बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवैवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्यः ॥ १३ ॥
सर्वकार्यप्रलये विद्यानिमित्ते, सैन्धवघनवत् अनन्तरः अबाह्यः कृत्स्नः प्रज्ञानघन एक आत्मा अवतिष्ठते ; पूर्वं तु भूतमात्रासंसर्गविशेषात् लब्धविशेषविज्ञानः सन् ; तस्मिन् प्रविलापिते विद्यया विशेषविज्ञाने तन्निमित्ते च भूतसंसर्गे न प्रेत्य संज्ञा अस्ति — इत्येवं याज्ञवल्क्येनोक्ता ॥

स यथा सैन्धवघन इत्यादिवाक्यतात्पर्यमाह —

सर्वकार्येति ।

 एतेभ्यो भूतेभ्य इत्यादेरर्थमाह —

पूर्वं त्विति ।

ज्ञानोदयात्प्रागवस्थायामित्यर्थः । लब्धविशेषविज्ञानः सन्व्यवहरतीति शेषः । प्रविलापितं तस्येत्यध्याहारः ॥ १३ ॥