बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स वा एष महानज आत्मान्नादो वसुदानो विन्दते वसु य एवं वेद ॥ २४ ॥
योऽयं जनकयाज्ञवल्क्याख्यायिकायां व्याख्यात आत्मा स वै एषः महान् अजः आत्मा अन्नादः सर्वभूतस्थः सर्वान्नानामत्ता, वसुदानः — वसु धनं सर्वप्राणिकर्मफलम् — तस्य दाता, प्राणिनां यथाकर्म फलेन योजयितेत्यर्थः ; तमेतत् अजमन्नादं वसुदानमात्मानम् अन्नादवसुदानगुणाभ्यां युक्तम् यो वेद, सः सर्वभूतेष्वात्मभूतः अन्नमत्ति, विन्दते च वसु सर्वं कर्मफलजातं लभते सर्वात्मत्वादेव, य एवं यथोक्तं वेद । अथवा दृष्टफलार्थिभिरपि एवंगुण उपास्यः ; तेन अन्नादः वसोश्च लब्धा, दृष्टेनैव फलेन अन्नात्तृत्वेन गोश्वादिना च अस्य योगो भवतीत्यर्थः ॥

संप्रति सोपाधिकब्रह्मध्यानादभ्युदयं दर्शयति —

योऽयमित्यादिना ।

ईश्वरश्चेत्प्राणिभ्यः कर्मफलं ददाति तर्हि तस्य वैषम्यनैर्घृण्ये स्यातामित्याशङ्क्याऽऽह —

प्राणिनामिति ।

 उपास्यस्वरूपं दर्शयित्वा तदुपासनं सफलं दर्शयति —

तमेतमिति ।

सर्वात्मत्वफलमुपासनमुक्त्वा पक्षान्तरमाह —

अथवेति ।

दृष्टं फलमन्नात्तृत्वं धनलाभश्च ।

उक्तगुणकमीश्वरं ध्यायतः फलमाह —

तेनेति ।

तदेव फलं स्पष्टयति —

दृष्टेनेति ।

अन्नात्तृत्वं दीप्ताग्नित्वम् ॥ २४ ॥