राज्ञोऽकौशलं परिहृत्य मन्त्रानवतारयति —
आत्मकामस्येति ।
यदेत्याद्यतीतश्लोकेनाऽऽगामिश्लोकानामर्थापौनरुक्त्यं सूचयति —
विस्तरेति ।
ज्ञानमार्गस्य सूक्ष्मत्वे हेतुमाह —
दुर्विज्ञेयत्वादिति ।
विस्तीर्णत्वं पूर्णवस्तुविषयत्वादवधेयम् ।
माध्यन्दिनश्रुतिमाश्रित्याऽऽह —
विस्पष्टेति ।
प्रयत्नसाध्यत्वं तस्य पञ्चम्या विवक्ष्यते ।
कथं पुनरधुनातनो वैदिको ज्ञानमार्गश्चिरन्तनो निरुच्यते तत्राऽऽह —
नित्येति ।
विशेषणप्रकाशितमर्थमुक्त्वा तस्य व्यवच्छेद्यमाह —
न तार्किकेति ।
मन्त्रदृशा लब्धत्वेऽपि कुतो ज्ञानमार्गस्य तत्संस्पर्शित्वमित्याशङ्क्याऽऽह —
यो हीति ।
अनुवेदनलाभयोर्विशेषाभावात्पौनरुक्त्यमाशङ्क्याऽऽह —
अनुवेदनमिति ।
पूर्वशब्देन पाठक्रमानुसारेण लाभो गृह्यते । एवकारमाश्रित्य शङ्कते —
किमसाविति ।
तथा च तद्यो यो देवानामित्याद्यविशेषश्रुतिर्विरुध्येतेति शेषः ।
अवधारणश्रुतेरन्यपरत्वेनान्ययोगव्यवच्छेदकाभावमभिप्रेत्य परिहरति —
नैष दोष इति ।
स्तुतिपरत्वमेव प्रकटयति —
एवं हीति ।
कृतार्थोऽस्मीत्यात्मन्यभिमानकरं स्वानुभवसिद्धमात्मज्ञानं नास्मादन्यदुत्कृष्टं किञ्चिदित्येवं विद्यामवधारणश्रुतिः स्तौतीत्यर्थः ।
यथाश्रुतार्थत्वे को दोषः स्यादिति चेत्तत्राऽऽह —
नन्विति ।
इत्यवधारणश्रुत्या विवक्षितमिति शेषः ।
तत्र हेतुः —
तद्यो य इति ।
सर्वार्थश्रुतेर्ब्रह्मविद्या सर्वार्था सर्वसाधारणीति श्रवणादिति यावत् ।
ब्रह्मविद्यायाः सर्वार्थत्वे वाक्यशेषं प्रमाणत्वेनावतार्य व्याचष्टे —
तदेवेति ।
ननु मोक्षे स्वर्गशब्दो न युज्यते तस्यार्थान्तरे रूढत्वादत आह —
स्वर्गेति ।
यथा ज्योतिष्टोमप्रकरणे श्रुतो ज्योतिःशब्दो ज्योतिष्टोमविषयस्तथा मोक्षप्रकरणे श्रुतः स्वर्गशब्दो मोक्षमधिकरोति । रूढ्यङ्गीकारे ब्रह्मविद्याया निकर्षप्रसंगादिति भावः । जीवन्त एव मुक्ताः सन्तः शरीरपातादूर्ध्वं मोक्षमपियन्तीति संबन्धः ॥ ८ ॥