बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्रह्माभयं वै ब्रह्माभयं हि वै ब्रह्म भवति य एवं वेद ॥ २५ ॥
इदानीं समस्तस्यैव आरण्यकस्य योऽर्थ उक्तः, स समुच्चित्य अस्यां कण्डिकायां निर्दिश्यते, एतावान्समस्तारण्यकार्थ इति । स वा एष महानज आत्मा अजरः न जीर्यत इति, न विपरिणमत इत्यर्थः ; अमरः — यस्माच्च अजरः, तस्मात् अमरः, न म्रियत इत्यमरः ; यो हि जायते जीर्यते च, स विनश्यति म्रियते वा ; अयं तु अजत्वात् अजरत्वाच्च अविनाशी यतः, अत एव अमृतः । यस्मात् जनिप्रभृतिभिः त्रिभिर्भावविकारैः वर्जितः, तस्मात् इतरैरपि भावविकारैस्त्रिभिः तत्कृतैश्च कामकर्ममोहादिभिर्मृत्युरूपैर्वर्जित इत्येतत् । अभयः अत एव ; यस्माच्च एवं पूर्वोक्तविशेषणः, तस्माद्भयवर्जितः ; भयं च हि नाम अविद्याकार्यम् ; तत्कार्यप्रतिषेधेन भावविकारप्रतिषेधेन च अविद्यायाः प्रतिषेधः सिद्धो वेदितव्यः । अभय आत्मा एवंगुणविशिष्टः किमसौ ? ब्रह्म परिवृढं निरतिशयं महदित्यर्थः । अभयं वै ब्रह्म ; प्रसिद्धमेतत् लोके — अभयं ब्रह्मेति । तस्माद्युक्तम् एवंगुणविशिष्ट आत्मा ब्रह्मेति । य एवं यथोक्तमात्मानमभयं ब्रह्म वेद, सः अभयं हि वै ब्रह्म भवति । एष सर्वस्या उपनिषदः सङ्क्षिप्तोऽर्थ उक्तः । एतस्यैवार्थस्य सम्यक्प्रबोधाय उत्पत्तिस्थितिप्रलयादिकल्पना क्रियाकारकफलाध्यारोपणा च आत्मनि कृता ; तदपोहेन च नेति नेतीत्यध्यारोपितविशेषापनयद्वारेण पुनः तत्त्वमावेदितम् । यथा एकप्रभृत्यापरार्धसङ्ख्यास्वरूपपरिज्ञानाय रेखाध्यारोपणं कृत्वा — एकेयं रेखा, दशेयम् , शतेयम् , सहस्रेयम् — इति ग्राहयति, अवगमयति सङ्ख्यास्वरूपं केवलम् , न तु सङ्ख्याया रेखात्मत्वमेव ; यथा च अकारादीन्यक्षराणि विजिग्राहयिषुः पत्रमषीरेखादिसंयोगोपायमास्थाय वर्णानां सतत्त्वमावेदयति, न पत्रमष्याद्यात्मतामक्षराणां ग्राहयति — तथा चेह उत्पत्त्याद्यनेकोपायमास्थाय एकं ब्रह्मतत्त्वमावेदितम् , पुनः तत्कल्पितोपायजनितविशेषपरिशोधनार्थं नेति नेतीति तत्त्वोपसंहारः कृतः । तदुपसंहृतं पुनः परिशुद्धं केवलमेव सफलं ज्ञानम् अन्तेऽस्यां कण्डिकायामिति ॥

निरुपाधिकब्रह्मज्ञानान्मुक्तिरुक्ता सोपाधिकब्रह्मध्यानाच्चाभ्युदय उक्तस्तथा च किमुत्तरकण्डिकयेत्याशङ्क्याऽऽह —

इदानीमिति ।

अजत्वाच्चाविनाशीति वक्तुं चशब्दः ।

कथं जन्मजराभावयोरमरत्वाविनाशित्वसाधकत्वं तदाह —

यो हीति ।

अयं त्वजत्वादविनाश्यजरत्वाच्चामरोऽमरत्वाच्चाविनाशीति योजना ।

मरणायोग्यत्वमुपजीव्य मरणकार्याभावं दर्शयति —

अत एवेति ।

जन्मापक्षयविनाशानामेव भावविकाराणामिह मुखतो निषेधाद्विवृद्ध्यादीनि विकारान्तराण्यात्मनि भविष्यन्निति विशेषनिषेधस्य शेषाभ्यनुज्ञापरत्वादित्याशङ्क्याऽऽह —

यस्मादिति ।

इतरे सत्त्वविवृद्धिविपरिणामाः ।

अत एवाभय इत्युक्तं विवृणोति —

यस्माच्चेति ।

किं तद्भयं तदाह —

भयं चेति ।

अविद्यानिषेधिविषेशणाभावादात्मानं सा सदा स्पृशतीत्याशङ्क्याऽऽह —

तत्कार्येति ।

विशेषणान्तरं प्रश्नपूर्वकमुत्थाप्य व्याकरोति —

अभय इति ।

कथं पुनरभयगुणविशिष्टस्याऽत्मनो ब्रह्मत्वं तदाह —

अभयमिति ।

वैशब्दार्थमाह —

प्रसिद्धमिति ।

लोकशब्दः शास्त्रस्याप्युपलक्षणम् ।

वेद्यस्वरूपमुक्त्वा विद्याफलं कथयति —

य एवमिति ।

कण्डिकार्थमुपसंहरति —

एष इति ।

सृष्ट्यादेरपि तदर्थत्वात्किमित्यसाविह नोपसंह्रियते —

एतस्येति ।

सृष्ट्यादेरारोपितत्वे गमकमाह —

तदपोहेनेति ।

तच्छब्दः सृष्ट्यादिप्रपञ्चविषयः ।

तदपोहेनेति यदुक्तं तदेव स्फुटयति —

नेतीति ।

अध्यारोपापवादन्यायेन तत्त्वस्याऽऽवेदितत्त्वादारोपितं भवत्येव सृष्ट्यादिद्वैतमित्यर्थः ।

अध्यारोपापवादन्यायस्य पङ्कप्रक्षालनन्यायविरुद्धत्वात्तत्त्वं विवक्षितं चेत्तदेवोच्यतां कृतं सृष्ट्यादिद्वैतारोपेणेत्याशङ्क्याऽऽह —

यथेति ।

उदाहरणान्तरमाह —

यथा चेति ।

दृष्टान्तद्वयमनूद्य दार्ष्टान्तिकमाचष्टे —

तथा चेति ।

इहेति मोक्षशास्त्रोक्तिः । तथाऽपि कल्पितप्रपञ्चसंबन्धप्रयुक्तं सविशेषत्वं ब्रह्मणः स्यादित्याशङ्क्याऽऽह —

पुनरिति ।

तस्मिन्नात्मनि कल्पितः सृष्ट्यादिरुपायस्तेन जनितो विशेषस्तस्मिन्कारणत्वादिस्तस्य निरासार्थमिति यावत् ।

तर्हि द्वैताभावविशिष्टं तत्त्वमिति चेन्नेत्याह —

तदुपसंहृतमिति ।

परिशुद्धं भाववदभावेनापि न संस्पृष्टमित्यर्थः । केवलमित्यद्वितीयोक्तिः ।

सृष्ट्यादिवचनस्य गतिमुक्त्वा प्रकृतमुपसंहरति —

सफलमिति ।

इतिशब्दः संग्रहसमाप्त्यर्थो ब्राह्मणसमाप्त्यर्थो वा ॥ २५ ॥