बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तदेतदृचाभ्युक्तम् । एष नित्यो महिमा ब्राह्मणस्य न वर्धते कर्मणा नो कनीयान् । तस्यैव स्यात्पदवित्तं विदित्वा न लिप्यते कर्मणा पापकेनेति । तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्यति सर्वमात्मानं पश्यति नैनं पाप्मा तरति सर्वं पाप्मानं तरति नैनं पाप्मा तपति सर्वं पाप्मानं तपति विपापो विरजोऽविचिकित्सो ब्राह्मणो भवत्येष ब्रह्मलोकः सम्राडेनं प्रापितोऽसीति होवाच याज्ञवल्क्यः सोऽहं भगवते विदेहान्ददामि मां चापि सह दास्यायेति ॥ २३ ॥
तदेतद्वस्तु ब्राह्मणेनोक्तम् ऋचा मन्त्रेण अभ्युक्तम् प्रकाशितम् । एषः नेति नेत्यादिलक्षणः नित्यो महिमा ; अन्ये तु महिमानः कर्मकृता इत्यनित्याः ; अयं तु तद्विलक्षणो महिमा स्वाभाविकत्वान्नित्यः ब्रह्मविदः ब्राह्मणस्य त्यक्तसर्वैषणस्य । कुतोऽस्य नित्यत्वमिति हेतुमाह — कर्मणा न वर्धते शुभलक्षणेन कृतेन वृद्धिलक्षणां विक्रियां न प्राप्नोति ; अशुभेन कर्मणा नो कनीयान् नाप्यपक्षयलक्षणां विक्रियां प्राप्नोति ; उपचयापचयहेतुभूता एव हि सर्वा विक्रिया इति एताभ्यां प्रतिषिध्यन्ते ; अतः अविक्रियात्वात् नित्य एष महिमा । तस्मात् तस्यैव महिम्नः, स्यात् भवेत् , पदवित् — पदस्य वेत्ता, पद्यते गम्यते ज्ञायत इति महिम्नः स्वरूपमेव पदम् , तस्य पदस्य वेदिता । किं तत्पदवेदनेन स्यादित्युच्यते — तं विदित्वा महिमानम् , न लिप्यते न सम्बध्यते कर्मणा पापकेन धर्माधर्मलक्षणेन, उभयमपि पापकमेव विदुषः । यस्मादेवम् अकर्मसम्बन्धी एष ब्राह्मणस्य महिमा नेति नेत्यादिलक्षणः, तस्मात् एवंवित् शान्तः बाह्येन्द्रियव्यापारत उपशान्तः, तथा दान्तः अन्तःकरणतृष्णातो निवृत्तः, उपरतः सर्वैषणाविनिर्मुक्तः सन्न्यासी, तितिक्षुः द्वन्द्वसहिष्णुः, समाहितः इन्द्रियान्तःकरणचलनरूपाद्व्यावृत्त्या ऐकाग्र्यरूपेण समाहितो भूत्वा ; तदेतदुक्तं पुरस्तात् ‘बाल्यं च पाण्डित्यं च निर्विद्य’ (बृ. उ. ३ । ५ । १) इति ; आत्मन्येव स्वे कार्यकरणसङ्घाते आत्मानं प्रत्यक्चेतयितारं पश्यति । तत्र किं तावन्मात्रं परिच्छिन्नम् ? नेत्युच्यते — सर्वं समस्तम् आत्मानमेव पश्यति, नान्यत् आत्मव्यतिरिक्तं वालाग्रमात्रमप्यस्तीत्येवं पश्यति ; मननात् मुनिर्भवति जाग्रत्स्वप्नसुषुप्ताख्यं स्थानत्रयं हित्वा । एवं पश्यन्तं ब्राह्मणं नैनं पाप्मा पुण्यपापलक्षणः तरति, न प्राप्नोति ; अयं तु ब्रह्मवित् सर्वं पाप्मानं तरति आत्मभावेनैव व्याप्नोति अतिक्रामति । नैनं पाप्मा कृताकृतलक्षणः तपति इष्टफलप्रत्यवायोत्पादनाभ्याम् ; सर्वं पाप्मानम् अयं तपति ब्रह्मवित् सर्वात्मदर्शनवह्निना भस्मीकरोति । स एष एवंवित् विपापः विगतधर्माधर्मः, विरजः विगतरजः, रजः कामः, विगतकामः, अविचिकित्सः छिन्नसंशयः, अहमस्मि सर्वात्मा परं ब्रह्मेति निश्चितमतिः ब्राह्मणो भवति — अयं तु एवंभूतः एतस्यामवस्थायां मुख्यो ब्राह्मणः, प्रागेतस्मात् ब्रह्मस्वरूपावस्थानात् गौणमस्य ब्राह्मण्यम् । एष ब्रह्मलोकः — ब्रह्मैव लोको ब्रह्मलोकः मुख्यो निरुपचरितः सर्वात्मभावलक्षणः, हे सम्राट् । एनं ब्रह्मलोकं परिप्रापितोऽसि अभयं नेति नेत्यादिलक्षणम् — इति होवाच याज्ञवल्क्यः । एवं ब्रह्मभूतो जनकः याज्ञवल्क्येन ब्रह्मभावमापादितः प्रत्याह — सोऽहं त्वया ब्रह्मभावमापादितः सन् भगवते तुभ्यम् विदेहान् देशान् मम राज्यं समस्तं ददामि, मां च सह विदेहैः दास्याय दासकर्मणे — ददामीति च - शब्दात्सम्बध्यते । परिसमापिता ब्रह्मविद्या सह सन्न्यासेन साङ्गा सेतिकर्तव्यताका ; परिसमाप्तः परमपुरुषार्थः ; एतावत् पुरुषेण कर्तव्यम् , एष निष्ठा, एषा परा गतिः, एतन्निःश्रेयसम् , एतत्प्राप्य कृतकृत्यो ब्राह्मणो भवति, एतत् सर्ववेदानुशासनमिति ॥

उक्ते विद्याफले मन्त्रं संवादयति —

तदेतदिति ।

एष नित्यो महिमेत्यत्र नित्यत्वमुपपादयति —

अन्ये त्विति ।

तद्विलक्षणत्वमकर्मकृतत्वम् ।

अकर्मकृतो महिमास्वाभाविकत्वान्नित्य इत्यत्राकर्मकर्तृत्वेन स्वाभाविकत्वमसिद्धमित्याशङ्क्याऽऽह —

कुतोऽस्येति ।

वृद्धिरपक्षयश्चेति विक्रियाद्वयाभावेऽपि विक्रियान्तराणि भविष्यन्तीत्याशङ्क्याऽऽह —

उपचयेति ।

एताभ्यां निषेधाभ्यामिति यावत् ।

आत्मनः सर्वविक्रियाराहित्ये फलितमाह —

अत इति ।

तस्य नित्यत्वेऽपि किं तदाह —

तस्मादिति ।

अधर्मलक्षणेनेति वक्तव्ये किमिदं धर्माधर्मलक्षणेनेत्युक्तमत आह —

उभयमपीति ।

संसारहेतुत्वाविशेषादित्यर्थः ।

तस्मादित्यादिवाक्यं व्याचष्टे —

यस्मादिति ।

एवंविदात्मा कर्मतत्फलसंबन्धशून्य इत्यापाततो जानन्नित्यर्थः । विशेषणाभ्यामुत्सर्गतो विहितस्योभयविधकरणव्यापारोपरमस्य यावज्जीवादिश्रुतिविहितं कर्मापवादस्तस्माद्विरक्तस्यापि न नित्यादित्यागः ।

उत्सर्गस्यापवादेन बाधः कस्य न संमत इत्यादिन्यायादित्याशङ्क्याऽऽह —

उपरत इति ।

जीवनविच्छेदव्यतिरिक्तशीतादिसहिष्णुत्वं तितिक्षुत्वम् । यत्र कर्तुः स्वातन्त्र्यं तेषां कर्मणां निवृत्तिः शमादिपदैरुक्ता । यत्र तु सम्यग्धीविरोधिनी निद्रालस्यादौ पुंसो न स्वातन्त्र्यं तन्निवृत्तिः समाधानम् । समाहितो भूत्वा पश्यतीति संबन्धः ।

पश्यतीति वर्तमानापदेशात्कथं विशेषणेषु संक्रामितो विधिरित्याशङ्क्याऽऽह —

तदेतदिति ।

यथोक्तैः साधनैरुदितायां विद्यायां किं स्यादित्याशङ्क्याऽऽह —

एवमिति ।

तस्य पुण्यपापासंस्पर्शे हेतुमाह —

अयं त्विति ।

इतश्च विदुषो न कर्मसंबन्धोऽस्तीत्याह —

नैनमिति ।

किमिति पाप्मा ब्रह्मविदं न तपतीत्याशङ्क्याऽऽह —

सर्वमिति ।

कथं ब्राह्मणो भवतीत्यपूर्ववदुच्यते प्रागपि ब्राह्मण्यस्य सत्त्वादित्याशङ्क्याऽऽह —

अयं त्विति ।

मुख्यत्वमबाधितत्वं सफलां विद्यां मन्त्रब्राह्मणाभ्यामुपदिश्योपसंहरति —

एष इति ।

तत्र कर्मधारयसमासं सूचयति —

ब्रह्मैवेति ।

तथाविधसमासपरिग्रहे प्रकरणमनुग्राहकमभिप्रेत्याऽऽह —

मुख्य इति ।

तथाऽपि किं मम सिद्धमिति तदाह —

एनमिति ।

आत्मीयं विद्यालाभं द्योतयितुं राज्ञो वचनमित्याह —

एवमिति ।

सति वक्तव्यशेषे कथमित्थं राज्ञो वचनमित्याशङ्क्याऽऽह —

परिसमापितेति ।

तथाऽपि परमपुरुषार्थस्य वक्तव्यत्वमित्याशङ्क्याऽऽह —

परिसमाप्त इति।

कर्तव्यान्तरं वक्तव्यमस्तीत्याशङ्क्याऽऽह —

एतावदिति ।

तथाऽपि यत्र निष्ठा कर्तव्या तद्वाच्यमित्याशङ्क्याऽऽह —

एषेति ।

तथाऽपि परमा निष्ठाऽन्याऽस्तीति चेन्नेत्याह —

एषेति ।

निश्चितं श्रेयोऽन्यदस्तीत्याशङ्क्याऽऽह —

एतदिति ।

तथाऽपि कृतकृत्यतया मुख्यब्राह्मण्यसिद्ध्यर्थं वक्तव्यान्तरमस्तीत्याशङ्क्याऽऽह —

एतत्प्राप्येति ।

किमस्यां प्रतिज्ञापरम्परायां नियामकमित्याशङ्क्याऽऽह —

एतदिति ।

निरुपाधिकब्रह्मज्ञानात्कैवल्यमिति गमयितुमितिशब्दः ॥ २३ ॥