उक्ते विद्याफले मन्त्रं संवादयति —
तदेतदिति ।
एष नित्यो महिमेत्यत्र नित्यत्वमुपपादयति —
अन्ये त्विति ।
तद्विलक्षणत्वमकर्मकृतत्वम् ।
अकर्मकृतो महिमास्वाभाविकत्वान्नित्य इत्यत्राकर्मकर्तृत्वेन स्वाभाविकत्वमसिद्धमित्याशङ्क्याऽऽह —
कुतोऽस्येति ।
वृद्धिरपक्षयश्चेति विक्रियाद्वयाभावेऽपि विक्रियान्तराणि भविष्यन्तीत्याशङ्क्याऽऽह —
उपचयेति ।
एताभ्यां निषेधाभ्यामिति यावत् ।
आत्मनः सर्वविक्रियाराहित्ये फलितमाह —
अत इति ।
तस्य नित्यत्वेऽपि किं तदाह —
तस्मादिति ।
अधर्मलक्षणेनेति वक्तव्ये किमिदं धर्माधर्मलक्षणेनेत्युक्तमत आह —
उभयमपीति ।
संसारहेतुत्वाविशेषादित्यर्थः ।
तस्मादित्यादिवाक्यं व्याचष्टे —
यस्मादिति ।
एवंविदात्मा कर्मतत्फलसंबन्धशून्य इत्यापाततो जानन्नित्यर्थः । विशेषणाभ्यामुत्सर्गतो विहितस्योभयविधकरणव्यापारोपरमस्य यावज्जीवादिश्रुतिविहितं कर्मापवादस्तस्माद्विरक्तस्यापि न नित्यादित्यागः ।
उत्सर्गस्यापवादेन बाधः कस्य न संमत इत्यादिन्यायादित्याशङ्क्याऽऽह —
उपरत इति ।
जीवनविच्छेदव्यतिरिक्तशीतादिसहिष्णुत्वं तितिक्षुत्वम् । यत्र कर्तुः स्वातन्त्र्यं तेषां कर्मणां निवृत्तिः शमादिपदैरुक्ता । यत्र तु सम्यग्धीविरोधिनी निद्रालस्यादौ पुंसो न स्वातन्त्र्यं तन्निवृत्तिः समाधानम् । समाहितो भूत्वा पश्यतीति संबन्धः ।
पश्यतीति वर्तमानापदेशात्कथं विशेषणेषु संक्रामितो विधिरित्याशङ्क्याऽऽह —
तदेतदिति ।
यथोक्तैः साधनैरुदितायां विद्यायां किं स्यादित्याशङ्क्याऽऽह —
एवमिति ।
तस्य पुण्यपापासंस्पर्शे हेतुमाह —
अयं त्विति ।
इतश्च विदुषो न कर्मसंबन्धोऽस्तीत्याह —
नैनमिति ।
किमिति पाप्मा ब्रह्मविदं न तपतीत्याशङ्क्याऽऽह —
सर्वमिति ।
कथं ब्राह्मणो भवतीत्यपूर्ववदुच्यते प्रागपि ब्राह्मण्यस्य सत्त्वादित्याशङ्क्याऽऽह —
अयं त्विति ।
मुख्यत्वमबाधितत्वं सफलां विद्यां मन्त्रब्राह्मणाभ्यामुपदिश्योपसंहरति —
एष इति ।
तत्र कर्मधारयसमासं सूचयति —
ब्रह्मैवेति ।
तथाविधसमासपरिग्रहे प्रकरणमनुग्राहकमभिप्रेत्याऽऽह —
मुख्य इति ।
तथाऽपि किं मम सिद्धमिति तदाह —
एनमिति ।
आत्मीयं विद्यालाभं द्योतयितुं राज्ञो वचनमित्याह —
एवमिति ।
सति वक्तव्यशेषे कथमित्थं राज्ञो वचनमित्याशङ्क्याऽऽह —
परिसमापितेति ।
तथाऽपि परमपुरुषार्थस्य वक्तव्यत्वमित्याशङ्क्याऽऽह —
परिसमाप्त इति।
कर्तव्यान्तरं वक्तव्यमस्तीत्याशङ्क्याऽऽह —
एतावदिति ।
तथाऽपि यत्र निष्ठा कर्तव्या तद्वाच्यमित्याशङ्क्याऽऽह —
एषेति ।
तथाऽपि परमा निष्ठाऽन्याऽस्तीति चेन्नेत्याह —
एषेति ।
निश्चितं श्रेयोऽन्यदस्तीत्याशङ्क्याऽऽह —
एतदिति ।
तथाऽपि कृतकृत्यतया मुख्यब्राह्मण्यसिद्ध्यर्थं वक्तव्यान्तरमस्तीत्याशङ्क्याऽऽह —
एतत्प्राप्येति ।
किमस्यां प्रतिज्ञापरम्परायां नियामकमित्याशङ्क्याऽऽह —
एतदिति ।
निरुपाधिकब्रह्मज्ञानात्कैवल्यमिति गमयितुमितिशब्दः ॥ २३ ॥