बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयानेष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेनैतमेव विदित्वा मुनिर्भवति । एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति । एतद्ध स्म वै तत्पूर्वे विद्वांसः प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोक इति ते ह स्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतः । स एष नेति नेत्यात्मागृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यत्येतमु हैवैते न तरत इत्यतः पापमकरवमित्यतः कल्याणमकरवमित्युभे उ हैवैष एते तरति नैनं कृताकृते तपतः ॥ २२ ॥
सहेतुकौ बन्धमोक्षौ अभिहितौ मन्त्रब्राह्मणाभ्याम् ; श्लोकैश्च पुनः मोक्षस्वरूपं विस्तरेण प्रतिपादितम् ; एवम् एतस्मिन् आत्मविषये सर्वो वेदः यथा उपयुक्तो भवति, तत् तथा वक्तव्यमिति तदर्थेयं कण्डिका आरभ्यते । तच्च यथा अस्मिन्प्रपाठके अभिहितं सप्रयोजनम् अनूद्य अत्रैव उपयोगः कृत्स्नस्य वेदस्य काम्यराशिवर्जितस्य — इत्येवमर्थ उक्तार्थानुवादः ‘स वा एषः’ इत्यादिः । स इति उक्तपरामर्शार्थः ; कोऽसौ उक्तः परामृश्यते ? तं प्रतिनिर्दिशति — य एष विज्ञानमय इति — अतीतानन्तरवाक्योक्तसंप्रत्ययो मा भूदिति, यः एषः ; कतमः एषः इत्युच्यते — विज्ञानमयः प्राणेष्विति ; उक्तवाक्योल्लिङ्गनं संशयनिवृत्त्यर्थम् ; उक्तं हि पूर्वं जनकप्रश्नारम्भे ‘कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु’ (बृ. उ. ४ । ३ । ७) इत्यादि । एतदुक्तं भवति — योऽयम् ‘विज्ञानमयः प्राणेषु’ इत्यादिना वाक्येन प्रतिपादितः स्वयं ज्योतिरात्मा, स एषः कामकर्माविद्यानामनात्मधर्मत्वप्रतिपादनद्वारेण मोक्षितः परमात्मभावमापादितः — पर एवायं नान्य इति ; एष सः साक्षान्महानज आत्मेत्युक्तः । योऽयं विज्ञानमयः प्राणेष्विति यथाव्याख्यातार्थ एव । य एषः अन्तर्हृदये हृदयपुण्डरीकमध्ये य एष आकाशो बुद्धिविज्ञानसंश्रयः, तस्मिन्नाकाशे बुद्धिविज्ञानसहिते शेते तिष्ठति ; अथवा सम्प्रसादकाले अन्तर्हृदये य एष आकाशः पर एव आत्मा निरुपाधिकः विज्ञानमयस्य स्वस्वभावः, तस्मिन् स्वस्वभावे परमात्मनि आकाशाख्ये शेते ; चतुर्थे एतद्व्याख्यातम् ‘क्वैष तदाभूत्’ (बृ. उ. २ । १ । १६) इत्यस्य प्रतिवचनत्वेन । स च सर्वस्य ब्रह्मेन्द्रादेः वशी ; सर्वो हि अस्य वशे वर्तते ; उक्तं च ‘एतस्य वा अक्षरस्य प्रशासने’ (बृ. उ. ३ । ८ । ९) इति । न केवलं वशी, सर्वस्य ईशानः ईशिता च ब्रह्मेन्द्रप्रभृतीनाम् । ईशितृत्वं च कदाचित् जातिकृतम् , यथा राजकुमारस्य बलवत्तरानपि भृत्यान्प्रति, तद्वन्मा भूदित्याह — सर्वस्याधिपतिः अधिष्ठाय पालयिता, स्वतन्त्र इत्यर्थः ; न राजपुत्रवत् अमात्यादिभृत्यतन्त्रः । त्रयमप्येतत् वशित्वादि हेतुहेतुमद्रूपम् — यस्मात् सर्वस्याधिपतिः, ततोऽसौ सर्वस्येशानः ; यो हि यमधिष्ठाय पालयति, स तं प्रतीष्ट एवेति प्रसिद्धम् , यस्माच्च सर्वस्येशानः, तस्मात् सर्वस्य वशीति । किञ्चान्यत् स एवंभूतो हृद्यन्तर्ज्योतिः पुरुषो विज्ञानमयः न साधुना शास्त्रविहितेन कर्मणा भूयान्भवति, न वर्धते पूर्वावस्थातः केनचिद्धर्मेण ; नो एव शास्त्रप्रतिषिद्धेन असाधुना कर्मणा कनीयान् अल्पतरो भवति, पूर्वावस्थातो न हीयत इत्यर्थः । किं च सर्वो हि अधिष्ठानपालनादि कुर्वन् परानुग्रहपीडाकृतेन धर्माधर्माख्येन युज्यते ; अस्यैव तु कथं तदभाव इत्युच्यते — यस्मात् एष सर्वेश्वरः सन् कर्मणोऽपीशितुं भवत्येव शीलमस्य, तस्मात् न कर्मणा सम्बध्यते । किं च एष भूताधिपतिः ब्रह्मादिस्तम्बपर्यन्तानां भूतानामधिपतिरित्युक्तार्थं पदम् । एष भूतानां तेषामेव पालयिता रक्षिता । एष सेतुः ; किंविशिष्ट इत्याह — विधरणः वर्णाश्रमादिव्यवस्थाया विधारयिता ; तदाह — एषां भूरादीनां ब्रह्मलोकान्तानां लोकानाम् असम्भेदाय असम्भिन्नमर्यादायै ; परमेश्वरेण सेतुवदविधार्यमाणा लोकाः सम्भिन्नमर्यादाः स्युः ; अतो लोकानामसम्भेदाय सेतुभूतोऽयं परमेश्वरः, यः स्वयं ज्योतिरात्मैव एवंवित् सर्वस्य वशी — इत्यादि ब्रह्मविद्यायाः फलमेतन्निर्दिष्टम् । ‘किञ्ज्योतिरयं पुरुषः’ (बृ. उ. ४ । ३ । २) इत्येवमादिषष्ठप्रपाठकविहितायामेतस्यां ब्रह्मविद्यायाम् एवंफलायाम् काम्यैकदेशवर्जितं कृत्स्नं कर्मकाण्डं तादर्थ्येन विनियुज्यते ; तत् कथमित्युच्यते — तमेतम् एवंभूतमौपनिषदं पुरुषम् , वेदानुवचनेन मन्त्रब्राह्मणाध्ययनेन नित्यस्वाध्यायलक्षणेन, विविदिषन्ति वेदितुमिच्छन्ति ; के ? ब्राह्मणाः ; ब्राह्मणग्रहणमुपलक्षणार्थम् ; अविशिष्टो हि अधिकारः त्रयाणां वर्णानाम् ; अथवा कर्मकाण्डेन मन्त्रब्राह्मणेन वेदानुवचनेन विविदिषन्ति ; कथं विविदिषन्तीत्युच्यते — यज्ञेनेत्यादि ॥

काण्डिकान्तरमवतारयितुं वृत्तं कीर्तयति —

सहेतुकाविति ।

उत्तरकण्डिकातात्पर्यमाह —

एवमिति ।

विरजः पर इत्यादिनोक्तक्रमेणावस्थिते ब्रह्मणीति यावत् । तदित्युपयुक्तोक्तिः । तदर्था ब्रह्मात्मनि सर्वस्य वेदस्य विनियोगप्रदर्शनार्थेति यावत् ।

ननु विविदिषावाक्येन ब्रह्मात्मनि सर्वस्य वेदस्य विनियोगो वक्ष्यते तथा च तस्मात्प्राक्तनवाक्यं किमर्थमित्याशङ्क्याऽऽह —

तच्चेति ।

यथाऽस्मिन्नध्याये सफलमात्मज्ञानमुक्तं तथैव तदनूद्येति योजना ।

कथं यथोक्ते ज्ञाने सर्वो वेदो विनियोक्तुं शक्यते स्वर्गकामादिवाक्यस्य स्वर्गादावेव पर्यवसानादित्याशङ्क्य संयोगपृथक्त्वन्यायमनादृत्य विशिनष्टि —

काम्यराशीति ।

उक्तस्य सफलस्याऽऽत्मज्ञानस्यानुवाद इति यावत् ।

उक्तानां भूयस्त्वे विशेषं ज्ञातुं पृच्छति —

कोऽसाविति ।

विशेषणानर्थक्यमाशङ्क्य परिहरति —

अतीतेति ।

तद्धि विरजः पर इत्यादि तेनोक्तो यो महत्त्वादिविशेषणः परमात्मा तत्र सशब्दात्प्रतीतिर्मा भूदिति कृत्वा तेन ज्योतिर्ब्राह्मणस्थं जीवं परामृश्य तमेव वैशब्देन स्मारयित्वा तस्य संन्निहितेन परेणाऽऽत्मनैक्यमेषशब्देन निर्दिशतीत्यर्थः ।

विशेषणवाक्यस्थमेषशब्दं प्रश्नपूर्वकं व्याचष्टे —

कतम इति ।

कथं जीवो विज्ञानमयः कथं वा प्राणेष्विति सप्तमी प्रयुज्यते तत्राऽऽह —

उक्तेति ।

तदनुवादस्य सशब्दार्थसन्देहापोहं फलमाह —

संशयेति ।

उक्तवाक्योल्लिङ्गनमित्युक्तं विवृणोति —

उक्तं हीति ।

योऽयं विज्ञानमयः प्राणेषु प्रागुक्तः स एष महानज आत्मेति जीवानुवादेन परमात्मभवो विहित इति वाक्यार्थमाह —

एतदिति।

परमात्मभावापादनप्रकारमनुवदति —

साक्षादिति ।

विशेषणवाक्यस्य व्याख्येयत्वप्राप्तावुक्तवाक्योल्लिङ्गनमित्यत्रोक्तं स्मारयति —

योऽयमिति ।

वाक्यान्तरमवतार्य व्याचष्टे —

य एष इति ।

कथं पुनराकाशशब्दस्य परमात्मविषयत्वमुपेत्य द्वितीयं व्याख्यानं तास्यार्थान्तरे रूढत्वादित्याशङ्क्याऽऽह —

चतुर्थ इति ।

इत्थमुक्तं ज्ञानमनूद्य तत्फलमनुवदति —

स चेत्यादिना ।

कथं पुनर्निरुपाधिकस्येश्वरस्य वशित्वं कथं च तदभावे तदात्मनो विदुषस्तदुपपद्यते तत्राऽह —

उक्तं वेति ।

विशेषणत्रयस्य हेतुहेतुमद्रूपत्वमेव विशदयति —

यस्मादित्यादिना ।

तत्र प्रसिद्धिं प्रमाणयति —

यो हीति ।

न केवलमुक्तमेव विद्याफलं किन्त्वन्यच्चास्तीत्याह —

किञ्चेति ।

एवम्भूतत्वं ज्ञातपरमात्माभिन्नत्वम् ।

परिशुद्धत्वमर्थमनुवदति —

हृदीति ।

ब्रह्मीभूतस्य विदुषः स्वातन्त्र्यादिवद्धर्माधर्मास्पर्शित्वमपि फलमित्यर्थः ।

अधिष्ठानादिकर्तृत्वाद्विदुषोऽपि लौकिकवद्धर्मादिसंबन्धित्वं स्यादिति शङ्कते —

सर्वो हीति ।

परतन्त्रत्वमुपाधिरिति परिहरति —

उच्यत इति ।

सर्वाधिपत्यराहित्यं चोपाधिरित्याह —

किञ्चेति ।

सर्वपालकत्वराहित्यं चोपाधिरित्याह —

एष इति ।

सर्वानाधारत्वं चोपाधिरित्याह —

एष इति ।

कथं विधारयितृत्वमित्याशङ्क्याऽऽह —

तदाहेऽति ।

तदेव साधयति —

परमेश्वरेणेति ।

सर्वस्य वशीत्यादिनोक्तमुपसंहरति —

एवंविदिति ।

सफलं ज्ञानमनूद्य विविदिषावाक्यमवतारयति —

किञ्ज्योतिरिति ।

एवम्फलायां सर्वस्य वशीत्यादिनोक्तफलोपेतायामिति यावत् । तादर्थ्येन परम्परया ज्ञानोत्पत्तिशेषत्वेनेत्यर्थः ।

विनियोजकं वाक्यमाकाङ्क्षापूर्वकमादाय व्याचष्टे —

तत्कथमित्यादिना ।

एवम्भूतं श्लोकोक्तविशेषणमित्यर्थः ।

ब्राह्मणशब्दस्य क्षत्रियाद्युपलक्षणत्वे हेतुमाह —

अवशिष्ठो हीति ।

संभावितं पक्षान्तरमाह —

अथवेति ।

तेन विविदिषाप्रकारं प्रश्नपूर्वकं विवृणोति —

कथमित्यादिना ।