समाप्ते शारीरकब्राह्मणे वंशब्राह्मणं व्याख्यातव्यं कृतं गतार्थेन मैत्रेयीब्राह्मणेनेत्याशङ्क्य मधुकाण्डार्थमनुद्रवति —
आगमेति ।
पाञ्चमिकमर्थमनुभाषते —
पुनरिति ।
तस्यैव ब्रह्मणस्तत्त्वमिति शेषः । विगृह्यवादो जयपराजयप्रधानो जल्पन्यायः ।
षष्ठ प्रतिष्ठापितमनुवदति —
शिष्येति ।
प्रश्नप्रतिवचनन्यायस्तत्त्वनिर्णयप्रधानो वादः । उपसंहृतं तदेव तत्त्वमिति शेषः ।
संप्रत्युत्तरब्राह्मणस्यागतार्थत्वमाह —
अथेति ।
आगमोपपत्तिभ्यां निश्चिते तत्त्वे निगमनमकिञ्चित्करमित्याशङ्क्याऽऽह —
अयं चेति ।
प्रकारान्तरेण संगतिमाह —
अथवेति ।
कथमिह तर्केणाधिगतिस्तत्राऽऽह —
तर्केति ।
मुनिकाण्डस्य तर्कप्रधानत्वे किं स्यात्तदाह —
तस्मादिति ।
इति फलतीति शेषः ।
शास्त्रादिना यथोक्तस्य ज्ञानस्य निश्चितत्त्वेऽपि किं सिध्यति तदाह —
तस्माच्छास्त्रश्रद्धावद्भिरिति ।
एतच्छब्दो यथोक्तज्ञानपरामर्शार्थः । इति सिध्यतीति शेषः ।
तत्र हेतुमाह —
आगमेति ।
अव्यभिचारान्मानयुक्तिगम्यस्यार्थस्य तथैव सत्त्वादिति यावत् । इतिशब्दो ब्राह्मणसंगतिसमाप्त्यर्थः ।
तात्पर्यार्थे व्याख्याते सत्यक्षरव्याख्यानप्रसक्तावाह —
अक्षराणां त्विति ।
तर्हि ब्राह्मणेऽस्मिन्वक्तव्याभावात्परिसमाप्तिरेवेत्याशङ्क्याऽऽह —
यानीति ।