तस्मिन्नित्यादिपूर्वपक्षमुत्थापयति —
तस्मिन्निति ।
विप्रतिपत्तिमेव प्रश्नपूर्वकं विशदयति —
कथमित्यादिना ।
पिङ्गलं वह्निज्वालातुल्यम् । लोहितं जपाकुसुमसंनिभम् ।
सप्रपञ्चं शब्दस्पर्शरूपरसादिमद्ब्रह्म तदुपासनमनुसृत्य तत्प्राप्तिमार्गे विवादो मुमुक्षूणामित्याह —
यथादर्शनमिति।
तथाऽपि कथं ब्रह्मप्राप्तिमार्गे शुक्लादिरूपसिद्धिः ।
न हि ज्ञानस्य रूपादिमत्त्वमित्याशङ्क्याऽऽह —
नाड्यस्त्विति ।
तासामपि कथं यथोक्तरूपवत्त्वमित्याशङ्क्याऽऽह —
श्लेष्मादीति ।
तथाऽपि कथं शुक्लादिरूपवत्त्वमित्याशङ्क्य नाडीखण्डोक्तं स्मारयति —
शुक्लस्येति ।
नाडीपरिग्रहे नियामकाभावमाशङ्क्य पक्षान्तरमाह —
आदित्यं वेति ।
एवंविधं शुक्लादिनानावर्णमित्यर्थः ।
तस्य तथात्वे प्रमाणमाह —
एष इति ।
प्रकृते ज्ञानमार्गे किमिति मार्गान्तरं कल्प्यते तत्राऽऽह —
दर्शनेति ।
तर्हि नाडीपक्षो वाऽऽदित्यपक्षो वा कतरो विवक्षितस्तत्राऽऽह —
सर्वथाऽपीति ।
शुक्लमार्गस्य ज्ञानमार्गादन्यत्वमाक्षिपति —
नन्विति ।
शुक्लशब्दस्य नाद्वैतमार्गविषयत्वं नीलादिशब्दसमभिव्याहारविरोधादिति परिहरति —
न नीलेति ।
सैद्धान्तिकमन्त्रभागं व्याख्यातुं पूर्वपक्षं दूषयति —
याञ्छुक्लादीनिति ।
न केवलं देहदेशनिःसरणसंबन्धादेव नाडीभेदानां संसारविषयत्वं किन्तु ब्रह्मलोकादिसंबन्धादपीत्याह —
ब्रह्मादीति ।
आदित्योऽपि देवयानमध्यपाती ब्रह्मलोकप्रापकः संसारहेतुरेवेति मन्वानो मोक्षमार्गमुपसंहरति —
तस्मादिति ।
आप्तकामतया ज्ञानमार्ग इति संबन्धः । एवं भूमिकां कृत्वैष इत्यस्यार्थमाह —
सर्वकामेति ।
तथा तैलादिविलये प्रदीपस्य ज्वलनानुपपत्तौ तेजोमात्रे निर्वाणमिष्यते तथा स्थूलस्य सूक्ष्मस्य च सर्वस्यैव कामस्य ज्ञानात्क्षये सति गत्यनुपपत्तावत्रैव प्रत्यगात्मनि कार्यकरणानामेकीभावेनावसानमित्ययमेषशब्दार्थ इत्यर्थः ।
पन्था इत्येतद्व्याचष्टे —
ज्ञानमार्ग इति ।
इत्थम्भावे तृतीयामाश्रित्याऽऽह —
परमात्मेति ।
अनुवेदनकर्तृर्ब्राह्मणस्य संन्यासित्वं दर्शयति —
त्यक्तेति ।
विप्रतिपत्तिं निराकृत्य मोक्षमार्गं निर्धार्य तेन धीरा अपियन्तीत्यत्रोक्तं निगमयति —
तेनेति ।
अन्योऽपि मन्त्रदृशः सकाशादिति शेषः । इहेति जीवदवस्थोक्तिः ।
समुच्चयकारिणोऽत्र ब्रह्मप्राप्तिर्विवक्ष्यतेति केचित्तान्प्रत्याह —
न पुनरिति ।
विरोधाज्ज्ञानकर्मणोरिति शेषः ।
किञ्च क्रमसमुच्चयः समसमुच्चयो वेति विकल्प्याऽऽद्यमङ्गीकृत्य द्वीतीयं दृषयति —
अपुण्येति ।
ज्ञानस्य कर्मासमुच्चयेऽपि विवेकज्ञानेन समुच्चयोऽस्तीत्याशङ्क्याऽऽह —
त्यजेति ।
ब्रह्मविदोऽपि स्तुत्यादिदृष्टेस्तेन समुच्चयो ज्ञानस्येत्याशङ्क्याऽऽह —
निराशिषमिति ।
काम्याननुष्ठानमनारम्भः । अक्षीणत्वं निषिद्धानाचरणम् । क्षीणकर्मत्वं नित्यादिकर्मराहित्यम् ।
असमुच्चये वाक्यान्तरमाह —
नेत्यादिना ।
एकता निरपेक्षता सर्वोदासीनतेति यावत् । समता मित्रोदासीनशत्रुबुद्धिव्यतिरेकेण सर्वत्र स्वस्मिन्निव दृष्टिः । दण्डनिधानमहिंसापरत्वम् ।
“अर्थस्य मूलं निकृतिः क्षमा च कामस्य चित्तं च वपुर्वयश्च ।
धर्मस्य यागादि दया दमश्च मोक्षस्य सर्वोपरमः क्रियाभ्यः”॥
इत्यादिचतुर्विधे पुरुषार्थे साधनभेदोपदेशि वाक्यमादिशब्दार्थः । इत्यादिस्मृतिभ्यश्च न पुण्यादिसमुच्चयकारिणो ग्रहणमिति संबन्धः ।
तथाऽपि प्रकृते मन्त्रे समुच्चयो भातीत्याशङ्क्याऽऽह —
उपदेक्ष्यतीति ।
वाक्यशेषादिपर्यालोचनासिद्धमर्थमुपसंहरति —
तस्मादिति ।
पूर्वं पुण्यकृद्भूत्वा पुनस्त्यक्तपुत्राद्येषणो ब्रह्मवित्तेनैतीति क्रमो न युज्यतेऽश्रुतत्वादित्याशङ्क्याऽऽह —
अथवेति ।
स्तुतिमेवोपपादयति —
पुण्यकृतीति ।
तेजांसि करणान्युपसंहृत्य स्थितस्तैजसो दहराद्युपासीनो योगी तस्मिन्नणिमाद्यैश्वर्यान्महानुभावत्वप्रसिद्धिः । ताभ्यां पुण्यकृत्तैजसाभ्यामित्यर्थः ।
अतःशब्दपरामृष्टं स्पष्टयति —
प्रख्यातेति ।
पुण्यकृत्तैजसयोरिति शेषः ॥ ९ ॥