बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
यदैतमनुपश्यत्यात्मानं देवमञ्जसा । ईशानं भूतभव्यस्य न ततो विजुगुप्सते ॥ १५ ॥
यदा पुनः एतम् आत्मानम् , कथञ्चित् परमकारुणिकं कञ्चिदाचार्यं प्राप्य ततो लब्धप्रसादः सन् , अनु पश्चात् पश्यति साक्षात्करोति स्वमात्मानम् , देवं द्योतनवन्तम् दातारं वा सर्वप्राणिकर्मफलानां यथाकर्मानुरूपम् , अञ्जसा साक्षात् , ईशानं स्वामिनम् भूतभव्यस्य कालत्रयस्येत्येतत् — न ततः तस्मादीशानाद्देवात् आत्मानं विशेषेण जुगुप्सते गोपायितुमिच्छति । सर्वो हि लोक ईश्वराद्गुप्तिमिच्छति भेददर्शी ; अयं तु एकत्वदर्शी न बिभेति कुतश्चन ; अतो न तदा विजुगुप्सते, यदा ईशानं देवम् अञ्जसा आत्मत्वेन पश्यति । न तदा निन्दति वा कञ्चित् , सर्वम् आत्मानं हि पश्यति, स एवं पश्यन् कम् असौ निन्द्यात् ॥

किञ्च विदुषो विहिताकरणादिप्रयुक्तं भयं नास्तीति विद्यां स्तोतुमेव मन्त्रान्तरमादाय व्याचष्टे —

यदा पुनरित्यादिना ।

उक्तमर्थं व्यतिरेकमुखेन विशदयति —

सर्वो हीति ।

जुगुप्साया निन्दात्वेन प्रसिद्धत्वात्कथमवयवार्थमादाय व्याख्यायते रूढिर्योगमपहरतीति न्यायादित्याशङ्क्याऽऽह —

यदेति ।

तदेवोपपादयति —

सर्वमिति ॥ १५ ॥