ब्रह्मविदो विद्यया कृतकृत्यत्वे श्रुतिसंप्रतिपत्तिरेव केवलं न भवति किन्तु स्वानुभवसप्रतिपत्तिरस्तीत्याह —
किञ्चेति ।
अथेत्यस्य कथञ्चिदिवेति व्याख्यानम् ।
तदित्यस्य ब्रह्मतत्वमित्युक्तार्थं स्फुटयति —
तदेतदिति ।
ब्रह्मज्ञाने कृतार्थत्वं श्रुत्यनुभवाभ्यामुक्त्वा तदभावे दोषमाह —
यदेतदिति ।
तर्हि महती विनष्टिरिति संबन्धः ।
बहुत्वं न विवक्षितं ज्ञानान्मोक्षोऽत्र विवक्षित इत्यभिप्रेत्य वेदिरित्यस्यार्थमाह —
वेदनमित्यादिना ।
न चेद्ब्रह्म विदितवन्तो वयं ततोऽहमवेदिः स्यामिति योजना ।
विद्याभावे दोषमुक्त्वा विद्वदनुभवसिद्धमर्थं निगमयति —
अहो वयमिति ।
इहैवेत्यादिना पूर्वार्धेनोक्तमेवार्थमुत्तरार्धेन प्रपञ्चयति —
यथा चेत्यादिना ।
दुःखादविदुषां विनिर्मोकाभावे हेतुमाह —
दुःखमेवेति ॥ १४ ॥