बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स यथा सर्वासामपां समुद्र एकायनमेवं सर्वेषां स्पर्शानां त्वगेकायनमेवं सर्वेषां गन्धानां नासिके एकायनमेवं सर्वेषां रसानां जिह्वैकायनमेवं सर्वेषां रूपाणां चक्षुरेकायनमेवं सर्वेषां शब्दानां श्रोत्रमेकायनमेवं सर्वेषां सङ्कल्पानां मन एकायनमेवं सर्वासां विद्यानां हृदयमेकायनमेवं सर्वेषां कर्मणा हस्तावेकायनमेवं सर्वेषामानन्दानामुपस्थ एकायनमेवं सर्वेषां विसर्गाणां पायुरेकायनमेवं सर्वेषामध्वनां पादावेकायनमेवं सर्वेषां वेदानां वागेकायनम् ॥ १२ ॥
चतुर्थे शब्दनिश्वासेनैव लोकाद्यर्थनिश्वासः सामर्थ्यात् उक्तो भवतीति पृथक् नोक्तः । इह तु सर्वशास्त्रार्थोपसंहार इति कृत्वा अर्थप्राप्तोऽप्यर्थः स्पष्टीकर्तव्य इति पृथगुच्यते ॥

स यथाऽऽद्रैधाग्नेरित्यादाविष्टं हुतमित्याद्यधिकं दृष्टं तस्यार्थमाह —

चतुर्थ इति ।

सामर्थ्यादर्थशून्यस्य शब्दस्यानुपपत्तेरित्यर्थः ।

नन्वत्रापि सामर्थ्याविशेषात्पृथगुक्तिरयुक्तेत्याशङ्क्याऽऽह —

इह त्विति ॥ ११ ॥ १२ ॥