बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स्वप्नबुद्धान्तगमनदृष्टान्तस्य दार्ष्टान्तिकः संसारो वर्णितः । संसारहेतुश्च विद्याकर्मपूर्वप्रज्ञा वर्णिता । यैश्च उपाधिभूतैः कार्यकरणलक्षणभूतैः परिवेष्टितः संसारित्वमनुभवति, तानि चोक्तानि । तेषां साक्षात्प्रयोजकौ धर्माधर्माविति पूर्वपक्षं कृत्वा, काम एवेत्यवधारितम् । यथा च ब्राह्मणेन अयम् अर्थः अवधारितः, एवं मन्त्रेणापीति बन्धं बन्धकारणं च उक्त्वा उपसंहृतं प्रकरणम् — ‘इति नु कामयमानः’ (बृ. उ. ४ । ४ । ६) इति । ‘अथाकामयमानः’ (बृ. उ. ४ । ४ । ६) इत्यारभ्य सुषुप्तदृष्टान्तस्य दार्ष्टान्तिकभूतः सर्वात्मभावो मोक्ष उक्तः । मोक्षकारणं च आत्मकामतया यत् आप्तकामत्वमुक्तम् , तच्च सामर्थ्यात् न आत्मज्ञानमन्तरेण आत्मकामतया आप्तकामत्वमिति — सामर्थ्यात् ब्रह्मविद्यैव मोक्षकारणमित्युक्तम् । अतः यद्यपि कामो मूलमित्युक्तम् , तथापि मोक्षकारणविपर्ययेण बन्धकारणम् अविद्या इत्येतदपि उक्तमेव भवति । अत्रापि मोक्षः मोक्षसाधनं च ब्राह्मणेनोक्तम् ; तस्यैव दृढीकरणाय मन्त्र उदाह्रियते श्लोकशब्दवाच्यः —

ब्राह्मणोक्तेऽर्थे मन्त्रमवतारयितुं ब्राह्मणार्तमनुवदति —

स्वप्नेत्यादिना ।

अयमर्थः संसारस्तद्धेतुश्च । मन्त्रस्तदेव सक्तः सह कर्मणेत्यादिः ।

आत्मज्ञानस्य तर्हि मोक्षकारणत्वमपेक्षितमित्याशङ्क्याऽऽह —

तच्चेति ।

अतो ब्रह्मज्ञानं मोक्षकारणमित्युक्तत्वादिति यावत् । मूलं बन्धस्येति शेषः ।