बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
एकधैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम् । विरजः पर आकाशादज आत्मा महान्ध्रुवः ॥ २० ॥
यस्मादेवम् तस्मात् , एकधैव एकेनैव प्रकारेण विज्ञानघनैकरसप्रकारेण आकाशवन्निरन्तरेण अनुद्रष्टव्यम् ; यस्मात् एतद्ब्रह्म अप्रमयम् अप्रमेयम् , सर्वैकत्वात् ; अन्येन हि अन्यत् प्रमीयते ; इदं तु एकमेव, अतः अप्रमेयम् ; ध्रुवं नित्यं कूटस्थम् अविचालीत्यर्थः । ननु विरुद्धमिदमुच्यते — अप्रमेयं ज्ञायत इति च ; ‘ज्ञायते’ इति प्रमाणैर्मीयत इत्यर्थः, ‘अप्रमेयम्’ इति च तत्प्रतिषेधः — नैष दोषः, अन्यवस्तुवत् अनागमप्रमाणप्रमेयत्वप्रतिषेधार्थत्वात् ; यथा अन्यानि वस्तूनि आगमनिरपेक्षैः प्रमाणैः विषयीक्रियन्ते, न तथा एतत् आत्मतत्त्वं प्रमाणान्तरेण विषयीकर्तुं शक्यते ; सर्वस्यात्मत्वे केन कं पश्येत् विजानीयात् — इति प्रमातृप्रमाणादिव्यापारप्रतिषेधेनैव आगमोऽपि विज्ञापयति, न तु अभिधानाभिधेयलक्षणवाक्यधर्माङ्गीकरणेन ; तस्मात् न आगमेनापि स्वर्गमेर्वादिवत् तत् प्रतिपाद्यते ; प्रतिपादयित्रात्मभूतं हि तत् ; प्रतिपादयितुः प्रतिपादनस्य प्रतिपाद्यविषयत्वात् , भेदे हि सति तत् भवति । ज्ञानं च तस्मिन् परात्मभावनिवृत्तिरेव ; न तस्मिन् साक्षात् आत्मभावः कर्तव्यः, विद्यमानत्वादात्मभावस्य ; नित्यो हि आत्मभावः सर्वस्य अतद्विषय इव प्रत्यवभासते ; तस्मात् अतद्विषयाभासनिवृत्तिव्यतिरेकेण न तस्मिन्नात्मभावो विधीयते ; अन्यात्मभावनिवृत्तौ, आत्मभावः स्वात्मनि स्वाभाविको यः, स केवलो भवतीति — आत्मा ज्ञायत इत्युच्यते ; स्वतश्चाप्रमेयः प्रमाणान्तरेण न विषयीक्रियते इति उभयमप्यविरुद्धमेव । विरजः विगतरजः, रजो नाम धर्माधर्मादिमलम् तद्रहित इत्येतत् । परः — परो व्यतिरिक्तः सूक्ष्मो व्यापी वा आकाशादपि अव्याकृताख्यात् । अजः न जायते ; जन्मप्रतिषेधात् उत्तरेऽपि भावविकाराः प्रतिषिद्धाः, सर्वेषां जन्मादित्वात् । आत्मा, महान्परिमाणतः, महत्तरः सर्वस्मात् । ध्रुवः अविनाशी ॥

द्वैताभावे कथमनुद्रष्टव्यमित्याशङ्क्याऽऽह —

यस्मादिति ।

तमेवैकं प्रकारं प्रकटयति —

विज्ञानेति ।

परिच्छिन्नत्वं व्यवच्छिनत्ति —

आकाशवदिति ।

एकरसत्वं हेतूकृत्याप्रमेयत्वं प्रतिजानीते —

यस्मादिति ।

एतद्ब्रह्म यस्मादेकरसं तस्मादप्रमेयमिति योजना ।

हेत्वर्थं स्फुटयति —

सर्वैकत्वादिति ।

तथाऽपि कथमप्रमेयत्वं तदाह —

अन्येनेति ।

मिथो विरोधमाशङ्कते —

नन्विति ।

विरोधमेव स्फोरयति —

ज्ञायत इतीति ।

चोदितं विरोधं निराकरोति —

नैष दोष इति ।

संगृहीते समाधानं विशदयति —

यथेत्यादिना ।

तस्य मानान्तरविषयीकर्तुमशक्यत्वे हेतुमाह —

सर्वस्येति ।

इति सर्वद्वैतोपशान्तिश्रुतेरिति शेषः ।

आगमोऽपि तर्हि कथमात्मानमावेदयेदित्याशङ्क्याऽऽह —

प्रमात्रिति ।

आत्मनः स्वर्गादिवद्विषयत्वेनाऽऽगमप्रतिपाद्यत्वाभावे हेतुमाह —

प्रतिपादयित्रिति ।

तथाऽपि किमिति विषयत्वेनाप्रतिपाद्यत्वं तत्राऽऽह —

प्रतिपादयितुरिति ।

तदिति प्रतिपाद्यत्वमुक्तम् ।

कथं तर्हि तस्मिन्नागमिकं ज्ञानं तत्राऽऽह —

ज्ञानं चेति ।

परस्मिन्देहादावात्मभावस्याऽऽरोपितस्य निवृत्तिरेव वाक्येन क्रियते । तथा चाऽऽत्मनि परिशिष्टे स्वाभाविकमेव स्फुरणं प्रतिबन्धविगमात्प्रकटीभवतीति भावः ।

ननु ब्रह्मण्यात्मभावः श्रुत्या कर्तव्यो विवक्ष्यते न तु देहादावात्मत्त्वव्यावृत्तिरत आह —

न तस्मिन्निति ।

ब्रह्मणश्चेदात्मभावः सदा मन्यते कथमन्यथा प्रथेत्याशङ्क्याऽऽह —

नित्यो हीति ।

सर्वस्य पूर्णस्य ब्रह्मण इत्येतत् । अतद्विषयो ब्रह्मव्यतिरिक्तविषय इत्यर्थः ।

ब्रह्मण्यात्मभावस्य सदा विद्यमानत्वे फलितमाह —

तस्मादिति ।

अतद्विषयाभासो देहादावात्मप्रतिभासः । तस्मिन्ब्रह्मणीत्यर्थः ।

अन्यस्मिन्नात्मभावनिवृत्तिरेवाऽऽगमेन क्रियते चेत्तर्हि कथमात्मा तेन गम्यत इत्युच्यते तत्राऽऽह —

अन्येति ।

यद्यागमिकवृत्तिव्याप्यत्वेनाऽऽत्मजो मेयत्वमिष्यते कथं तर्हि तस्यामेयत्ववाचो युक्तिरित्याशङ्क्याऽऽह —

स्वतश्चेति ।

वृत्तिव्याप्यत्वेन मेयत्वं स्फुरणाव्याप्यत्वेन चामेयत्वमित्युपसंहरति —

इत्युभयमिति ।

यदुक्तं ध्रुवत्वं तदुपस्कारपूर्वकमुपपादयति —

विरज इत्यादिना ।

कथं जन्मनिषेधादितरे विकारा निषिध्यन्ते तत्राऽऽह —

सर्वेषामिति ॥ २० ॥