प्रत्यध्यायमन्यथाऽन्यथा प्रतिपादनादात्मनः सविशेषत्वमाशङ्क्य स एष इत्यादेस्तात्पर्यमाह —
चतुर्ष्वपीति ।
केन प्रकारेण तस्य तुल्यत्वमित्याशङ्क्याऽऽह —
परं ब्रह्मेति ।
अध्यायभेदस्तर्हि कथमित्याशङ्क्याऽऽह —
उपायेति ।
उपायभेदवदुपेयभेदोऽपि स्यादित्याशङ्क्याऽऽह —
उपेयस्त्विति ।
चातुर्थिकादर्थात्पाञ्चमिकस्यार्थस्य भेदं व्यावर्तयति —
स एवेति ।
प्राणपणोपन्यासेन मूर्धा ते विपतिष्यतीति मूर्धपातोपन्यासात्प्राणाः पणत्वेन गृहीता इति गम्यते । तेन शाकल्यब्राह्मणेन निर्विशेषः प्रत्यगात्मा निर्धारित इत्यर्थः ।
विज्ञानमानन्दं ब्रह्मेत्यादावुक्तं स्मारयति —
पुनरिति ।
पञ्चमसमाप्तौ पुनर्विज्ञानमित्यादिना स एव निर्धारित इति योजना ।
कूर्चब्राह्मणादावपि स एवोक्त इत्याह —
पुनर्जनकेति ।
अस्मिन्नपि ब्राह्मणे स एवोक्त इत्याह —
पुनरिहेति ।
किमिति पूर्वत्र तत्र तत्रोक्तस्य निर्विशेषस्याऽऽत्मनोऽवसाने वचनमित्याशङ्क्याऽऽह —
चतुर्णामपीति ।
पौर्वापर्यपर्यालोचनायामुपनिषदर्थो निर्विशेषमात्मतत्त्वमित्युपपाद्य वाक्यान्तरमवतार्य व्याकरोति —
यस्मादित्यादिना ।
इति होक्त्वेत्यादिवाक्यमाकाङ्क्षापूर्वकमादाय व्याचष्टे —
यत्पृष्टवत्यसीत्यादिना ।
ब्राह्मणार्थमुपसंहरति —
परिसमाप्तेति ।
तथाऽप्युपदेशान्तरं कर्तव्यमस्तीत्याशङ्क्याऽऽह —
एतावानिति ।
किमत्र प्रमाणमिति तदाह —
एतदिति ।
तथाऽपि परमा निष्ठा संन्यासिनो वक्तव्येति चेन्नेत्याह —
एषेति ।
आत्मज्ञाने ससंन्यासे सत्यपि पुरुषार्थान्तरं कर्तव्यमस्तीत्याशङ्क्याह —
एष इति ।
इतिशब्दो ब्राह्मणसमाप्त्यर्थः ।