बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः । तमेव मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम् ॥ १७ ॥
किं च यस्मिन् यत्र ब्रह्मणि, पञ्च पञ्चजनाः — गन्धर्वादयः पञ्चैव सङ्ख्याताः गन्धर्वाः पितरो देवा असुरा रक्षांसि — निषादपञ्चमा वा वर्णाः, आकाशश्च अव्याकृताख्यः — यस्मिन् सूत्रम् ओतं च प्रोतं च — यस्मिन्प्रतिष्ठितः ; ‘एतस्मिन्नु खल्वक्षरे गार्ग्याकाशः’ (बृ. उ. ३ । ८ । ११) इत्युक्तम् ; तमेव आत्मानम् अमृतं ब्रह्म मन्ये अहम् , न चाहमात्मानं ततोऽन्यत्वेन जाने । किं तर्हि ? अमृतोऽहम् ब्रह्म विद्वान्सन् ; अज्ञानमात्रेण तु मर्त्योऽहम् आसम् ; तदपगमात् विद्वानहम् अमृत एव ॥

ज्योतिषां ज्योतिरमृतमित्युक्तं तस्यामृतत्वं सर्वाधिष्ठानत्वेन साधयति —

किञ्चेति ।

एवकारार्थमाह —

न चेति ।

यद्यात्मानं ब्रह्म जानासि तर्हि किं ते तद्विद्याफलमिति प्रश्नपूर्वकमाह —

किं तर्हीति ।

कथं तर्हि ते मर्त्यत्वप्रतीतिस्तत्राऽऽह —

अज्ञानमात्रेणेति ॥ १७ ॥