बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तदिति ॥ २१ ॥
तम् ईदृशमात्मानमेव, धीरः धीमान् विज्ञाय उपदेशतः शास्त्रतश्च, प्रज्ञां शास्त्राचर्योपदिष्टविषयां जिज्ञासापरिसमाप्तिकरीम् , कुर्वीत ब्राह्मणः — एवं प्रज्ञाकरणसाधनानि सन्न्यासशमदमोपरमतितिक्षासमाधानानि कुर्यादित्यर्थः । न अनुध्यायात् नानुचिन्तयेत् , बहून् प्रभूतान् शब्दान् ; तत्र बहुत्वप्रतिषेधात् केवलात्मैकत्वप्रतिपादकाः स्वल्पाः शब्दा अनुज्ञायन्ते ; ‘ओमित्येवं ध्यायथ आत्मानम्’ (मु. उ. २ । २ । ६) ‘अन्या वाचो विमुञ्चथ’ (मु. उ. २ । २ । ५) इति च आथर्वणे । वाचो विग्लापनं विशेषेण ग्लानिकरं श्रमकरम् , हि यस्मात् , तत् बहुशब्दाभिध्यानमिति ॥

यथोक्तं वस्तुनिदर्शनं निगमयति —

तमीदृशमिति ।

नित्यशुद्धत्वादिलक्षणमिति यावत् ।

उक्तरीत्या प्रज्ञाकरणे कानि साधनानि चेत्तानि दर्शयति —

एवमिति ।

कर्मनिषिद्धत्यागः संन्यास उपरमो नित्यनैमित्तिकत्याग इति भेदः ।

बहूनिति विशेषणवशादायातमर्थं दर्शयति —

तत्रेति ।

चिन्तनीयेषु शब्देष्विति यावत् ।

तत्र श्रुत्यन्तरं संवादयति —

ओमित्येवमिति ।

नानुध्यायादित्यत्र हेतुमाह —

वाच इति ।

तस्माद्बहूञ्छब्दान्नानुचिन्तयेदिति पूर्वेण संबन्धः । इतिशब्दः श्लोकव्याख्यानसमाप्त्यर्थः ॥ २१ ॥