बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयानेष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेनैतमेव विदित्वा मुनिर्भवति । एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति । एतद्ध स्म वै तत्पूर्वे विद्वांसः प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोक इति ते ह स्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतः । स एष नेति नेत्यात्मागृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यत्येतमु हैवैते न तरत इत्यतः पापमकरवमित्यतः कल्याणमकरवमित्युभे उ हैवैष एते तरति नैनं कृताकृते तपतः ॥ २२ ॥
कथं पुनः नित्यस्वाध्यायादिभिः कर्मभिः आत्मानं विविदिषन्ति ? नैव हि तानि आत्मानं प्रकाशयन्ति, यथा उपनिषदः — नैष दोषः, कर्मणां विशुद्धिहेतुत्वात् ; कर्मभिः संस्कृता हि विशुद्धात्मानः शक्नुवन्ति आत्मानमुपनिषत्प्रकाशितम् अप्रतिबन्धेन वेदितुम् ; तथा ह्याथर्वणे — ‘विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः’ (मु. उ. ३ । १ । ८) इति ; स्मृतिश्च ‘ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः’ (मो. ध. २०४ । ८) इत्यादिः । कथं पुनः नित्यानि कर्माणि संस्कारार्थानीत्यवगम्यते ? ‘स ह वा आत्मयाजी यो वेदेदं मेऽनेनाङ्गं संस्क्रियत इदं मेऽनेनाङ्गमुपधीयते’ (शत. ब्रा. ११ । २ । ६ । १३) इत्यादिश्रुतेः ; सर्वेषु च स्मृतिशास्त्रेषु कर्माणि संस्कारार्थान्येव आचक्षते ‘अष्टाचत्वारिंशत्संस्काराः’ (गौ. ध. १ । ८ । ८ तः २२, २४, २५) इत्यादिषु । गीतासु च — ‘यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् । ’ (भ. गी. १८ । ५) ‘सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः’ (भ. गी. ४ । ३०) इति । यज्ञेनेति — द्रव्ययज्ञा ज्ञानयज्ञाश्च संस्कारार्थाः ; संस्कृतस्य च विशुद्धसत्त्वस्य ज्ञानोत्पत्तिरप्रतिबन्धेन भविष्यति ; अतो यज्ञेन विविदिषन्ति । दानेन — दानमपि पापक्षयहेतुत्वात् धर्मवृद्धिहेतुत्वाच्च । तपसा, तप इति अविशेषेण कृच्छ्रचान्द्रायणादिप्राप्तौ विशेषणम् — अनाशकेनेति ; कामानशनम् अनाशकम् , न तु भोजननिवृत्तिः ; भोजननिवृत्तौ म्रियत एव, न आत्मवेदनम् । वेदानुवचनयज्ञदानतपःशब्देन सर्वमेव नित्यं कर्म उपलक्ष्यते ; एवं काम्यवर्जितं नित्यं कर्मजातं सर्वम् आत्मज्ञानोत्पत्तिद्वारेण मोक्षसाधनत्वं प्रतिपद्यते ; एवं कर्मकाण्डेन अस्य एकवाक्यतावगतिः । एवं यथोक्तेन न्यायेन एतमेव आत्मानं विदित्वा यथाप्रकाशितम् , मुनिर्भवति, मननान्मुनिः, योगी भवतीत्यर्थः ; एतमेव विदित्वा मुनिर्भवति, नान्यम् । ननु अन्यवेदनेऽपि मुनित्वं स्यात् ; कथमवधार्यते — एतमेवेति — बाढम् , अन्यवेदनेऽपि मुनिर्भवेत् ; किं तु अन्यवेदने न मुनिरेव स्यात् , किं तर्हि कर्म्यपि भवेत् सः ; एतं तु औपनिषदं पुरुषं विदित्वा, मुनिरेव स्यात् , न तु कर्मी ; अतः असाधारणं मुनित्वं विवक्षितमस्येति अवधारयति — एतमेवेति ; एतस्मिन्हि विदिते, केन कं पश्येदित्येवं क्रियासम्भवात् मननमेव स्यात् । किं च एतमेव आत्मानं स्वं लोकम् इच्छन्तः प्रार्थयन्तः प्रव्राजिनः प्रव्रजनशीलाः प्रव्रजन्ति प्रकर्षेण व्रजन्ति, सर्वाणि कर्माणि सन्न्यस्यन्तीत्यर्थः । ‘एतमेव लोकमिच्छन्तः’ इत्यवधारणात् न बाह्यलोकत्रयेप्सूनां पारिव्राज्ये अधिकार इति गम्यते ; न हि गङ्गाद्वारं प्रतिपित्सुः काशीदेशनिवासी पूर्वाभिमुखः प्रैति । तस्मात् बाह्यलोकत्रयार्थिनां पुत्रकर्मापरब्रह्मविद्याः साधनम् , ‘पुत्रेणायं लोको जय्यो नान्येन कर्मणा’ (बृ. उ. १ । ५ । १६) इत्यादिश्रुतेः ; अतः तदर्थिभिः पुत्रादिसाधनं प्रत्याख्याय, न पारिव्राज्यं प्रतिपत्तुं युक्तम् , अतत्साधनत्वात्पारिव्राज्यस्य । तस्मात् ‘एतमेव लोकमिच्छन्तः प्रव्रजन्ति’ इति युक्तमवधारणम् । आत्मलोकप्राप्तिर्हि अविद्यानिवृत्तौ स्वात्मन्यवस्थानमेव । तस्मात् आत्मानं चेत् लोकमिच्छति यः, तस्य सर्वक्रियोपरम एव आत्मलोकसाधनं मुख्यम् अन्तरङ्गम् , यथा पुत्रादिरेव बाह्यलोकत्रयस्य, पुत्रादिकर्मण आत्मलोकं प्रति असाधनत्वात् । असम्भवेन च विरुद्धत्वमवोचाम । तस्मात् आत्मानं लोकमिच्छन्तः प्रव्रजन्त्येव, सर्वक्रियाभ्यो निवर्तेरन्नेवेत्यर्थः । यथा च बाह्यलोकत्रयार्थिनः प्रतिनियतानि पुत्रादीनि साधनानि विहितानि, एवमात्मलोकार्थिनः सर्वैषणानिवृत्तिः पारिव्राज्यं ब्रह्मविदो विधीयत एव । कुतः पुनः ते आत्मलोकार्थिनः प्रव्रजन्त्येवेत्युच्यते ; तत्र अर्थवादवाक्यरूपेण हेतुं दर्शयति — एतद्ध स्म वै तत् । तदेतत् पारिव्राज्ये कारणमुच्यते — ह स्म वै किल पूर्वे अतिक्रान्तकालीना विद्वांसः आत्मज्ञाः, प्रजां कर्म अपरब्रह्मविद्यां च ; प्रजोपलक्षितं हि त्रयमेतत् बाह्यलोकत्रयसाधनं निर्दिश्यते ‘प्रजाम्’ इति । प्रजां किम् ? न कामयन्ते, पुत्रादिलोकत्रयसाधनं न अनुतिष्ठन्तीत्यर्थः । ननु अपरब्रह्मदर्शनमनुतिष्ठन्त्येव, तद्बलाद्धि व्युत्थानम् — न अपवादात् ; ‘ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद’ (बृ. उ. २ । ४ । ६) ‘सर्वं तं परादात् —’ इति अपरब्रह्मदर्शनमपि अपवदत्येव, अपरब्रह्मणोऽपि सर्वमध्यान्तर्भावात् ; ‘यत्र नान्यत्पश्यति’ (छा. उ. ७ । २४ । १) इति च ; पूर्वापरबाह्यान्तरदर्शनप्रतिषेधाच्च अपूर्वमनपरमनन्तरमबाह्यमिति ; ‘तत्केन कं पश्येद्विजानीयात्’ (बृ. उ. २ । ४ । १४) इति च ; तस्मात् न आत्मदर्शनव्यतिरेकेण अन्यत् व्युत्थानकारणमपेक्षते । कः पुनः तेषामभिप्राय इत्युच्यते — किं प्रयोजनं फलं साध्यं करिष्यामः प्रजया साधनेन ; प्रजा हि बाह्यलोकसाधनं निर्ज्ञाता ; स च बाह्यलोको नास्ति अस्माकम् आत्मव्यतिरिक्तः ; सर्वं हि अस्माकम् आत्मभूतमेव, सर्वस्य च वयम् आत्मभूताः ; आत्मा च नः आत्मत्वादेव न केनचित् साधनेन उत्पाद्यः आप्यः विकार्यः संस्कार्यो वा । यदपि आत्मयाजिनः संस्कारार्थं कर्मेति, तदपि कार्यकरणात्मदर्शनविषयमेव, इदं मे अनेन अङ्गं संस्क्रियते — इति अङ्गाङ्गित्वादिश्रवणात् ; न हि विज्ञानघनैकरसनैरन्तर्यदर्शिनः अङ्गाङ्गिसंस्कारोपधानदर्शनं सम्भवति । तस्मात् न किञ्चित् प्रजादिसाधनैः करिष्यामः ; अविदुषां हि तत् प्रजादिसाधनैः कर्तव्यं फलम् ; न हि मृगतृष्णिकायामुदकपानाय तदुदकदर्शी प्रवृत्त इति, तत्र ऊषरमात्रमुदकाभावं पश्यतोऽपि प्रवृत्तिर्युक्ता ; एवम् अस्माकमपि परमार्थात्मलोकदर्शिनां प्रजादिसाधनसाध्ये मृगतृष्णिकादिसमे अविद्वद्दर्शनविषये न प्रवृत्तिर्युक्तेत्यभिप्रायः । तदेतदुच्यते — येषाम् अस्माकं परमार्थदर्शिनां नः, अयमात्मा अशनायादिविनिर्मुक्तः साध्वसाधुभ्यामविकार्यः अयं लोकः फलमभिप्रेतम् ; न चास्य आत्मनः साध्यसाधनादिसर्वसंसारधर्मविनिर्मुक्तस्य साधनं किञ्चित् एषितव्यम् ; साध्यस्य हि साधनान्वेषणा क्रियते ; असाध्यस्य साधनान्वेषणायां हि, जलबुद्ध्या स्थल इव तरणं कृतं स्यात् , खे वा शाकुनपदान्वेषणम् । तस्मात् एतमात्मानं विदित्वा प्रव्रजेयुरेव ब्राह्मणाः, न कर्म आरभेरन्नित्यर्थः, यस्मात् पूर्वे ब्राह्मणा एवं विद्वांसः प्रजामकामयमानाः । ते एवं साध्यसाधनसंव्यवहारं निन्दन्तः अविद्वद्विषयोऽयमिति कृत्वा, किं कृतवन्त इत्युच्यते — ते ह स्म किल पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्तीत्यादि व्याख्यातम् ॥

कथमिति ; नैवेति ; नैष दोष इति ; कर्मभिरिति ; तथा हीति ; कथमिति ; स ह वा इत्यादिना ; अष्टाचत्वारिंशदिति ; गीतासु चेति ; यज्ञेनेतीति ; संस्कृतस्येति ; दानमपीति ; न त्विति ; वेदानुवचनेति ; एवमिति ; एवं कर्मेति ; एवमिति ; यथोक्तेनेति ; एवमिति ; नन्वित्यादिना ; किन्त्विति ; एवं त्विति ; एतस्मिन्निति ; किञ्चेति ; एतमेवेति ; न हीति ; तस्मादिति ; पुत्रेणेति ; अत इति ; तस्मादिति ; आत्मेति ; तस्मादिति ; अन्तरङ्गमिति ; यथेति ; पुत्रादीति ; असंभवेनेति ; तस्मादात्मानमिति ; यथा चेति ; कुतः पुनरिति ; तत्रेति ; तदेतदिति ; किलेति ; प्रजेति ; प्रजां किमिति ; पुत्रादीति ; नन्विति ; तद्बलाद्धीति ; नापवादादिति ; अपरब्रह्मणोऽपीति ; यत्रेति ; पूर्वेति ; अपूर्वमिति ; तत्केनेति ; तस्मादिति ; कः पुनरित्यादिना ; प्रजा हीति ; स चेति ; सर्वं हीति ; आत्मा चेति ; यदपीति ; न हीति ; तस्मान्नेति ; अविदुषां हीति ; न हीति ; तस्मान्नेति ; अविदुषां हीति ; न हीति ; तदेतदिति ; न चेति ; साध्यस्येति ; असाध्यस्येति ; तस्मादिति ; त एवमित्यादिना ;

वेदानुवचनादीनामात्मविविदिषासाधनत्वमाक्षिपति —

कथमिति ।

उपनिषद्भिरिवाऽऽत्मा तैरपि ज्ञायतामित्याशङ्क्याऽऽह —

नैवेति।

कर्मणामप्रमाणत्वेऽपि परम्परया ज्ञानहेतुत्वाद्विविदिषाश्रुतिविरुद्धेति समाधत्ते —

नैष दोष इति।

तदेव स्फुटयति —

कर्मभिरिति।

तत्र श्रुत्यन्तरं प्रमाणयति —

तथा हीति।

ततो नित्याद्यनुष्ठानाद्विशुद्धधीरात्मानं सदा चिन्तयन्नुपनिषद्भिस्तं पश्यतीत्यर्थः । आदिशब्देन “कषायपक्तिरि” त्यादिस्मृतिसंग्रहः ।

नित्यकर्मणां संस्कारार्थत्वे प्रमाणं पृच्छति —

कथमिति।

यद्यपि श्रुतिस्मृतिभ्यां कर्मभिः संस्कृतस्योपनिषद्भिरात्मा ज्ञातुं शक्यते तथाऽपि तेषां संस्कारार्थत्वे किं प्रमाणमिति प्रश्ने श्रुतिस्मृती प्रमाणयति —

स ह वा इत्यादिना ।

किं पुनः स्मृतिशास्त्रं तदाह —

अष्टाचत्वारिंशदिति ।

अष्टावनायासादयो गुणाश्चत्वारिंशद्गर्भाधानादयः संस्कारा इति विभागाः ।

बहुवचनोपात्तं स्मृत्यन्तरमाह —

गीतासु चेति।

पदान्तरमादाय व्याचष्टे —

यज्ञेनेतीति।

तेषां संस्कारार्थत्वेऽपि कथं ज्ञानसाधनत्वमित्याशङ्क्याऽऽह —

संस्कृतस्येति।

दानेन विविदिषन्तीति पूर्वेण संबन्धः ।

कथं पुनः स्वतन्त्रं दानं विविदिषाकारणमत आह —

दानमपीति।

विविदिषाहेतुरिति शेषः । तपसेत्यत्रापि पूर्ववदन्वयः । कामानशनं रागद्वेषरहितैरिन्द्रियैर्विषयसेवनं यदृच्छालाभसन्तुष्टत्वमिति यावत् ।

यथाश्रुतार्थत्वे का हानिरित्याशङ्क्याऽऽह —

न त्विति।

भवतूपात्तानां वेदानुवचनादीनामिष्यमाणे ज्ञाने विनियोगस्तथाऽपि कथं सर्वं नित्यं कर्म तत्र विनियुक्तमित्याशङ्क्याऽऽह —

वेदानुवचनेति।

उपलक्षणफलमाह —

एवमिति।

प्रणाड्या कर्मणो मुक्तिहेतुत्वे काण्डद्वयस्यैकवाक्यत्वमपि सिध्यतीत्याह —

एवं कर्मेति।

वाक्यान्तरमवतार्य व्याकरोति —

एवमिति।

तस्यैवार्थमाह —

यथोक्तेनेति।

यज्ञाद्यनुष्ठानाद्विशुद्धिद्वारा विविदिषोत्पत्तौ गुरुपादोपसर्पणं श्रवणादि चेत्यनेन क्रमेणेत्यर्थः । यथाप्रकाशितं मोक्षप्रकरणे मन्त्रब्राह्मणाभ्यामुक्तलक्षणमित्यर्थः । योगिशब्दो जीवन्मुक्तविषयः ।

एवकारं व्याकरोति —

एवमिति।

अवधारणमाक्षिप्य समाधत्ते —

नन्वित्यादिना।

एवकारस्तर्हि त्यजतामित्याशङ्क्याऽऽह —

किन्त्विति।

आत्मवेदनेऽपि कर्मित्वं स्यादिति चेन्नेत्याह —

एवं त्विति।

कथमात्मविदोऽपि मुनित्वमसाधारणं तदाह —

एतस्मिन्निति।

इतश्चात्मविदो न कर्मित्वमित्याह —

किञ्चेति।

आत्मलोकमिच्छतां मुमुक्षूणामपि कर्मत्यागश्रवणादात्मविदां न कर्मितेति किं वक्तव्यमित्यर्थः । ताच्छील्यं वैराग्यातिशयशालित्वम् ।

अवधारणसामर्थ्यसिद्धमर्थमाह —

एतमेवेति।

पारिव्राज्ये लोकत्रयार्थिनामनधिकारे दृष्टान्तमाह —

न हीति।

लोकत्रयार्थिनश्चेत् पारिव्राज्ये नाधिक्रियन्ते कुत्र तर्हि तेषामधिकारस्तत्राऽऽह —

तस्मादिति।

स्वर्गकामस्य स्वर्गसाधने यागेऽधिकारवल्लोकत्रयार्थिनामपि तत्साधने पुत्रादावधिकार इत्यर्थः ।

पुत्रादीनां बाह्यलोकसाधनत्वे प्रमाणमाह —

पुत्रेणेति।

पुत्रादीनां लोकत्रयसाधनत्वे सिद्धे फलितमाह —

अत इति।

अतत्साधनत्वं लोकत्रयं प्रत्यनुपायत्वम् ।

अवधारणार्थमुपसंहरति —

तस्मादिति।

लोकत्रयार्थिनां पारिव्राज्येऽनधिकारादिति यावत् ।

आत्मलोकस्य स्वरूपत्वेन सदाऽऽप्तत्वात्कथं तत्रेच्छेत्याशङ्क्याऽऽह —

आत्मेति।

तस्याऽऽत्मत्वेन नित्यप्राप्तत्वेऽप्यविद्यया व्यवहितत्वात्प्रेप्या संभवतीति भावः ।

भवत्वात्मलोकप्रेप्सा तथाऽपि किं तत्प्राप्तिसाधनं तदाह —

तस्मादिति।

अविद्यावशात्तदीप्सासंभवादित्यर्थः । तदिच्छाया दौर्लभ्यं द्योतयितुं चेच्छब्दः । मुख्यत्वं श्रुत्यक्षरप्रतिपन्नत्वम् ।

प्रनाडिकासाधनेभ्यो वेदानुवचनादिभ्यो विशेषमाह —

अन्तरङ्गमिति।

पारिव्राज्यमेवात्मलोकस्यान्तरङ्गसाधनमिति दृष्टान्तमाह —

यथेति।

तथा पारिव्राज्यमेवात्मलोकस्य साधनमिति शेषः ।

पारिव्राज्यमेवेति नियमे हेतुमाह —

पुत्रादीति।

तस्यान्यत्र विनियुक्तत्वादिति शेषः ।

यद्यपि केवलं पुत्रादिकं नाऽऽत्मलोकप्रापकं तथाऽपि पारिव्राज्यसमुच्चितं तथा स्यादित्याशङ्क्याऽऽह —

असंभवेनेति।

न हि परिव्राजकस्य पुत्रादि तद्वतो वा पारिव्राज्यं संभवति । उक्तं च समुच्चयं निराकुर्वद्भिः सपरिकरस्य ज्ञानस्य कर्मादिना विरुद्धत्वं तेन कुतः समुच्चितं पुत्राद्यात्मलोकप्रापकमित्यर्थः ।

साधनान्तरासंभवे फलितमुपसंहरति —

तस्मादात्मानमिति।

प्रव्रजन्तीति वर्तमानापदेशान्नात्र विधिरस्तीत्याशङ्क्याग्निहोत्रं जुहोतीतिवद्विधिमाश्रित्याऽऽह —

यथा चेति।

पारिव्राज्यविधिमुक्त्वा तदपेक्षितमर्थवादमाकाङ्क्षापूर्वकमुत्थापयति —

कुतः पुनरिति।

उत्थापितस्यार्थवादस्य तात्पर्यमाह —

तत्रेति।

आत्मलोकार्थिनां पारिव्राज्यनियमः सप्तम्यर्थः ।

अर्थवास्थान्यक्षराणि व्याचष्टे —

तदेतदिति।

क्रियापदेन स्मेति संबध्यते ।

निपातद्वयस्यार्थमाह —

किलेति।

प्रजां न कामयन्त इत्युत्तरत्र संबन्धः ।

प्रजामात्रे श्रुते कथं कर्मादि गृह्यते तत्राऽऽह —

प्रजेति।

आकाङ्क्षापूर्वकमन्वयमन्वाचष्टे —

प्रजां किमिति।

अकामयमानत्वस्य पर्यवसानं दर्शयति —

पुत्रादीति।

पूर्वे विद्वांसः साधनत्रयं नानुतिष्ठन्तीत्युक्तमाक्षिपति —

नन्विति।

एषणाभ्यो व्युत्तिष्ठतां किं तदनुष्ठानेनेत्याशङ्क्याऽऽह —

तद्बलाद्धीति।

आत्मविदामपरविद्यानुष्ठानं दूषयति —

नापवादादिति।

अथात्र सर्वस्याऽऽनात्मनो दर्शनमेवापोद्यते न त्वपरस्य ब्रह्मणो दर्शनमत आह —

अपरब्रह्मणोऽपीति।

तदपवादे श्रुत्यन्तरमाह —

यत्रेति।

यस्मिन्भूम्नि स्थितश्चक्षुरादिभिरन्यत्र पश्यति न शृणोतीत्यादिना च दर्शनादिव्यवहारस्य वारितत्वादात्मविदो न युक्तमपरब्रह्मदर्शनमित्यर्थः ।

तत्रैव हेत्वन्तरमाह —

पूर्वेति।

प्रतिषेधप्रकारमभिनयति —

अपूर्वमिति।

इतश्चात्मविदां नापरब्रह्मदर्शनमित्याह —

तत्केनेति।

अपरब्रह्मदर्शनासंभवे किं तेषामेषणाभ्यो व्युत्थाने कारणमित्याशङ्क्याऽऽह —

तस्मादिति।

साधनत्रयमननुतिष्ठतामभिप्रायं प्रश्नपूर्वकमाह —

कः पुनरित्यादिना।

कैवल्यमेव तत्साध्यं फलमित्याशङ्क्याऽऽह —

प्रजा हीति।

निर्ज्ञाता सोऽयमित्यादिश्रुताविति शेषः ।

स एव तर्हि प्रजया साध्यतामिति चेन्नेत्याह —

स चेति।

आत्मव्यतिरिक्तो नास्तीत्युक्तमुपपादयति —

सर्वं हीति ।

आत्मव्यतिरिक्तस्यैव लोकस्य प्रजादिसाध्यत्वमिष्यतामिति चेन्नेत्याह —

आत्मा चेति ।

आत्मयाजिनः संस्कारार्थं कर्मेत्यङ्गीकारादात्मनोऽस्ति संस्कार्यत्वमित्याशङ्क्याऽऽह —

यदपीति ।

अथाङ्गाङ्गित्वं च संस्कार्यत्वं च मुख्यात्मदर्शनविषयमेव किं नेष्यते तत्राऽऽह —

न हीति ।

आत्मविदां प्रजादिसाध्याभावमुपसंहरति —

तस्मान्नेति।

 केषां तर्हि प्रजादिभिः साध्यं फलं तदाह —

अविदुषां हीति ।

केषाञ्चित्पुत्रादिषु प्रवृत्तिश्चेत्तेनैव न्यायेन विदुषामपि तेषु प्रवृत्तिः स्यादित्याशङ्क्याऽऽह —

न हीति।

आत्मविदां प्रजादिसाध्याभावमुपसंहरति —

तस्मान्नेति।

केषां तर्हि प्रजादिभिः साध्यं फलं तदाह —

अविदुषां हीति।

केषाञ्चित्पुत्रादिषु प्रवृत्तिश्चेत्तेनैव न्यायेन विदुषामपि तेषु प्रवृत्तिः स्यादित्याशङ्क्याऽऽह —

न हीति।

तत्र प्रवृत्तिरिति संबन्धः । अविद्वद्दर्शनविषय इति च्छेदः ।

उक्तेऽर्थे वाक्यमवतार्य व्याचष्टे —

तदेतदिति।

आत्मा चेत्तदभिप्रेतं फलं तर्हि तत्र साधनेन भवितव्यमित्याशङ्क्याऽऽह —

न चेति।

क्व तर्हि साधनमेष्टव्यमित्याशङ्क्याऽऽह —

साध्यस्येति।

विपक्षे दोषमाह —

असाध्यस्येति।

येषामित्यादिवाक्यार्थमुपसंहरति —

तस्मादिति ।

ब्राह्मणानां ब्रह्मविदां प्रजादिभिः साध्याभावादिति यावत् ।

वाक्यान्तरं प्रश्नद्वारेणावतार्य पाञ्चमिकं व्याख्यानं तस्य स्मारयति —

त एवमित्यादिना ।