बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयानेष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेनैतमेव विदित्वा मुनिर्भवति । एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति । एतद्ध स्म वै तत्पूर्वे विद्वांसः प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोक इति ते ह स्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतः । स एष नेति नेत्यात्मागृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यत्येतमु हैवैते न तरत इत्यतः पापमकरवमित्यतः कल्याणमकरवमित्युभे उ हैवैष एते तरति नैनं कृताकृते तपतः ॥ २२ ॥
तस्मात् आत्मानं लोकमिच्छन्तः प्रव्रजन्ति प्रव्रजेयुः — इत्येष विधिः अर्थवादेन सङ्गच्छते ; न हि सार्थवादस्य अस्य लोकस्तुत्याभिमुख्यम् उपपद्यते ; प्रव्रजन्तीत्यस्यार्थवादरूपो हि ‘एतद्ध स्म’ इत्यादिरुत्तरो ग्रन्थः ; अर्थवादश्चेत् , नार्थवादान्तरमपेक्षेत ; अपेक्षते तु ‘एतद्ध स्म’ इत्याद्यर्थवादं ‘प्रव्रजन्ति’ इत्येतत् । यस्मात् पूर्वे विद्वांसः प्रजादिकर्मभ्यो निवृत्ताः प्रव्रजितवन्त एव, तस्मात् अधुनातना अपि प्रव्रजन्ति प्रव्रजेयुः — इत्येवं सम्बध्यमानं न लोकस्तुत्यभिमुखं भवितुमर्हति ; विज्ञानसमानकर्तृकत्वोपदेशादित्यादिना अवोचाम । वेदानुवचनादिसहपाठाच्च ; यथा आत्मवेदनसाधनत्वेन विहितानां वेदानुवचनादीनां यथार्थत्वमेव, नार्थवादत्वम् , तथा तैरेव सह पठितस्य पारिव्राज्यस्य आत्मलोकप्राप्तिसाधनत्वेन अर्थवादत्वमयुक्तम् । फलविभागोपदेशाच्च ; ‘एतमेवात्मानं लोकं विदित्वा’ इति अन्यस्मात् बाह्यात् लोकात् आत्मानं फलान्तरत्वेन प्रविभजति, यथा — पुत्रेणैवायं लोको जय्यः नान्येन कर्मणा, कर्मणा पितृलोकः — इति । न च प्रव्रजन्तीत्येतत् प्राप्तवत् लोकस्तुतिपरम् , प्रधानवच्च अर्थवादापेक्षम् — सकृच्छ्रुतं स्यात् । तस्मात् भ्रान्तिरेव एषा — लोकस्तुतिपरमिति । न च अनुष्ठेयेन पारिव्राज्येन स्तुतिरुपपद्यते ; यदि पारिव्राज्यम् अनुष्ठेयमपि सत् अन्यस्तुत्यर्थं स्यात् , दर्शपूर्णमासादीनामपि अनुष्ठेयानां स्तुत्यर्थता स्यात् । न च अन्यत्र कर्तव्यता एतस्माद्विषयात् निर्ज्ञाता, यत इह स्तुत्यर्थो भवेत् । यदि पुनः क्वचिद्विधिः परिकल्प्येत पारिव्राज्यस्य, स इहैव मुख्यः नान्यत्र सम्भवति । यदपि अनधिकृतविषये पारिव्राज्यं परिकल्प्यते, तत्र वृक्षाद्यारोहणाद्यपि पारिव्राज्यवत् कल्प्येत, कर्तव्यत्वेन अनिर्ज्ञातत्वाविशेषात् । तस्मात् स्तुतित्वगन्धोऽपि अत्र न शक्यः कल्पयितुम् ॥

यदर्थोऽयमर्थवादस्तं विधिं निगमयति —

तस्मादिति ।

महानुभावोऽयमात्मलोको यत्तदर्थिनो दुष्करमपि पारिव्राज्यं कुर्वन्तीति स्तुतिरत्र विवक्षिता न विधिरित्याशङ्क्याऽऽह —

न हीति ।

तदेव प्रपञ्चयति —

प्रव्रजन्तीत्यस्येति ।

तथाऽपि प्रव्रजन्तीतिवाक्यस्यार्थवादत्वं किं न स्यादित्याशङ्क्याऽऽह —

अर्थवादश्चेदिति ।

अपेक्षाप्रकारमेव प्रकटयन्नस्य स्तुत्यभिमुखत्वाभावाद्विधित्वमेवेत्याह —

यस्मादिति ।

किञ्च विदित्वा व्युत्थाय भिक्षाचर्य चरन्तीत्यत्र विज्ञानेन समानकर्तृकत्वं व्युत्थानादेरुपदिश्यते विज्ञानं च सर्वासूपनिषत्सु विधीयतेऽतो व्युत्थानमपि विधिमर्हतीत्युक्तं तथा चात्रापि व्युत्थानापरपर्यायं परिव्राज्यं विधेयमित्याह —

विज्ञानेति ।

इतश्च पारिव्राज्यवाक्यमर्थवादो न भवतीत्याह —

वेदेति ।

तदेव साधयति —

यथेत्यादिना ।

पारिव्राज्यस्य विधेयत्वे हेत्वन्तरमाह —

फलेति ।

पुत्रादिफलापेक्षया पारिव्राज्यफलं विभागेनोपदिश्यते । तथा च फलवत्त्वात्पुत्रादिवत्पारिव्राज्यस्य विधेयत्वसिद्धिरित्यर्थः ।

तदेव विवृणोति —

एतमेवेति।

प्रकृतमात्मानं स्वं लोकमापाततो विदित्वा तमेव साक्षात्कर्तुमिच्छन्तः प्रव्रजन्तीति वचनात्पुत्रादिसाध्यान्मनुष्यादिलोकादात्माख्यं लोकं पारिव्राज्यस्य फलान्तरत्वेन यतः श्रुतिर्विभज्याभिदधाति । अतस्तस्य विधेयत्वमप्रत्यूहमित्यर्थः ।

फलविभागोपदेशे दृष्टान्तमाह —

यथेति ।

तथा पारिव्राज्येऽपि फलविभागोक्तेर्विधेयतेति दार्ष्टान्तिकमितिशब्दार्थः ।

पारिव्राज्यस्य स्तुतिपरत्वाभावे हेत्वन्तरमाह —

न चेति ।

यथा वायुर्वै क्षेपिष्ठेत्यादिरर्थवादः प्राप्तार्थो देवतादिस्तुत्यर्थः स्थितो न तथेदं स्तुतिपरं तदवद्योतिशब्दाभावादित्यर्थः ।

किञ्च प्रधानस्य दर्शपूर्णमासादेरर्थवादापेक्षावत्पारिव्राज्यमपि तदपेक्षमुपलभ्यते तेन तस्य दर्शादिवद्विधेयत्वं दुर्वारमित्याह —

प्रधानवच्चेति ।

किञ्च पारिव्राज्यं सकृदेव श्रुतं चेदविवक्षितमन्यस्तुतिपरं स्यान्न चेदं सकृदेव श्रूयते “परिव्रजन्ती”त्युपक्रम्य “प्रजां न कामयन्ते” “व्युत्थायाथ भिक्षाचर्यं चरन्ती”(बृ. उ. ४ । ४। २२)त्यभ्यासादतोऽपि न स्तुतिमात्रमेतदित्याह —

सकृदिति ।

न चेत्तर्रापि संबध्यते कथं तर्हि पारिव्राज्यस्य स्तुतिपरत्वप्रतीतिस्तत्राऽऽह —

तस्मादिति ।

अस्तु तर्हि विधेयमपि पारिव्राज्यं स्तावकमपीति चेन्नेत्याह —

न चेति ।

विपक्षे दोषमाह —

यदीति ।

अथ पारिव्राज्यं यज्ञादिवदन्यत्र विधीयतामिह तु स्तुतिरेवेत्याशङ्क्याऽऽह —

न चान्यत्रेति ।

आत्मज्ञानाधिकारादन्यत्र पारिव्राज्यविध्यनुपलम्भादित्यर्थः ।

अन्यत्र विध्यनुपलम्भं समर्थयते —

यदीत्यादिना ।

अन्यत्र प्रक्रियायामिति यावत् । कर्माधिकारे तत्त्यागविधेर्विरुद्धत्वादिति भावः ।

भवत्विह पारिव्राज्ये विधिस्तथाऽपि सर्वकर्मानधिकृतविषयः स्यादित्याशङ्क्याऽऽह —

यदपीति ।

तत्र कर्मानधिकृते पुंसीत्येतत् ।

तत्र हेतुमाह —

कर्तव्यत्वेनेति ।

कर्मानधिकृतेन कर्तव्यतया ज्ञातत्वं वृक्षारोहणादाविव पारिव्राज्येऽपि नास्ति तथा चानधिकृतविषये पारिव्राज्यं कल्प्यते चेत्तस्मिन्विषये वृक्षारोहणाद्यपि कल्प्येताविशेषादित्यर्थः ।

पारिव्राज्यस्याधिकृतविषयत्वे विधेयत्वे च सिद्धे फलतीत्याह —

तस्मादिति ।