बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुः । ते निचिक्युर्ब्रह्म पुराणमग्र्यम् ॥ १८ ॥
किं च तेन हि चैतन्यात्मज्योतिषा अवभास्यमानः प्राणः आत्मभूतेन प्राणिति, तेन प्राणस्यापि प्राणः सः, तं प्राणस्य प्राणम् ; तथा चक्षुषोऽपि चक्षुः ; उत श्रोत्रस्यापि श्रोत्रम् ; ब्रह्मशक्त्याधिष्ठितानां हि चक्षुरादीनां दर्शनादिसामर्थ्यम् ; स्वतः काष्ठलोष्टसमानि हि तानि चैतन्यात्मज्योतिःशून्यानि ; मनसोऽपि मनः — इति ये विदुः — चक्षुरादिव्यापारानुमितास्तित्वं प्रत्यगात्मानम् , न विषयभूतम् ये विदुः — ते निचिक्युः निश्चयेन ज्ञातवन्तः ब्रह्म, पुराणं चिरन्तनम् , अग्र्यम् अग्रे भवम् । ‘तद्यदात्मविदो विदुः’ (मु. उ. २ । २ । १०) इति ह्याथर्वणे ॥

प्रकृताः पञ्चजनाः पञ्च ज्योतिषा सह प्राणादयो वा स्युरित्यभिप्रेत्याऽऽह —

किञ्चेति ।

कथं चक्षुरादिषु चक्षुरादित्वं ब्रह्मणः सिध्यति तत्राऽऽह —

ब्रह्मशक्तीति ।

विमतानि केनचिदधिष्ठितानि प्रवर्तन्ते करणत्वाद्वास्यादिवदिति चक्षुरादिव्यापारेणानुमितास्तित्वं प्रत्यगात्मनं ये विदुरिति योजना ।

विदिक्रियाविषयत्वं व्यावर्तयति —

नेति ।

प्रत्यगात्मविदां कथं ब्रह्मवित्त्वमित्याशङ्क्याऽऽह —

तदिति ॥ १८ ॥