काण्डिकान्तरमवतारयितुं वृत्तं कीर्तयति —
सहेतुकाविति ।
उत्तरकण्डिकातात्पर्यमाह —
एवमिति ।
विरजः पर इत्यादिनोक्तक्रमेणावस्थिते ब्रह्मणीति यावत् । तदित्युपयुक्तोक्तिः । तदर्था ब्रह्मात्मनि सर्वस्य वेदस्य विनियोगप्रदर्शनार्थेति यावत् ।
ननु विविदिषावाक्येन ब्रह्मात्मनि सर्वस्य वेदस्य विनियोगो वक्ष्यते तथा च तस्मात्प्राक्तनवाक्यं किमर्थमित्याशङ्क्याऽऽह —
तच्चेति ।
यथाऽस्मिन्नध्याये सफलमात्मज्ञानमुक्तं तथैव तदनूद्येति योजना ।
कथं यथोक्ते ज्ञाने सर्वो वेदो विनियोक्तुं शक्यते स्वर्गकामादिवाक्यस्य स्वर्गादावेव पर्यवसानादित्याशङ्क्य संयोगपृथक्त्वन्यायमनादृत्य विशिनष्टि —
काम्यराशीति ।
उक्तस्य सफलस्याऽऽत्मज्ञानस्यानुवाद इति यावत् ।
उक्तानां भूयस्त्वे विशेषं ज्ञातुं पृच्छति —
कोऽसाविति ।
विशेषणानर्थक्यमाशङ्क्य परिहरति —
अतीतेति ।
तद्धि विरजः पर इत्यादि तेनोक्तो यो महत्त्वादिविशेषणः परमात्मा तत्र सशब्दात्प्रतीतिर्मा भूदिति कृत्वा तेन ज्योतिर्ब्राह्मणस्थं जीवं परामृश्य तमेव वैशब्देन स्मारयित्वा तस्य संन्निहितेन परेणाऽऽत्मनैक्यमेषशब्देन निर्दिशतीत्यर्थः ।
विशेषणवाक्यस्थमेषशब्दं प्रश्नपूर्वकं व्याचष्टे —
कतम इति ।
कथं जीवो विज्ञानमयः कथं वा प्राणेष्विति सप्तमी प्रयुज्यते तत्राऽऽह —
उक्तेति ।
तदनुवादस्य सशब्दार्थसन्देहापोहं फलमाह —
संशयेति ।
उक्तवाक्योल्लिङ्गनमित्युक्तं विवृणोति —
उक्तं हीति ।
योऽयं विज्ञानमयः प्राणेषु प्रागुक्तः स एष महानज आत्मेति जीवानुवादेन परमात्मभवो विहित इति वाक्यार्थमाह —
एतदिति।
परमात्मभावापादनप्रकारमनुवदति —
साक्षादिति ।
विशेषणवाक्यस्य व्याख्येयत्वप्राप्तावुक्तवाक्योल्लिङ्गनमित्यत्रोक्तं स्मारयति —
योऽयमिति ।
वाक्यान्तरमवतार्य व्याचष्टे —
य एष इति ।
कथं पुनराकाशशब्दस्य परमात्मविषयत्वमुपेत्य द्वितीयं व्याख्यानं तास्यार्थान्तरे रूढत्वादित्याशङ्क्याऽऽह —
चतुर्थ इति ।
इत्थमुक्तं ज्ञानमनूद्य तत्फलमनुवदति —
स चेत्यादिना ।
कथं पुनर्निरुपाधिकस्येश्वरस्य वशित्वं कथं च तदभावे तदात्मनो विदुषस्तदुपपद्यते तत्राऽह —
उक्तं वेति ।
विशेषणत्रयस्य हेतुहेतुमद्रूपत्वमेव विशदयति —
यस्मादित्यादिना ।
तत्र प्रसिद्धिं प्रमाणयति —
यो हीति ।
न केवलमुक्तमेव विद्याफलं किन्त्वन्यच्चास्तीत्याह —
किञ्चेति ।
एवम्भूतत्वं ज्ञातपरमात्माभिन्नत्वम् ।
परिशुद्धत्वमर्थमनुवदति —
हृदीति ।
ब्रह्मीभूतस्य विदुषः स्वातन्त्र्यादिवद्धर्माधर्मास्पर्शित्वमपि फलमित्यर्थः ।
अधिष्ठानादिकर्तृत्वाद्विदुषोऽपि लौकिकवद्धर्मादिसंबन्धित्वं स्यादिति शङ्कते —
सर्वो हीति ।
परतन्त्रत्वमुपाधिरिति परिहरति —
उच्यत इति ।
सर्वाधिपत्यराहित्यं चोपाधिरित्याह —
किञ्चेति ।
सर्वपालकत्वराहित्यं चोपाधिरित्याह —
एष इति ।
सर्वानाधारत्वं चोपाधिरित्याह —
एष इति ।
कथं विधारयितृत्वमित्याशङ्क्याऽऽह —
तदाहेऽति ।
तदेव साधयति —
परमेश्वरेणेति ।
सर्वस्य वशीत्यादिनोक्तमुपसंहरति —
एवंविदिति ।
सफलं ज्ञानमनूद्य विविदिषावाक्यमवतारयति —
किञ्ज्योतिरिति ।
एवम्फलायां सर्वस्य वशीत्यादिनोक्तफलोपेतायामिति यावत् । तादर्थ्येन परम्परया ज्ञानोत्पत्तिशेषत्वेनेत्यर्थः ।
विनियोजकं वाक्यमाकाङ्क्षापूर्वकमादाय व्याचष्टे —
तत्कथमित्यादिना ।
एवम्भूतं श्लोकोक्तविशेषणमित्यर्थः ।
ब्राह्मणशब्दस्य क्षत्रियाद्युपलक्षणत्वे हेतुमाह —
अवशिष्ठो हीति ।
संभावितं पक्षान्तरमाह —
अथवेति ।
तेन विविदिषाप्रकारं प्रश्नपूर्वकं विवृणोति —
कथमित्यादिना ।