ब्राह्मणोक्तेऽर्थे मन्त्रमवतारयितुं ब्राह्मणार्तमनुवदति —
स्वप्नेत्यादिना ।
अयमर्थः संसारस्तद्धेतुश्च । मन्त्रस्तदेव सक्तः सह कर्मणेत्यादिः ।
आत्मज्ञानस्य तर्हि मोक्षकारणत्वमपेक्षितमित्याशङ्क्याऽऽह —
तच्चेति ।
अतो ब्रह्मज्ञानं मोक्षकारणमित्युक्तत्वादिति यावत् । मूलं बन्धस्येति शेषः ।