मनसो ब्रह्मदर्शनसाधनत्वे कथं ब्रह्मणो वाङ्मनसातीतत्वश्रुतिरित्याशङ्क्याऽऽह —
परमार्थेति ।
केवलं मनो ब्रह्माविषयीकुर्वदपि श्रवणादिसंस्कृतं तदाकारं जायते तेन द्रष्टव्यं तदुच्यतेऽत एव वृत्तिव्याप्यं ब्रह्मेत्युपगच्छतीति भावः ।
अनुशब्दार्थमाह —
आचार्येति ।
द्रष्टृद्रष्टव्यादिभावेन भेदमाशङ्क्याऽऽह —
तत्र चेति ।
एवकारार्थमाह —
नेहेति ।
कथमात्मनि वस्तुतो भेदरहितेऽपि भेदो भातीत्याशङ्क्याऽऽह —
असतीति ।
नेहेत्यादेः संपिण्डितमर्थं कथयति —
अविद्येति ॥ १९ ॥