपि दोषद्वयमाशङ्कते —

मोक्षस्येति ।

मोक्षार्थोऽधिको यत्नः शमदमादिः । शास्त्रं मोक्षविषयम् ।

मोक्षस्य निर्विशेषत्वेऽपि प्रत्यगविद्यातदुत्थानर्थध्वंसित्वेनोभयमर्थवदिति परिहरति —

नाविद्येति ।

तत्र नञर्थं विवृणोति —

नहीति ।

कथं तर्हि शास्त्राद्यर्थवत्त्वमित्याशङ्क्याऽऽह —

किन्त्विति ।

तत्र शास्त्रस्यार्थवत्वं समर्थयते —

तद्विषयेति ।

प्रस्तुतात्मविषयस्तच्छब्दः ।

संप्रति प्रयत्नस्यार्थवत्वं प्रकटयति

प्रागिति।

प्रथमस्तच्छब्दः शास्त्रविषयः । द्वितीयो मोक्षविषयः ।

आत्मनः सदैकरूपत्वं प्रागुक्तमाक्षिपति —

अविद्येति ।

आविद्यः सोऽपीति समाधत्ते —

नेति ।

यथा रज्ज्वाद्यविद्योत्थसर्पादेस्तद्विद्यया ध्वंसाद्वंसयो रज्ज्वादेर्न वास्तवो विशेषस्तथाऽऽत्मनोऽपि स्वाविद्यामात्रोत्थविशेषवत्त्वेऽपि तद्ध्वंसाध्वंसयोर्न वास्तवो विशेषोऽस्तीत्यर्थः । अदोषः सविशेषत्वदोषराहित्यम् ।

प्रकारान्तरेण सविशेषत्वं शङ्कते —

तिमिरेति ।

किमिदमविद्याकर्तृत्वं किं तज्जनकत्वं किं वा तदाश्रयत्वमिति विकल्प्याऽऽद्यं दूषयति —

न ध्यायतीवेति ।

आत्मनः स्वतोऽविद्याकर्तृत्वाभावे हेत्वन्तरमाह —

अनेकेति ।

विषयविषय्याकारोऽन्तःकरणस्य तत्र चिदाभासोदयश्चाऽऽत्मनो व्यापारस्तथा चानेकव्यापारसंनिपाते सत्यहं संसारीत्यविद्यात्मको भ्रमो जायते तस्मान्न तस्याऽऽत्मकार्यतेत्यर्थः ।

कल्पान्तरं प्रत्याह —

विषयत्वेति ।

अविद्यादेरात्मदृश्यत्वान्न तदाश्रयत्वं न हि तद्गतस्य तद्ग्राह्यत्वमंशतः स्वग्रहापत्तेरित्यर्थः ।

तदेव स्फोरयति —

यस्य चेति ।

अनुभवमनुसृत्य शङ्कते —

अहं नेत्यादिना ।

साक्षिसाक्ष्यभावेन भेदाभ्युपगमान्नाऽऽत्मनोऽविद्याश्रयत्वमित्युत्तरमाह —

न तस्यापीति ।

तदेव स्पष्टयति —

न हीति ।

अविद्यादेर्विवेकेन ग्रहीतर्यपि तद्विषये भ्रान्तत्वे का हानिरित्याशङ्क्याऽऽह —

तस्य चेति ।

अज्ञानं मुग्धत्वं चाऽऽत्मनो न विशेषणमिति विधान्तरेण दर्शयितुं चोद्यवाक्यमनुवदति —

न जान इति ।

तद्व्याचष्टे —

तद्दर्शिनश्चेति ।

अज्ञानादिस्तच्छब्दार्थः ।

दृश्यमानत्वमेव विशदयति —

कर्मतामिति ।

इति ब्रवीषीति संबन्धः ।

एवं परकीयं वाक्यं व्याख्याय फलितमाह —

तत्कथमिति ।

तत्र चोद्यवाक्यार्थे दर्शितरीत्या स्थिते सति कर्तृविशेषणं नाज्ञानमुग्धते स्यातां तयोः प्रत्येकं कर्मभूतत्वादित्यर्थः ।

विपक्षे दोषमाह —

अथेति ।

कथं कर्म स्यातामित्येतदेव व्याचष्टे —

दृशिनेति ।

तत्रापि कथंशब्दः संबध्यते । एतदेव स्फुटयति —

कर्म हीति ।

एवं सति व्याप्यव्यापकभावस्य भेदनिष्ठत्वे सतीत्येतत् ।

किञ्चाज्ञानमुपलब्धृधर्मो न भवत्युपलभ्यमानत्वाद्देहगतकार्श्यादिवदित्याह —

न चेति ।

अज्ञानतत्तत्कार्यमपि नाऽऽत्मधर्मः स्यादित्यतिदिशति —

तथेति ।

अज्ञानोत्थस्येच्छादेरात्मधर्मत्वनिराकरणे प्रतीतिविरोधः स्यादिति शङ्कते —

सुखेति ।

तेषां ग्राह्यत्वमङ्गीकृत्य परिहरति —

तथाऽपीति ।

आत्मनिष्ठत्वे सुखादीनां चैतन्यवदात्मग्राह्यत्वायोगात्तद्ग्राह्याणां तेषां न तद्धर्मतेति भावः ।

प्रकारान्तरेण निराकर्तुं निराकृतमेव चोद्यमनुद्रवति —

न जान इति ।

किं प्रमातुरज्ञानाद्याश्रयत्वमनुभवादभिदधासि तत्साक्षिणो वा । तत्राऽऽद्यं प्रत्याह —

भवत्विति ।

कल्पान्तरं निराकरोति —

यस्त्विति ।

न हि यो यत्र साक्षी स तत्राज्ञो मूढो वेति । तथा च सर्वसाक्षी नाज्ञानादिमान्भवतीत्यर्थः ।

आत्मनो मोहादिराहित्ये भगवद्वाक्यं प्रमाणयति —

तथेति ।

तस्य सर्वविशेषशून्यत्वे वाक्यान्तरमुदाहरति —

सममिति ।

आदिपदेन समं पश्यन्हि सर्वत्र । ज्योतिषामपि तज्ज्योतिरित्यादि गृह्यते ।

आत्मनो निर्विशेषत्वे प्रामाणिके स्वमतमुपसंहरति —

तस्मान्नेति ।

पक्षान्तरमनुभाषते —

ये त्विति ।

अतो निर्विशेषस्वाभाव्यादिति यावत् । अज्ञानाद्बन्धो ज्ञानान्मुक्तिरिति शास्रमर्थवादः । आदिशब्देन रुद्ररोदनाद्यर्थवादं दृष्टान्तं सूचयति ।

सोपहासं दूषयति —

त उत्सहन्त इति ।

न हि सविशेषत्वं शक्यमात्मनः प्रतिपत्तुं निर्विशेषत्वप्रत्यायकागमविरोधादिति भावः ।

कथं तर्हि भवद्भिरात्मतत्त्वमभ्युपगम्यते तत्राऽऽह —

वयं त्विति ।

प्रमाणविरुद्धार्थदर्शनं तच्छब्देन परामृश्यते ।

सत्त्वादीनामिव साम्यं दूषयति —

सर्वदेति ।

 भेदाभेदमपवदति —

एकरसमिति ।

तत्र हेतुमाह —

अद्वैतमिति ।

द्वैताभावोपलक्षितत्वादित्यर्थः ।

ऐकरस्ये कौटस्थ्यं हेत्वन्तरमाह —

अविक्रियामिति ।

तदुपपादयति —

अजमित्यादिना ।

अमरं मरणायोग्यम् ।

तत्र सर्वत्राविद्यासंबन्धराहित्यं हेतुमाह —

अभयमिति ।

ननु ब्रह्मैवंविधं न त्वात्मतत्त्वमित्याशङ्क्याऽऽह —

ब्रह्मैवेति ।

यथोक्तं प्रत्यग्भूतं ब्रह्मेत्यत्र प्रमाणमाह —

इत्येष इति ।

तत्रैव विद्वदनुभवं प्रमाणयति —

इत्येवमिति ।

परपक्षनिरासेन प्रकृतं वाक्यार्थमुपसंहरति —

तस्मादिति ।

उपचारनिमित्तमाह —

विपरीतेति ।

आत्मा तत्त्वतः संसारीतिविपरीतग्रहवती या देहसन्ततिस्तस्या विच्छेदमात्रं ज्ञानफलमपेक्ष्योपचारमात्रमित्यर्थः ॥ ६ ॥