अत्रेति मोक्षप्रकरणोक्तिः । बन्धप्रकरणं दृष्टान्तयितुमपिशब्दः । उक्तेऽर्थे तदेष इत्याद्यक्षराणि व्याचष्टे —
तत्तस्मिन्नेवेति ।
यस्मिन्काले विद्यापरिपाकावस्थायामित्यर्थः ।
सुषुप्तिव्यावृत्त्यर्थं सर्वविशेषणमिति मत्वाऽऽह —
समस्ता इति ।
कामशब्दस्यार्थान्तरविषयत्वं व्यावर्तयति —
तृष्णेति ।
क्रियापदं सोपसर्गं व्याकरोति —
आत्मकामस्येति ।
तानेव विशिनष्टि —
ये प्रसिद्धा इति ।
कामानामात्माश्रयत्वं निराकरोति —
हृदीति ।
समूलतः कामवियोगादिति संबन्धः ।
कामवियोगादमृतो भवतीतिनिर्देशसामर्थ्यसिद्धमर्थमाह —
अर्थादिति ।
तेषां मृत्युत्वे किं स्यात्तदाह —
अत इति ।
अत्रेत्यादिना विवक्षितमर्थमाह —
अतो मोक्ष इति ।
आदिपदमुत्क्रान्त्यादिसंग्रहार्थम् ।
मुक्तेस्तदपेक्षाभावे फलितमाह —
तस्मादिति ।
तर्हि मरणासिद्धिरित्याशङ्क्याऽऽह —
यथेति ।
उत्क्रान्तिगत्यागतिराहित्यं यथावस्थितत्वम् ।
एतच्च पञ्चमे प्रतिपादितमित्याह —
नाममात्रमिति ।
तद्यथेत्यादिवाक्यनिरस्यां शङ्कामाह —
कथं पुनरिति ।
विदुषो विद्ययाऽऽत्ममात्रत्वेन प्राणादिषु बाधितेष्वपि देहे चेदसौ वर्तते ततोऽस्य पूर्ववद्देहित्वाद्विद्यावैयर्थ्यमित्यर्थः ।
दृष्टान्तेन परिहरति —
अत्रेत्यादिना ।
देहे वर्तमानस्यापि विदुषस्तत्राभिमानराहित्यं तत्रेत्युच्यते । यस्यां त्वचि सर्पो नितरां लीयते सा निर्लयनी सर्पत्वगुच्यते ।
सर्पनिर्मोकदृष्टान्तस्य दार्ष्टान्तिकमाह —
एवमेवेति ।
सर्पदृष्टान्तस्य दार्ष्टान्तिकं दर्शयति —
अथेति ।
अज्ञानेन सह देहस्य नष्टत्वमशरीरत्वादौ हेतुरथशब्दार्थः ।
अथशब्दावद्योतितहेत्ववष्टम्भेनाशरीरत्वं विशदयति —
कामेति ।
पूर्वमित्यविद्यावस्थोक्तिः । इदानीमिति विद्यावस्थोच्यते ।
व्युत्पत्त्यनुसारिणं रूढं च मुख्यं प्राणं व्यावर्तयति —
प्राणस्येति ।
श्लोके पर एवाऽऽत्मा यथा प्राणशब्दस्तथाऽत्रापीत्यर्थः ।
यथा च श्रुत्यन्तरे प्राणशब्दः पर एवाऽऽत्मा तथाऽऽत्रापीत्याह —
प्राणेति ।
किञ्च परविषयमिदं प्रकरणमथाकामयमान इति प्राज्ञस्य प्रकान्तत्वादथायमित्यादि वाक्यं च तद्विषयमन्यथा ब्रह्मादिशब्दानुपपत्तेः । तस्मादुभयसामर्थ्यादत्र पर एवाऽऽत्मा प्राणशब्दित इत्याह —
प्रकरणेति ।
विशेष्यं दर्शयित्वा विशेषणं दर्शयति —
ब्रह्मैवेति।
ब्रह्मशब्दस्य कमलासनादिविषयत्वं वारयति —
किं पुनरिति ।
तेजःशब्दस्य कार्यज्योतिर्विषयत्वमाशङ्क्याऽऽह —
विज्ञानेति ।
तत्र प्रमाणमाह —
येनेति ।
प्रज्ञा प्रकृष्टा ज्ञप्तिः स्वरूपचैतन्यं नेत्रमिव नेत्रं प्रकाशकमस्येति तथोक्तम् ।
सोऽहमित्यादेस्तात्पर्यं वक्तुं वृत्तं कीर्तयति —
यः कामप्रश्न इति ।
निर्णयप्रकारं संक्षिपति —
संसारेति ।
सोऽहमित्यादिवाक्यान्तरमुत्थापयति —
इदानीमिति ।
आकाङ्क्षापूर्वकं वाक्यमादाय विभजते —
कथमिति ।
सहस्रदानमाक्षिपति —
अत्रेति ।
सर्वस्वदानप्राप्तावपि सहस्रदाने हेतुमेकदेशीयं दर्शयति —
अत्रेत्यादिना ।
कदा तर्हि गुरवे सर्वस्वं राजा निवेदयिष्यति तत्राऽऽह —
श्रुत्वेति ।
ननु पुनः शुश्रूषुरपि राजा किमिति संप्रत्येव गुरवे न प्रयच्छति प्रभूता हि दक्षिणा गुरुं प्रीणयन्ती स्वीयां शुश्रूषा फलयति तत्राऽऽह —
यदि चेति ।
अनाप्तोक्तौ हृदयेऽन्यन्निधाय वाचाऽन्यनिष्पादनात्मकं व्याजोत्तरं युक्तं श्रुतौ त्वपौरुषेय्यामपास्ताशेषदोषशङ्कायां न व्याजोक्तिर्युक्ता तदीयस्वारसिकप्रामाण्यभङ्गप्रसंगादिति दूषयति —
सर्वमपीति ।
एकदेशीयपरिहारसंभवे हेत्वन्तरमाह —
अर्थेति ।
तदुपपत्तिमेवोपपादयति —
विमोक्षेति ।
तस्यापि पूर्वमसकृदुक्तेस्तदीयशुश्रूषाधीनं सहस्रदानमनुचितमित्याशङ्क्य शमादेर्ज्ञानसाधनत्वेन प्रागनुक्तेस्तेन सह भूयोऽपि संन्यासस्य वक्तव्यत्वयोगात्तदपेक्षया युक्तं सहस्रदानमित्याह —
अगतिका हीति ।
ननु संन्यासादि विद्यास्तुत्यर्थमुच्यते महाभागा हीयं यत्तदर्थी दुष्करमपि करोत्यतो नार्थशेषसिद्धिस्तत्राऽऽह —
न चेति ।
न तावत्संन्यासो विद्यास्तुतिर्विदित्वा व्युत्थायेति समानकर्तृत्वनिर्देशादिति पञ्चमे स्थितं नापि शमादिर्विद्यास्तुतिस्तत्रापि विधेर्वक्ष्यमाणत्वादित्यर्थः ।
अर्थशेषशुश्रूषया सहस्रदानमित्यत्र जनकस्याकौशलं चोदयति —
नन्विति ।
राज्ञः शङ्कितमकौशलं दूषयति —
नैष इति ।
तत्र हेतुमाह —
आत्मज्ञानवदिति ।
यथाऽऽत्मज्ञानं मोक्षे प्रयोजकं न तथा संन्यासो न चास्मिन्पक्षे तस्याकर्तव्यत्वं प्रतिपत्तिकर्मवदनुष्ठानसंभवादिति राजा यतो मन्यते ततः संन्यासस्य न ज्ञानतुल्यत्वमतो नात ऊर्ध्वं विमोक्षायैव ब्रूहीति पृच्छतीत्यर्थः ।
संन्यासस्य प्रतिपत्तिकर्मवत्कर्तव्यत्वे प्रमाणमाह —
संन्यासेनेति ।
ननु विविदिषासंन्यासमङ्गीकुर्वता न तस्य प्रतिपत्तिकर्मवदनुष्ठेयत्वमिष्यते तत्राऽऽह —
साधनत्वेति।
’त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं पदम्’ इत्युक्तत्वादित्यर्थः ॥ ७ ॥